[धृ] तदवस्थे हते तस्मिन भूरिश्रवसि कौरवे यथा भूयॊ ऽभवद युद्धं तन ममाचक्ष्व संजय ॥ 1 ॥
[स] भूरिश्रवसि संक्रान्ते परलॊकाय भारत वासुदेवं महाबाहुर अर्जुनः समचूचुदत ॥ 2 ॥
चॊदयाश्वान भृशं कृष्ण यतॊ राजा जयद्रथः अस्तम एति महाबाहॊ तवरमाणॊ दिवाकरः ॥ 3 ॥
एतद धि पुरुषव्याघ्र महद अभ्युद्यतं मया कार्यं संरक्ष्यते चैष कुरु सेना महारथैः ॥ 4 ॥
नास्तम एति यथा सूर्यॊ यथासत्यं भवेद वचः चॊदयाश्वांस तथा कृष्ण यथा हन्यां जयद्रथम ॥ 5 ॥
ततः कृष्णॊ महाबाहू रजतप्रतिमान हयान हयज्ञश चॊदयाम आस जयद्रथरथं परति ॥ 6 ॥
तं परयान्तम अमॊघेषुम उत्पतद्भिर इवाशुगैः तवरमाणा महाराज सेनामुख्याः समाव्रजन ॥ 7 ॥
दुर्यॊधनश च कर्णश च वृषसेनॊ ऽथ मद्रराट अश्वत्थामा कृपश चैव सवयम एव च सैन्धवः ॥ 8 ॥
समासाद्य तु बीभत्सुः सैन्धवं परमुखे सथितम नेत्राभ्यां करॊधदीप्ताभ्यां संप्रैक्षन निर्दहन्न इव ॥ 9 ॥
ततॊ दुर्यॊधनॊ राजा राधेयं तवरितॊ ऽबरवीत अर्जुनं वीक्ष्य संयान्तं जयद्रथरथं परति ॥ 10 ॥
अयं स वैकर्तन युद्धकालॊ; विदर्शयस्वात्मबलं महात्मन यथा न वध्येत रणे ऽरजुनेन; जयद्रथः कर्ण तथा कुरुष्व ॥ 11 ॥
अल्पावशिष्टं दिवसं नृवीर; विघातयस्वाद्य रिपुं शरौघैः दिनक्षयं पराप्य नरप्रवीर; धरुवं हि नः कर्णजयॊ भविष्यति ॥ 12 ॥
सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमयं परति मिथ्याप्रतिज्ञः कौन्तेयः परवेक्ष्यति हुताशनम ॥ 13 ॥
अनर्जुनायां च भुवि मुहूर्तम अपि मानद जीवितुं नॊत्सहेरन वै भरातरॊ ऽसय सहानुगाः ॥ 14 ॥
विनष्टैः पाण्डवेयैश च स शैलवनकाननाम वसुंधराम इमां कर्ण भॊक्ष्यामॊ हतकण्टकाम ॥ 15 ॥
दैवेनॊपहतः पार्थॊ विपरीतश च मानद कार्याकार्यम अजानन वै परतिज्ञां कृतवान रणे ॥ 16 ॥
नूनम आत्मविनाशाय पाण्डवेन किरीटिना परतिज्ञेयं कृता कर्णजयद्रथवधं परति ॥ 17 ॥
कथं जीवति दुर्धर्षे तवयि राधेय फल्गुनः अनस्तं गत आदित्ये हन्यात सैन्धवकं नृपम ॥ 18 ॥
रक्षितं मद्रराजेन कृपेण च महात्मना जयद्रथं रणमुखे कथं हन्याद धनंजयः ॥ 19 ॥
दरौणिना रक्ष्यमाणं च मया दुःशासनेन च कथं पराप्स्यति बीभत्सुः सैन्धवं कालचॊदितः ॥ 20 ॥
युध्यने बहवः शूरा लम्बते च दिवाकरः शङ्के जयद्रथं पार्थॊ नैव पराप्स्यति मानद ॥ 21 ॥
स तवं कर्ण मया सार्धं शूरैश चान्यैर महारथैः युध्यस्व यत्नम आस्थाय परं पार्थेन संयुगे ॥ 22 ॥
एवम उक्तस तु राधेयस तव पुत्रेण मारिष दुर्यॊधनम इदं वाक्यं पत्युवाच कुरूत्तमम ॥ 23 ॥
दृढलक्ष्येण शूरेण भीमसेनेन धन्विना भृशम उद्वेजितः संख्ये शरजालैर अनेकशः ॥ 24 ॥
