[स] तम आपतन्तं संप्रेक्ष्य सात्वतं युद्धदुर्मदम करॊधाद भूरिश्रवा राजन सहसा समुपाद्रवत ॥ 1 ॥
तम अब्रवीन महाबाहुः कौरव्यः शिनिपुंगवम अद्य पराप्तॊ ऽसि दिष्ट्या मे चक्षुर्विषयम इत्य उत ॥ 2 ॥
चिराभिलषितं कामम अद्य पराप्स्यामि संयुगे न हि मे मॊक्ष्यसे जीवन यदि नॊत्सेजसे रणम ॥ 3 ॥
अद्य तवां समरे हत्वा नित्यं शूराभिमानिनम नन्दयिष्यामि दाशार्ह कुरुराजं सुयॊधनम ॥ 4 ॥
अद्य मद्बाणनिर्दग्धं पतितं धरणीतले दरक्ष्यतस तवां रणे वीरौ सहितौ केशवार्जुनौ ॥ 5 ॥
अद्य धर्मसुतॊ राजा शरुत्वा तवां निहतं मया सव्रीडॊ भविता सद्यॊ येनासीह परवेशितः ॥ 6 ॥
अद्य मे विक्रमं पार्थॊ विज्ञास्यति धनंजयः तवयि भूमौ विनिहते शयाने रुधिरॊक्षिते ॥ 7 ॥
चिराभिलषिते हय अद्य तवया सह समागमः पुरा देवासुरे युद्धे शक्रस्य बलिना यथा ॥ 8 ॥
अद्य युद्धं महाघॊरं तव दास्यामि सात्वत ततॊ जञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम ॥ 9 ॥
अद्य संयमनी याता मया तवं निहतॊ रणे यथा रामानुजेनाजौ रावणिर लक्ष्मणेन वै ॥ 10 ॥
अद्य कृष्णश च पार्थश च धर्मराजश च माधव हते तवयि निरुत्साहा रणं तयक्ष्यन्त्य असंशयम ॥ 11 ॥
अद्य ते ऽपचितिं कृत्वा शितैर माधव सायकैः तत सत्रियॊ नन्दयिष्यामि ये तवया निहता रणे ॥ 12 ॥
चक्षुर्विषयसंप्राप्तॊ न तवं माधव मॊक्ष्यसे सिंहस्य विषयं पराप्तॊ यथा कषुद्रमृगस तथा ॥ 13 ॥
युयुधानस तु तं राजन परत्युवाच हसन्न इव कौरवेय न संत्रासॊ विद्यते मम संयुगे ॥ 14 ॥
स मां निहन्यात संग्रामे यॊ मां कुर्यान निरायुधम समास तु शाश्वतीर हन्याद यॊ मां हन्याद धि संयुगे ॥ 15 ॥
किं मृषॊक्तेन बहुना कर्मणा तु समाचर शारदस्येव मेघस्य गर्जितं निष्फलं हि ते ॥ 16 ॥
शरुत्वैतद गर्जितं वीर हास्यं हि मम जायते चिरकालेप्सितं लॊके युद्धम अद्यास्तु कौरव ॥ 17 ॥
तवरते मे मतिस तात तवयि युद्धाभिकाङ्क्षिणि नाहत्वा संनिवर्तिष्ये तवाम अद्य पुरुषाधम ॥ 18 ॥
अन्यॊन्यं तौ तदा वाग्भिस तक्षन्तौ नरपुङ्गवौ जिघांसू परमक्रुद्धाव अभिजघ्नतुर आहवे ॥ 19 ॥
समेतौ तौ नरव्याघ्रौ शुष्मिणौ सपर्धिनौ रणे दविरदाव इव संक्रुद्धौ वाशितार्थे मदॊत्कटौ ॥ 20 ॥
भीरि शरवाः सात्यकिश च ववर्षतुर अरिंदमौ शरवर्षाणि भीमानि मेघाव इव परस्परम ॥ 21 ॥
सौमदत्तिस तु शैनेयं परच्छाद्येषुभिर आशुगैः जिघांसुर भरतश्रेष्ठ विव्याध निशितैः शरैः ॥ 22 ॥
