धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 11

  1. [स] हन्त ते वर्णयिष्यामि सर्वं परत्यक्षदर्शिवान यथा स नयपतद दरॊणः सादितः पाण्डुसृञ्जयैः ॥ 1 ॥

  2. सेनापतित्वं संप्राप्य भारद्वाजॊ महारथः मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यम अब्रवीत ॥ 2 ॥

  3. यत कौरवाणाम ऋषभाद आपगेयाद अनन्तरम सेनापत्येन मां राजन्न अद्य सत्कृतवान असि ॥ 3 ॥

  4. सदृशं कर्मणस तस्य फलं पराप्नुहि पार्थिव करॊमि कामं कं ते ऽदय परवृणीष्व यम इच्छसि ॥ 4 ॥

  5. ततॊ दुर्यॊधनश चिन्त्य कर्ण दुःशासनादिभिः तम अथॊवाच दुर्धर्षम आचार्यं जयतां वरम ॥ 5 ॥

  6. ददासि चेद वरं मह्यं जीवग्राहं युधिष्ठिरम गृहीत्वा रथिनां शरेष्ठं मत्समीपम इहानय ॥ 6 ॥

  7. ततः कुरूणाम आचार्यः शरुत्वा पुत्रस्य ते वचः सेनां परहर्षयन सर्वाम इदं वचनम अब्रवीत ॥ 7 ॥

  8. धन्यः कुन्तीसुतॊ राजा यस्य गरहणम इच्छसि न वधार्थं सुदुर्धर्ष वरम अद्य परयाचसि ॥ 8 ॥

  9. किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसि नाशंससि करियाम एतां मत्तॊ दुर्यॊधन धरुवम ॥ 9 ॥

  10. आहॊ सविद धर्मपुत्रस्य दवेष्टा तस्य न विद्यते यद इच्छसि तवं जीवन्तं कुलं रक्षसि चात्मनि ॥ 10 ॥

  11. अथ वा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान राज्यांशं परतिदत्त्वा च सौभ्रात्रं कर्तुम इच्छसि ॥ 11 ॥

  12. धन्यः कुन्तीसुतॊ राजा सुजाता चास्य धीमतः अजातशत्रुता सत्या तस्य यत सनिह्यते भवान ॥ 12 ॥

  13. दरॊणेन तव एवम उक्तस्य तव पुत्रस्य भारत सहसा निःसृतॊ भावॊ यॊ ऽसय नित्यं परवर्तते ॥ 13 ॥

  14. नाकारॊ गूहितं शक्यॊ बृहस्पतिसमैर अपि तस्मात तव सुतॊ राजन परहृष्टॊ वाक्यम अब्रवीत ॥ 14 ॥

  15. वधे कुन्तीसुतस्याजौ नाचार्य विजयॊ मम हते युधिष्ठिरे पार्थॊ हन्यात सर्वान हि नॊ धरुवम ॥ 15 ॥

  16. न च शक्यॊ रणे सर्वैर निहन्तुम अमरैर अपि य एव चैषां शेषः सयात स एवास्मान न शेषयेत ॥ 16 ॥

  17. सत्यप्रतिज्ञे तव आनीते पुनर्द्यूतेन निर्जिते पुनर यास्यन्त्य अरण्याय कौन्तेयास तम अनुव्रताः ॥ 17 ॥

  18. सॊ ऽयं मम जयॊ वयक्तं दीर्घकालं भविष्यति अतॊ न वधम इच्छामि धर्मराजस्य कर्हि चित ॥ 18 ॥

  19. तस्य जिह्मम अभिप्रायं जञात्वा दरॊणॊ ऽरथतत्त्ववित तं वरं सान्तरं तस्मै ददौ संचिन्त्य बुद्धिमान ॥ 19 ॥

  20. [दर्न] न चेद युधिष्ठिरं वीर पालयेद अर्जुनॊ युधि मन्यस्व पाण्डवं जयेष्ठम आनीतं वशम आत्मनः ॥ 20 ॥

  21. न हि पार्थॊ रणे शक्यः सेन्द्रैर देवासुरैर अपि परत्युद्यातुम अतस तात नैतद आमर्षयाम्य अहम ॥ 21 ॥

  22. असंशयं स शिष्यॊ मे मत पूर्वश चास्त्रकर्मणि तरुणः कीर्तियुक्तश च एकायनगतश च सः ॥ 22 ॥

  23. अस्त्राणीन्द्राच च रुद्राच च भूयांसि समवाप्तवान अमर्षितश च ते राजंस तेन नामर्षयाम्य अहम ॥ 23 ॥

  24. स चापक्रम्यतां युद्धाद येनॊपायेन शक्यते अपनीते ततः पार्थे धर्मराजॊ जितस तवया ॥ 24 ॥

  25. गरहणं चेज जयं तस्य मन्यसे पुरुषर्षभ एतेन चाभ्युपायेन धरुवं गरहणम एष्यति ॥ 25 ॥

  26. अहं गृहीत्वा राजानं सत्यधर्मपरायणम आनयिष्यामि ते राजन वशम अद्य न संशयः ॥ 26 ॥

  27. यदि सथास्यति संग्रामे मुहूर्तम अपि मे ऽगरतः अपनीते नरव्याघ्रे कुन्तीपुत्रे धनंजये ॥ 27 ॥

  28. फल्गुनस्य समक्षं तु न हि पार्थॊ युधिष्ठिरः गरहीतुं समरे शक्यः सेन्द्रैर अपि सुरासुरैः ॥ 28 ॥

  29. [स] सान्तरं तु परतिज्ञाते राज्ञॊ दरॊणेन निग्रहे गृहीतं तम अमन्यन्त तव पुत्राः सुबालिशाः ॥ 29 ॥

  30. पाण्डवेषु हि सापेक्षं दरॊणं जानाति ते सुतः ततः परतिज्ञा सथैर्यार्थं स मन्त्रॊ बहुलीकृतः ॥ 30 ॥

  31. ततॊ दुर्यॊधनेनापि गरहणं पाण्डवस्य तत सैन्यस्थानेषु सर्वेषु वयाघॊषितम अरिंदम ॥ 31 ॥

Reach this point to mark the section finished.

Continue to अध्याय 12

Previous: अध्याय 10