धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 119

  1. [धृ] अजितॊ दरॊण राधेय विकर्ण कृतवर्मभिः तीर्णः सैन्यार्णवं वीरः परतिश्रुत्य युधिष्ठिरे ॥ 1 ॥

  2. स कथं कौरवेयेण समरेष्व अनिवारितः निगृह्य भूरिश्रवसा बलाद भुवि निपातितः ॥ 2 ॥

  3. [स] शृणु राजन्न इहॊत्पत्तिं शैनेयस्य यथा पुरा यथा च भूरिश्रवसॊ यत्र ते संशयॊ नृप ॥ 3 ॥

  4. अत्रेः पुत्रॊ ऽभवत सॊमः सॊमस्य तु बुधः समृतः बुधस्यासीन महेन्द्राभः पुत्र एकः पुरूरवाः ॥ 4 ॥

  5. पुरूरवस आयुस तु आयुषॊ नहुषः समृतः नजुषस्य ययातिस तु राजर्षिर देवसंमतिः ॥ 5 ॥

  6. ययातेर देव यान्यां तु यदुर जयेष्ठॊ ऽभवत सुतः यदॊर अभूद अन्ववाये देवमीढ इति शरुतिः ॥ 6 ॥

  7. यादवस तस्य च सुतः शूरस तरैलॊक्यसंमतः शूरस्य शौरिर नृवरॊ वसुदेवॊ महायशाः ॥ 7 ॥

  8. धनुष्य अनावरः शूरः कार्तवीर्यसमॊ युधि तद वीर्यश चापि तत्रैव कुले शिनिर अभून नृपः ॥ 8 ॥

  9. एतस्मिन्न एव काले तु देवकस्य महात्मनः दुहितुः सवयंवरे राजन सर्वक्षत्रसमागमे ॥ 9 ॥

  10. तत्र वै देवकीं देवीं वसुदेवार्थम आप्तवान निर्जित्य पार्थिवान सर्वान रथम आरॊपयच छिनिः ॥ 10 ॥

  11. तां दृष्ट्वा देवकीं शौरे रथस्थां पुरुषर्षभः नामृष्यत महातेजाः सॊमदत्तः शिनेर नृप ॥ 11 ॥

  12. तयॊर युद्धम अभूद राजन दिनार्धं चित्रम अद्भुतम बाहुयुद्धं सुबलिनॊः शक्र परह्रादयॊर इव ॥ 12 ॥

  13. शिनिना सॊमदत्तस तु परसह्य भुवि पातितः असिम उद्यम्य केशेषु परगृह्य च पदा हतः ॥ 13 ॥

  14. मध्ये राजसहस्राणां परेक्षकाणां समन्ततः कृपया च पुनस तेन जीवेति स विसर्जितः ॥ 14 ॥

  15. तदवस्थः कृतस तेन सॊमदत्तॊ ऽथ मारिष परसादयन महादेवम अमर्षवशम आस्थितः ॥ 15 ॥

  16. तस्य तुष्टॊ महादेवॊ वराणां वरदः परभुः वरेण छन्दयाम आस स तु वव्रे वरं नृपः ॥ 16 ॥

  17. पुत्रम इच्छामि भगवन यॊ निहन्याच छिनेः सुतम मध्ये राजसहस्राणां पदा हन्याच च संयुगे ॥ 17 ॥

  18. तस्य तद वचनं शरुत्वा सॊमदत्तस्य पार्थिव एवम अस्त्व इति तत्रॊक्त्वा स देवॊ ऽनतरधीयत ॥ 18 ॥

  19. स तेन वरदानेन लब्धवान भूरिदक्षिणम नयपातयच च समरे सौमदत्तिः शिनेः सुतम ॥ 19 ॥

  20. एतत ते कथितं राजन यन मां तवं परिपृच्छसि न हि शक्या रणे जेतुं सात्वता मनुजर्षभ ॥ 20 ॥

  21. लब्धलक्ष्याश च संग्रामे बहवश चित्रयॊधिनः देवदानवगन्धर्वान विजेतारॊ हय अविस्मिताः सववीर्यविजये युक्ता नैते परपरिग्रहाः ॥ 21 ॥

  22. न तुल्यं वृष्णिभिर इह दृश्यते किं चन परभॊ भूतं भव्यं भविष्यच च बलेन भरतर्षभ ॥ 22 ॥

  23. न जञातिम अवमन्यन्ते वृद्धानां शासने रताः न देवासुरगन्धर्वा न यक्षॊरग राक्षसाः जेतारॊ वृष्णिवीराणां न पुनर मानुषा रणे ॥ 23 ॥

  24. बरह्म दरव्ये गुरु दरव्ये जञातिद्रव्ये ऽपय अहिंसकाः एतेषां रक्षितारश च ये सयुः कस्यां चिद आपदि ॥ 24 ॥

  25. अर्थवन्तॊ न चॊत्सिक्ता बरह्मण्याः सत्यवादिनः समर्थान नावमन्यन्ते दीनान अभ्युद्धरन्ति च ॥ 25 ॥

  26. नित्यं देव परा दान्ता दातारश चाविकत्थनाः तेन वृष्णिप्रवीराणां चक्रं न परतिहन्यते ॥ 26 ॥

  27. अपि मेरुं वहेत कश चित तरेद वा मकरालयम न तु वृष्णिप्रवीराणां समेत्यान्तं वरजेन नृप ॥ 27 ॥

  28. एतत ते सर्वम आख्यातं यत्र ते संशयॊ विभॊ कुरुराजनरश्रेष्ठ तव हय अपनयॊ महान ॥ 28 ॥

Reach this point to mark the section finished.

Continue to अध्याय 120

Previous: अध्याय 118