दशभिः सात्यकिं विद्ध्वा सौमदत्तिर अथापरान मुमॊच निशितान बाणाञ जिघांसुः शिनिपुंगवम ॥ 23 ॥
तान अस्य विशिखांस तीक्ष्णान अन्तरिक्षे विशां पते अप्राप्तान अस्त्रमायाभिर अग्रसत सात्यकिः परभॊ ॥ 24 ॥
तौ पृथक शरवर्षाभ्याम अवर्षेतां परस्परम उत्तमाभिजनौ वीरौ कुरु वृष्णियशः करौ ॥ 25 ॥
तौ नखैर इव शार्दूलौ दन्तैर इव महाद्विपौ रक्तशक्तिभिर अन्यॊन्यं दन्तैर इव महाद्विपौ रथशक्तिभिर अन्यॊन्यं विशिखैश चाप्य अकृन्तताम ॥ 26 ॥
निर्भिदन्तौ हि गात्राणि विक्षरन्तौ च शॊणितम वयष्टम्भयेताम अन्यॊन्यं पराणद्यूताभिदेविनौ ॥ 27 ॥
एवम उत्तमकर्माणौ कुरु वृष्णियशः करौ परस्परम अयुध्येतां वारणाव इव यूथपौ ॥ 28 ॥
ताव अदीर्घेण कालेन बरह्मलॊकपुरस्कृतौ जिगीषन्तौ परं सथानम अन्यॊन्यम अभिजघ्नतुः ॥ 29 ॥
सात्यकिः सौमदत्तिश च शरवृष्ट्या परस्परम हृष्टवद धार्तराष्ट्राणां पश्यताम भयवर्षताम ॥ 30 ॥
संप्रैक्षन्त जनास तत्र युध्यमानौ युधां पती यूथपौ वाशिता हेतॊः परयुद्धाव इव कुञ्जरौ ॥ 31 ॥
अन्यॊन्यस्य हयान हत्वा धनुषी विनिकृत्य च विरथाव असियुद्धाय समेयातां महारणे ॥ 32 ॥
आर्षभे चर्मणी चित्रे परगृह्य विपुले शुभे विकॊशौ चाप्य असी कृत्वा समरे तौ विचेरतुः ॥ 33 ॥
चरन्तौ विविधान मार्गान मण्डलानि च भागशः मुहुर आजघ्नतुः करुद्धाव अन्यॊन्यम अरिमर्दनौ ॥ 34 ॥
स खड्गौ चित्रवर्माणौ स निष्काङ्गदभूषणौ रणे रणॊत्कटौ राजन्न अन्यॊन्यं पर्यकर्षताम ॥ 35 ॥
मुहूर्तम इव राजेन्द्र परिकृष्य परस्परम पश्यतां सर्वसैन्यानां वीराव आश्वसतां पुनः ॥ 36 ॥
असिभ्यां चर्मणी शुभ्रे विपुले च शरावरे निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं परचक्रतुः ॥ 37 ॥
वयूढॊरस्कौ दीर्घभुजौ नियुद्ध कुशलाव उभौ बाहुभिः समसज्जेताम आयसैः परिघैर इव ॥ 38 ॥
तयॊर आसन भुजागाता निग्रहप्रग्रहौ तथा शिक्षा बलसमुद्भूताः सर्वयॊधप्रहर्षणाः ॥ 39 ॥
तयॊर नृवरयॊ राजन समरे युध्यमानयॊः भीमॊ ऽभवन महाशब्दॊ वज्रपर्वतयॊर इव ॥ 40 ॥
दविपाव इव विषाणाग्रैः शृङ्गैर इव महर्षभौ युयुधाते महात्मानौ कुरु सात्वत पुंगवौ ॥ 41 ॥
कषीणायुधे सात्वते युध्यमाने; ततॊ ऽबरवीद अर्जुनं वासुदेवः पश्यस्वैनं विरथं युध्यमानं; रणे केतुं सर्वधनुर्धराणाम ॥ 42 ॥