सथातव्यम इति तिष्ठामि रणे संप्रति मानद नैवाङ्गम इङ्गति किं चिन मे संतप्तस्य रणेषुभिः ॥ 25 ॥
यॊत्स्यामि तु तथा राजञ शक्त्याहं परया रणे यथा पाण्डवमुख्यॊ ऽसौ न हनिष्यति सैन्धवम ॥ 26 ॥
न हि मे युध्यमानस्य सायकांश चास्यतः शितान सैन्धवं पराप्स्यते वीरः सव्यसाची धनंजयः ॥ 27 ॥
यत तु शक्तिमता कार्यं सततं हितकारिणा तत करिष्यामि कौरव्य जयॊ दैवे परतिष्ठितः ॥ 28 ॥
अद्य यॊत्स्ये ऽरजुनम अहं पौरुषं सवं वयपाश्रितः तवदर्थं पुरुषव्याघ्र जयॊ दैवे परतिष्ठितः ॥ 29 ॥
अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चॊभयॊः पश्यन्तु सर्वभूतानि दारुणं लॊमहर्षणम ॥ 30 ॥
कर्ण कौरवयॊर एवं रणे संभाषमाणयॊः अर्जुनॊ निशितैर बाणैर जघान तव वाहिनीम ॥ 31 ॥
चिच्छेद तीक्ष्णाग्रमुखैः शूराणाम अनिवर्तिनाम भुजान परिघसंकाशान हस्तिहस्तॊपमान रणे ॥ 32 ॥
शिरांसि च महाबाहुश चिच्छेद निशितैः शरैः हस्तिहस्तान हयग्रीवा रथाक्षांश च समन्ततः ॥ 33 ॥
शॊणिताक्षान हयारॊहान गृहीतप्रास तॊमरान कषुरैश चिच्छेद बीभत्सुर दविधैकैकं तरिधैव च ॥ 34 ॥
हयवारणमुह्याश च परापयन्त सहस्रशः धवजाश छत्राणि चापानि चामराणि शिरांसि च ॥ 35 ॥
कक्षम अग्निम इवॊद्धूतः परदहंस तव वाहिनीम अचिरेण महीं पार्थश चकार रुधिरॊत्तराम ॥ 36 ॥
हतभूयिष्ठ यॊधं तत कृत्वा तव बलं बली आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ॥ 37 ॥
बीभत्सुर भीमसेनेन सात्वतेन च रक्षितः स बभौ भरतश्रेष्ठ जवलन्न इव हुताशनः ॥ 38 ॥
तं तथावस्थितं दृष्ट्वा तवदीया वीर्यसंमताः नामृष्यन्त महेष्वासाः फल्गुनं पुरुषर्षभाः ॥ 39 ॥
दुर्यॊधनश च कर्णश च वृषसेनॊ ऽथ मद्रराट अश्वत्थामा कृपश चैव सवयम एव च सैन्धवः ॥ 40 ॥
संरब्धाः सैन्धवस्यार्थे समावृण्वन किरीटिनम नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिस्वनैः ॥ 41 ॥
संग्रामकॊविदं पार्थं सर्वे युद्धविशारदाः अभीताः पर्यवर्तन्त वयादितास्यम इवान्तकम ॥ 42 ॥
सैन्धवं पृष्ठतः कृत्वा जिघांसन्तॊ ऽरजुनाच्युतौ सूर्यास्तमयम इच्छन्तॊ लॊहितायति भास्करे ॥ 43 ॥
ते भुजैर भॊगि भॊगाभैर धनूंष्य आयम्य सायकान मुमुचुः सूर्यरश्म्य आभाञ शतशः फल्गुनं परति ॥ 44 ॥
तान अस्तान अस्यमानांश च किरीटी युद्धदुर्मदः दविधा तरिधाष्टधैकैकं छित्त्वा विव्याध तान रणे ॥ 45 ॥
सिंहलाङ्गूल केतुस तु दर्शयञ शक्तिम आत्मनः शारद्वती सुतॊ राजन्न अर्जुनं परत्यवारयत ॥ 46 ॥
स विद्ध्वा दशभिः पार्थं वासुदेवं च सप्तभिः अतिष्ठद रथमार्गेषु सैन्धवं परिपालयन ॥ 47 ॥
अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः महता रथवंशेन सर्वतः पर्यवारयन ॥ 48 ॥
विस्फारयन्तश चापानि विसृजन्तश च सायकान सैन्धवं पर्यरक्षन्त शासनात तनयस्य ते ॥ 49 ॥
तत्र पार्थस्य शूरस्य बाह्वॊर बलम अदृश्यत ऋषूणाम अक्षयत्वं च धनुषॊ गाण्डिवस्य च ॥ 50 ॥
अस्त्रैर अस्त्राणि संवार्य दरौणेः शारद्वतस्य च एकैकं नवभिर बाणैः सर्वान एव समर्पयत ॥ 51 ॥
तं दरौणिः पञ्चविंशत्या वृषसेनश च सप्तभिः दुर्यॊधनश च विंशत्या कर्ण शल्यौ तरिभिस तरिभिः ॥ 52 ॥
त एनम अभिगर्जन्तॊ विध्यन्तश च पुनः पुनः विधुन्वन्तश च चापानि सर्वतः पर्यवारयन ॥ 53 ॥
शलिष्टं तु सर्वतश चक्रू रथमण्डलम आशु ते सूर्यास्तमयम इच्छन्तस तरवमाणा महारथाः ॥ 54 ॥
त एनम अभिनर्दन्तॊ विधुन्वाना धनूंषि च सिषिचुर मार्गणैर घॊरैर गिरिं मेघा इवाम्बुभिः ॥ 55 ॥
ते महास्त्राणि दिव्यानि तत्र राजन वयदर्शयन धनंजयस्य गात्रेषु शूराः परिघबाहवः ॥ 56 ॥
हतभूयिष्ठ यॊधं तत कृत्वा तव बलं बली आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ॥ 57 ॥
तं कर्णः संयुगे राजन परत्यवारयद आशुगैः मिषतॊ भीमसेनस्य सात्वतस्य च भारत ॥ 58 ॥
तं पार्थॊ दशभिर बाणैः परत्यविध्यद रणाजिरे सूतपुत्रं महाबाहुः सर्वसैन्यस्य पश्यतः ॥ 59 ॥
सात्वतश च तरिभिर बाणैः कर्णं विव्याध मारिष भीमसेनस तरिभिश चैव पुनः पार्थश च सप्तभिः ॥ 60 ॥
तान कर्णः परतिविव्याध षष्ट्या षष्ट्या महारथः तद युद्धम अभवद राजन कर्णस्य बहुभिः सह ॥ 61 ॥
तत्राद्भुतम अपश्याम सूतपुत्रस्य मारिष यद एकः समरे करुद्धस तरीन रथान पर्यवारयत ॥ 62 ॥
फल्गुनस तु महाबाहुः कर्णं वैकर्तनं रणे सायकानां शतेनैव सर्वमर्मस्व अताडयत ॥ 63 ॥
रुधिरॊक्षितसर्वाङ्गः सूतपुत्रः परतापवान शरैः पञ्चाशता वीरः फल्गुनं परत्यविध्यत तस्य तल लाघवं दृष्ट्वा नामृष्यत रणे ऽरजुनः ॥ 64 ॥
ततः पार्थॊ धनुश छित्त्वा विव्याधैनं सतनान्तरे सायकैर नवभिर वीरस तवरमाणॊ धनंजयः ॥ 65 ॥
वधार्थं चास्य समरे सायकं सूर्यवर्चसम चिक्षेप तवरया युक्तस तवरा काले धनंजयः ॥ 66 ॥
तम आपतन्तं वेगेन दरौणिश चिच्छेद सायकम अर्धचन्द्रेण तीक्ष्णेन स छिन्नः परापतद भुवि ॥ 67 ॥
अथान्यद धनुर आदाय सूतपुत्रः परतापवान कर्णॊ ऽपि दविषतां हन्ता छादयाम आस फल्गुनम सायकैर बहुसाहस्रैः कृतप्रतिकृतेप्सया ॥ 68 ॥
तौ वृषाव इव नर्दन्तौ नरसिंहौ महारथौ सायकौघप्रतिच्छन्नं चक्रतुः खम अजिह्मगैः अदृश्यौ च शरौघैस तौ निघ्नताम इतरेतरम ॥ 69 ॥
पार्थॊ ऽहम अस्मि तिष्ठ तवं कर्णॊ ऽहं तिष्ठ फल्गुन इत्य एवं तर्जयन्तौ तौ वाक्शल्यैस तुदतां तथा ॥ 70 ॥
