धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 118

  1. [स] स बाहुर अपतद भूमौ स खड्गः स शुभाङ्गदः आदधज जीवलॊकस्य दुःखम उत्तमम उत्तमः ॥ 1 ॥

  2. परहरिष्यन हृतॊ बाहुर अदृश्येन किरीटिना वेगेनाभ्यपतद भूमौ पञ्चास्य इव पन्नगः ॥ 2 ॥

  3. स मॊघं कृतम आत्मानं दृष्ट्वा पार्थेन कौरवः उत्सृज्य सात्यकिं करॊधाद गर्हयाम आस पाण्डवम ॥ 3 ॥

  4. नृशंसं बत कौन्तेय कर्मेदं कृतवान असि अपश्यतॊ विषक्तस्य यन मे बाहुम अचिच्छिदः ॥ 4 ॥

  5. किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम किं कुर्वाणॊ मया संख्ये हतॊ भूरिश्रवा इति ॥ 5 ॥

  6. इदम इन्द्रेण ते साक्षाद उपदिष्टं महात्मना अस्त्रं रुद्रेण वा पार्थ दरॊणेनाथ कृपेण वा ॥ 6 ॥

  7. ननु नाम सवधर्मज्ञस तवं लॊके ऽभयधिकः परैः अयुध्यमानस्य कथं रणे परहृत वान असि ॥ 7 ॥

  8. न परमत्ताय भीताय विरथाय परयाचते वयसने वर्तमानाय परहरन्ति मनस्विनः ॥ 8 ॥

  9. इदं तु नीचाचरितम असत पुरुषसेवितम कथम आचरितं पार्थ तवया कर्म सुदुष्करम ॥ 9 ॥

  10. आर्येण सुकरं हय आहुर आर्य कर्म धनंजय अनार्यकर्म तव आर्येण सुदुष्करतरं भुवि ॥ 10 ॥

  11. येषु येषु नरः पार्थ यत्र यत्र च वर्तते आशु तच छीलताम एति तद इदं तवयि दृश्यते ॥ 11 ॥

  12. कथं हि राजवंश्यस तवं कौरवेयॊ विशेषतः कषत्रधर्माद अपक्रान्तः सुवृत्तश चरितव्रतः ॥ 12 ॥

  13. इदं तु यद अतिक्षुद्रं वार्ष्णेयार्थे कृतं तवया वासुदेव मतं नूनं नैतत तवय्य उपपद्यते ॥ 13 ॥

  14. कॊ हि नाम परमत्ताय परेण सह युध्यते ईदृशं वयसनं दद्याद यॊ न कृष्ण सखॊ भवेत ॥ 14 ॥

  15. वरात्याः संश्लिष्ट कर्माणः परकृत्यैव विगर्हिताः वृष्ण्यन्धकाः कथं पार्थ परमाणं भवता कृताः ॥ 15 ॥

  16. एवम उक्त्वा महाबाहुर यूपकेतुर महायशाः युयुधानं परित्यज्य रणे परायम उपाविशत ॥ 16 ॥

  17. शरान आस्तीर्य सव्येन पाणिना पुण्यलक्षणः यियासुर बरह्मलॊकाय पराणान पराणेष्व अथाजुहॊत ॥ 17 ॥

  18. सूर्ये चक्षुः समाधाय परसन्नं सलिले मनः धयायन महॊपनिषदं यॊगयुक्तॊ ऽभवन मुनिः ॥ 18 ॥

  19. ततः स सर्वसेनायां जनः कृष्ण धनंजयौ गर्हयाम आस तं चापि शशंस पुरुषर्षभम ॥ 19 ॥

  20. निन्द्यमानौ तथा कृष्णौ नॊचतुः किं चिद अप्रियम परशस्यमानश च तथा नाहृष्यद यूपकेतनः ॥ 20 ॥

  21. तांर अथा वादिनॊ राजन पुत्रांस तव धनंजयः अमृष्यमाणॊ मनसा तेषां तस्य च भाषितम ॥ 21 ॥

  22. असंक्रुद्ध मना वाचा समारयन्न इव भारत उवाच पाण्डुतनयः साक्षेपम इव फल्गुनः ॥ 22 ॥

  23. मम सर्वे ऽपि राजानॊ जानन्त्य एतन महाव्रतम न शक्यॊ मामकॊ हन्तुं यॊ मे सयाद बाणगॊचरे ॥ 23 ॥

  24. यूपकेतॊ समीक्ष्य तवं न मां गर्हितुम अर्हसि न हि धर्मम अविज्ञाय युक्तं गर्हयितुं परम ॥ 24 ॥

  25. आत्तशस्त्रस्य हि रणे वृष्णिवीरं जिघांसतः यद अहं बाहुम अच्छैत्सं न स धर्मॊ विगर्हितः ॥ 25 ॥

  26. नयस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः अभिमन्यॊर वधं तात धार्मिकः कॊ न पूजयेत ॥ 26 ॥

  27. एवम उक्तस तु पार्थेन शिरसा भूमिम अस्पृशत पाणिना चैव सव्येन पराहिणॊद अस्य दक्षिणम ॥ 27 ॥

  28. एतत पार्थस्य तु वचस तथ शरुत्वा महाद्युतिः यूपकेतुर महाराज तूष्णीम आसीद अवाङ्मुखः ॥ 28 ॥