परविष्टॊ भारतीं सेनां तव पाण्डव पृष्ठतः यॊधितश च महावीर्यैः सर्वैर भारत भारतैः ॥ 43 ॥
परिश्रान्तॊ युधां शरेष्ठः संप्राप्तॊ भूरिदक्षिणम युद्धकाङ्क्षिणम आयान्तं नैतत समम इवार्जुन ॥ 44 ॥
ततॊ भूरिश्रवाः करुद्धाः सात्यकिं युद्धदुर्मदम उद्यम्य नयहनद राजन मत्तॊ मत्तम इव दविपम ॥ 45 ॥
रथस्थयॊर दवयॊर युद्धे करुद्धयॊर यॊधमुख्ययॊः केशवार्जुनयॊ राजन समरे परेक्षमाणयॊः ॥ 46 ॥
अथ कृष्णॊ महाबाहुर अर्जुनं परत्यभाषत पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्ति वशंगतम ॥ 47 ॥
परिश्रान्तं गतं भूमौ कृत्वा कर्म सुदुष्करम तवान्तेवासिनं शूरं पालयार्जुन सात्यकिम ॥ 48 ॥
न वशं यज्ञशीलस्य गच्छेद एष वरारिहन तवत्कृते पुरुषव्याघ्र तद आशु करियतां विभॊ ॥ 49 ॥
अथाब्रवीद धृष्टमना वासुदेवं धनंजयः पश्य वृष्णिप्रवीरेण करीडन्तं कुरुपुंगवम महाद्विपेनेव वने मत्तेन हरियूथपम ॥ 50 ॥
हाहाकारॊ महान आसीत सैन्यानां भरतर्षभ यद उद्यम्य महाबाहुः सात्यकिं नयहनद भुवि ॥ 51 ॥
स सिंह इव मातङ्गं विकर्षन भूरिदक्षिणः वयरॊचत कुरुश्रेष्ठः सात्वत परवरं युधि ॥ 52 ॥
अथ कॊशाद विनिष्कृष्य खड्गं भूरिश्रवा रणे मूर्धजेषु निजग्राह पदा चॊरस्य अताडयत ॥ 53 ॥
तथा तु परिकृष्यन्तं दृष्ट्वा सात्वतम आहवे वासुदेवस ततॊ राजन भूयॊ ऽरजुनम अभाषत ॥ 54 ॥
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्ति वशंगतम तव शिष्यं महाबाहॊ धनुष्य अनवरं तवया ॥ 55 ॥
असत्यॊ विक्रमः पार्थ यत्र भूरिश्रवा रणे इशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम ॥ 56 ॥
एवम उक्तॊ महाबाहुर वासुदेवेन पाण्डवः मनसा पूजयाम आस भूरिश्रवसम आहवे ॥ 57 ॥
विकर्षन सत्वत शरेष्ठं करीडमान इवाहवे संहर्षयति मां भूयः कुरूणां कीर्तिवर्धनः ॥ 58 ॥
परवरं वृष्णिवीराणां यन न हन्याद धि सात्यकिम महाद्विपम इवारण्ये मृगेन्द्र इव कर्षति ॥ 59 ॥
एवं तु मनसा राजन पार्थः संपूज्य कौरवम वासुदेवं महाबाहुर अर्जुनः परत्यभाषत ॥ 60 ॥
सैन्धवासक्तदृष्टित्वान नैनं पश्यामि माधव एष तव असुकरं कर्म यादवार्थे करॊम्य अहम ॥ 61 ॥
इत्य उक्त्वा वचनं कुर्वन वासुदेवस्य पाण्डवः स खड्गं यज्ञशीलस्य पत्रिणा बाहुम अच्छिनत ॥ 62 ॥
द्रोणपर्व · Drona Parva
अध्याय 117
Reach this point to mark the section finished.
Continue to अध्याय 118