युध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च परेक्षणीयौ चाभवतां सर्वयॊधसमागमे ॥ 71 ॥
परशस्यमानौ समरे सिद्धचारणवातिकैः अयुध्येतां महाराज परस्परवधैषिणौ ॥ 72 ॥
ततॊ दुर्यॊधनॊ राजंस तावकान अभ्यभाषत यत्ता रक्षत राधेयं नाहत्वा समरे ऽरजुनम निवर्तिष्यति राधेय इति माम उक्तवान वृषः ॥ 73 ॥
एतस्मिन्न अन्तरे राजन दृष्ट्वा कर्णस्य विक्रमम आकर्णमुक्तैर इषुभिः कर्णस्य चतुरॊ हयान अनयन मृत्युलॊकाय चतुर्भिः सायकॊत्तमैः ॥ 74 ॥
सारथिं चास्य भल्लेन रथनीडाद अपाहरत छादयाम आस च शरैस तव पुत्रस्य पश्यतः ॥ 75 ॥
स छाद्यमानः समरे हताश्वॊ हतसारथिः मॊहितः शरजालेन कर्तव्यं नाभ्यपद्यत ॥ 76 ॥
तं तथा विरथं दृष्ट्वा रथम आरॊप्य सवं तदा अश्वत्थामा महाराज भूयॊ ऽरजुनम अयॊघयत ॥ 77 ॥
मद्रराजस तु कौन्तेयम अविध्यत तरिंशता शरैः शारद्वतस तु विंशत्या वासुदेवं समार्पयत धनंजयं दवादशभिर आजघान शिलीमुखैः ॥ 78 ॥
चतुर्भिः सिन्धुराजश च वृषसेनश च सप्तभिः पृथक पृथन महाराज कृष्ण पार्थाव अविध्यताम ॥ 79 ॥
तथैव तान परत्यविध्यत कुन्तीपुत्रॊ धनंजयः दरॊणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च ॥ 80 ॥
सैन्धवं दशभिर भल्लैर वृषसेनं तरिभिः शरैः शारद्वतं च विंशत्या विद्ध्वा पार्थः समुन्नदत ॥ 81 ॥
ते परतिज्ञा परतीघातम इच्छन्तः सव्यसाचिनः सहितास तावकास तूर्णम अभिपेतुर धनंजयम ॥ 82 ॥
अथार्जुनः सर्वतॊ धारम अस्त्रं; परादुश्चक्रे तरासयन धार्तराष्ट्रान तं परत्युदीयुः कुरवः पाण्डुसूनुं; रथैर महार्हैः शरवर्षाण्य अवर्षन ॥ 83 ॥
ततस तु तस्मिंस तुमुले समुत्थिते; सुदारुणे भारत मॊहनीये नामुह्यत पराप्य स राजपुत्रः; किरीटमालि विसृजन पृषत्कान ॥ 84 ॥
राज्यप्रेप्सुः सव्यसाची कुरूणां; समरन कलेशान दवादश वर्षवृत्तान गाण्डीवमुक्तैर इषुभिर महात्मा; सर्वा दिशॊ वयावृणॊद अप्रमेयैः ॥ 85 ॥
परदीप्तॊल्कम अभवच चान्तरिक्षं; देहेषु भूरीण्य अपतन वयांसि यत पिङ्गल जयेन किरीटमाली; करुद्धॊ रिपून आजगवेन हन्ति ॥ 86 ॥
किरीटमाली महता महायशाः; शरासनेनास्य शरान अनीकजित हयप्रवेकॊत्तम नागधूर गतान; कुरुप्रवीरान इषुभिर नयपातयत ॥ 87 ॥
गदाश च गुर्वीः परिघान अयस्मयान; असींश च शक्तीश च रणे नराधिपाः महान्ति शस्त्राणि च भीमदर्शनाः; परगृह्य पार्थं सहसाभिदुद्रुवुः ॥ 88 ॥
स तान उदीर्णान स रथाश्ववारणान; पदातिसंघांश च महाधनुर्धरः विपन्नसर्वायुधजीवितान रणे; चकार वीरॊ यम राष्ट्रवर्धनान ॥ 89 ॥
द्रोणपर्व · Drona Parva
अध्याय 120
Reach this point to mark the section finished.
Continue to अध्याय 121