धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 116

  1. [स] तद उद्यतं महाबाहुं दुःशासन रथं परति तवरितं तवरणीयेषु धनंजय हितैषिणम ॥ 1 ॥

  2. तरिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः सेना समुद्रम आविष्टम आनर्तं पर्यवारयन ॥ 2 ॥

  3. अथैनं रथवंशेन सर्वतः संनिवार्य ते अवाकिरञ शरव्रातैः करुद्धाः परमधन्विनः ॥ 3 ॥

  4. अजयद राजपुत्रांस तान यतमानान महारणे एकः पञ्चाशतं शत्रून सात्यकिः सत्यविक्रमः ॥ 4 ॥

  5. संप्राप्य भारतीमध्यं तलघॊषसमाकुलम असि शक्तिगदा पूर्णम अप्लवं सलिलं यथा ॥ 5 ॥

  6. तत्राद्भुतम अपश्याम शैनेय चरितं रणे परतीच्यां दिशि तं दृष्ट्वा पराच्यां पश्याम लाघवात ॥ 6 ॥

  7. उदीचीं दक्षिणां पराचीं परतीचीं परसृतस तथा नृत्यन्न इवाचरच छूरॊ यथा रथशतं तथा ॥ 7 ॥

  8. तद दृष्ट्वा चरितं तस्य सिंहविक्रान्त गामिनः तरिगर्ताः संन्यवर्तन्त संतप्ताः सवजनं परति ॥ 8 ॥

  9. तम अन्ये शूरसेनानां शूराः संख्ये नयवारयन नियच्छन्तः शरव्रातैर मत्तं दविपम इवाङ्कुशैः ॥ 9 ॥

  10. तन नयवारयद आयस्तान मुहूर्तम इव सात्यकिः ततः कलिङ्गैर युयुधे सॊ ऽचिन्त्यबलविक्रमः ॥ 10 ॥

  11. तां च सेनाम अतिक्रम्य कलिङ्गानां दुरत्ययाम अथ पार्थं महाबाहुर धनंजयम उपासदत ॥ 11 ॥

  12. तरन्न इव जले शरान्तॊ यथा सथलम उपेयिवान तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत ॥ 12 ॥

  13. तम आयान्तम अभिप्रेक्ष्य केशवॊ ऽरजुनम अब्रवीत असाव आयाति शैनेयस तव पार्थ पदानुगः ॥ 13 ॥

  14. एष शिष्यः सखा चैव तव सत्यपराक्रमः सर्वान यॊधांस तृणी कृत्यविजिग्ये पुरुषर्षभः ॥ 14 ॥

  15. एष कौरव यॊधानां कृत्वा घॊरम उपद्रवम तव पराणैः परियतरः किरीटिन नेति सात्यकिः ॥ 15 ॥

  16. एष दरॊणं तथा भॊजं कृतवर्माणम एव च कदर्थी कृत्यविशिकैः फल्गुनाभ्येति सात्यकिः ॥ 16 ॥

  17. धर्मराज परियान्वेषी हत्वा यॊधान वरान वरान शूरश चैव कृतास्त्रश च फल्गुनाभ्येति सात्यकिः ॥ 17 ॥

  18. कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः तव दर्शनम अन्विच्छन पाण्डवाभ्येति सात्यकिः ॥ 18 ॥

  19. बहून एकरथेनाजौ यॊधयित्वा महारथान आचार्य परमुखान पार्थ आयात्य एष हि सात्यकिः ॥ 19 ॥

  20. सवबाहुबलम आश्रित्य विदार्य च वरूथिनीम परेषितॊ धर्मपुत्रेण पर्थैषॊ ऽभयेति सात्यकिः ॥ 20 ॥

  21. यस्य नासित समॊ यॊधः कौरवेषु कथंचनन सॊ ऽयम आयाति कौन्तेय सात्यकिः सत्यविक्रमः ॥ 21 ॥

  22. कुरुसैन्याद विमुक्तॊ वै सिंहॊ मध्याद गवाम इव निहत्य बहुलाः सेनाः पार्थैषॊ ऽभयेति सात्यकिः ॥ 22 ॥

  23. एष राजसहस्राणां वक्त्रैः पङ्कज संनिभैः आस्तीर्य वसुधां पार्थ कषिप्रम आयाति सात्यकिः ॥ 23 ॥

  24. एष दुर्यॊधनं जित्वा भरातृभिः सहितं रणे निहत्य जलसंधं च कषिप्रम आयाति सात्यकिः ॥ 24 ॥

  25. रुधिरौघवतीं कृत्वा नदीं शॊणितकर्दमाम तृणवन नयस्य कौरव्यान एष आदाति सात्यकिः ॥ 25 ॥

  26. ततॊ ऽपरहृष्टः कौन्तेयः केशवं वाक्यम अब्रवीत न मे परियं महाबाहॊ यन माम अभ्येति सात्यकिः ॥ 26 ॥

  27. न हि जानामि वृत्तान्तं धर्मराजस्य केशव सात्वतेन विहीनः स यदि जीवति वान वा ॥ 27 ॥

  28. एतेन हि महाबाहॊ रक्षितव्यः स पार्थिवः तम एष कथम उत्सृज्य मम कृष्ण पदानुगः ॥ 28 ॥

  29. राजा दरॊणाय चॊत्सृष्टः सैन्धवश चानिपातितः परत्युद्यातश च शैनेयम एष भूरिश्रवा रणे ॥ 29 ॥

  30. सॊ ऽयं गुरुतरॊ भारः सैन्धवान मे समाहितः जञातव्यश च हि मे राजा रक्षितव्यश च सात्यकिः ॥ 30 ॥

  31. जयद्रथश च हन्तव्यॊ लम्बते च दिवाकरः शरान्तश चैष महाबाहुर अल्पप्राणश च सांप्रतम ॥ 31 ॥

  32. परिश्रान्ता हयाश चास्य हययन्ता च माधव न च भूरिश्रवाः शरान्तः स सहायश च केशव ॥ 32 ॥

  33. अपीदानीं भवेद अस्य कषेमम अस्मिन समागमे कच चिन न सागरं तीर्त्वा सात्यकिः सत्यविक्रमः गॊष्पदं पराप्य सीदेत महौजाः शिनिपुंगवः ॥ 33 ॥

  34. अपि कौरव मुख्येन कृतास्त्रेण महात्मना समेत्य भूरिश्रवसा सवस्तिमान सात्यकिर भवेत ॥ 34 ॥

  35. वयतिक्रमम इमं मन्ये धर्मराजस्य केशव आचार्याद भयम उत्सृज्य यः परेषयति सात्यकिम ॥ 35 ॥

  36. गरहणं धर्मराजस्य खगः शयेन इवामिषम नित्यम आशंसते दरॊणः कच चित सयात कुशली नृपः ॥ 36 ॥

Reach this point to mark the section finished.

Continue to अध्याय 117

Previous: अध्याय 115