  29. [अर्ज] या परीरिद धर्मराजे मे भीमे च वरदां वरे नकुले सहदेवे च सा मे तवयि शलाग्रज ॥ 29 ॥

  30. मया तु समनुज्ञातः कृष्णेन च महात्मना गच्छ पुण्यकृताँल लॊकाञ शिबिरौशीनरौ यथा ॥ 30 ॥

  31. [स] तत उत्थाय शैनेयॊ विमुक्तः सौमदत्तिना खड्गम आदाय चिच्छित्सुः शिरस तस्य महात्मनः ॥ 31 ॥

  32. निहतं पाण्डुपुत्रेण परमत्तं भूरिदक्षिणम इयेष सात्यकिर हन्तुं शलाग्रजम अकल्मषम ॥ 32 ॥

  33. निकृत्तभुजम आसीनं छिन्नहस्तम इव दविपम करॊशतां सर्वसैन्यानां निन्द्यमानः सुदुर्मनाः ॥ 33 ॥

  34. वार्यमाणः स कृष्णेन पार्थेन च महात्मना भीमेन चक्ररक्षाभ्याम अश्वत्थाम्ना कृपेण च ॥ 34 ॥

  35. कर्णेन वृषसेनेन सैन्धवेन तथैव च विक्रॊशतां च सैन्यानाम अवधीत तं यतव्रतम ॥ 35 ॥

  36. परायॊपविष्टाय रणे पार्थेन छिन्नबाहवे सात्यकिः कौरवेन्द्राय खड्गेनापाहरच छिरः ॥ 36 ॥

  37. नाभ्यनन्दन्त तत सैन्याः सात्यकिं तेन कर्मणा अर्जुनेन हतं पूर्वं यज जघान कुरूद्वहम ॥ 37 ॥

  38. सहस्राक्षसमं तत्र सिद्धचारणमानवाः भूरिश्रवसम आलॊक्य युद्धे परायगतं हतम ॥ 38 ॥

  39. अपूजयन्त तं देवा विस्मितास तस्य कर्मभिः पक्षवादांश च बहुशः परावदंस तस्य सैनिकाः ॥ 39 ॥

  40. न वार्ष्णेयस्यापराधॊ भवितव्यं हि तत तथा तस्मान मन्युर न वः कार्यः करॊधॊ दुःखकरॊ नृणाम ॥ 40 ॥

  41. हन्तव्यश चैष वीरेण नात्र कार्या विचारणा विहितॊ हय अस्य धात्रैव मृत्युः सात्यकिर आहवे ॥ 41 ॥

  42. [सात्यकि] न हन्तव्यॊ न हन्तव्य इति यन मां परभाषथ धर्मवादैर अधर्मिष्ठा धर्मकञ्चुकम आस्थिताः ॥ 42 ॥

  43. यदा बालः सुभद्रायाः सुतः शस्त्रविनाकृतः युष्माभिर निहतॊ युद्धे तदा धर्मः कव वॊ गतः ॥ 43 ॥

  44. मया तव एतत परतिज्ञातं कषेपे कस्मिंश चिद एव हि यॊ मां निष्पिष्य संग्रामे जीवन हन्यात पदा रुषा स मे वध्यॊ भवेच छत्रुर यद्य अपि सयान मुनिव्रतः ॥ 44 ॥

  45. चेष्टमानं परतीघाते स भुजं मां स चक्षुषः मन्यध्वं मृतम इत्य एवम एतद वॊ बुद्धिलाघवम युक्तॊ हय अस्य परतीघातः कृतॊ मे कुरुपुंगवाः ॥ 45 ॥

  46. यत तु पार्थेन मत सनेहात सवां परतिज्ञां च रक्षता स खड्गॊ ऽसय हृतॊ बाहुर एतेनैवास्मि वञ्चितः ॥ 46 ॥

  47. भविरव्यं च यद भावि दैवं चेष्टयतीव च सॊ ऽयं हतॊ विमर्दे ऽसमिन किम अत्राधर्मचेष्टितम ॥ 47 ॥

  48. अपि चायं पुरा गीतः शलॊकॊ वाल्मीकिना भुवि पीडाकरम अमित्राणां यत सयात कर्तव्यम एव तत ॥ 48 ॥

  49. [स] एवम उक्ते महाराज सर्वे कौरव पाण्डवाः न सम किं चिद अभाषन्त मनसा समपूजयन ॥ 49 ॥

  50. मन्त्रैर हि पूतस्य महाध्वरेषु; यशस्विनॊ भूरिसहस्रदस्य मुनेर इवारण्य गतस्य तस्य; न तत्र कश चिद वधम अभ्यनन्दत ॥ 50 ॥

  51. सुनील केशं वरदस्य तस्य; शूरस्य पारावत लॊहिताक्षम अश्वस्य मेध्यस्य शिरॊ निकृत्तं; नयस्तं हविर्धानम इवॊत्तरेण ॥ 51 ॥

  52. स तेजसा शस्त्रहतेन पूतॊ; महाहवे देहवरं विसृज्य आक्रामद ऊर्ध्वं वरदॊ वरार्हॊ; वयावृत्य धर्मेण परेण रॊदसी ॥ 52 ॥

Reach this point to mark the section finished.

Continue to अध्याय 119

Previous: अध्याय 117