धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 115

  1. [धृ] अहन्य अहनि मे दीप्तं यशः पतति संजय हता मे बहवॊ यॊधा मन्ये कालस्य पर्ययम ॥ 1 ॥

  2. धनंजयस तु संक्रुद्धः परविष्टॊ मामकं बलम रक्षितं दरॊणकर्णाभ्याम अप्रवेश्यं सुरैर अपि ॥ 2 ॥

  3. ताभ्याम ऊर्जितवीर्याभ्याम आप्यायित पराक्रमः सहितः कृष्ण भीमाभ्यां शिनीनाम ऋषभेण च ॥ 3 ॥

  4. तदा परभृति मा शॊकॊ दहत्य अग्निर इवाशयम गरस्तान हि परतिपश्यामि भूमिपालान स सैन्धवान ॥ 4 ॥

  5. अप्रियं सुमहत कृत्वा सिन्धुराजः किरीटिनः चक्षुर्विषयम आपन्नः कथं मुच्येत जीवितः ॥ 5 ॥

  6. अनुमानाच च पश्यामि नास्ति संजय सैन्धवः युद्धं तु तद यथावृत्तं तन ममाचक्ष्व पृच्छतः ॥ 6 ॥

  7. यच च विक्षॊभ्य महतीं सेनां संलॊड्य चासकृत एकः परविष्टः संक्रुद्धॊ नलिनीम इव कुञ्जरः ॥ 7 ॥

  8. तस्य वृष्णिप्रवीरस्य बरूहि युद्धं यथातथम धनंजयार्थे यत तस्य कुशलॊ हय असि संजय ॥ 8 ॥

  9. [स] तथा तु वैकर्तन पीडितं तं; भीमं परयान्तं पुरुषप्रवीरम समीक्ष्य राजन नरवीरमध्ये; शिनिप्रवीरॊ ऽनुययौ रथेन ॥ 9 ॥

  10. नदन यथा वज्रधरस तपान्ते; जवलन यथा जलदान्ते च सूर्यः निघ्नन्न अनिंत्रान धनुषा दृढेन; संकम्पयंस तव पुत्रस्य सेनाम ॥ 10 ॥

  11. तं यान्तम अश्वै रजतप्रकाशैर; आयॊधने नरवीरं चरन्तम नाशक्नुवन वारयितुं तवदीयाः; सर्वे रथा भारत माधवाग्र्यम ॥ 11 ॥

  12. अमर्षपूर्णस तव अनिवृत्त यॊधी; शरासनी काञ्चनवर्म धारी अलम्बुसः सात्यकिं माधवाग्र्यम; अवारयद राजवरॊ ऽभिपत्य ॥ 12 ॥

  13. तयॊर अभूद भारत संप्रहारस; तथागतॊ नैव बभूव कश चित परैक्षन्त एवाहव शॊभिनौ तौ; यॊधास तवदीयाश च परे च सर्वे ॥ 13 ॥

  14. अविध्यद एनं दशभिः पृषत्कैर; अलम्बुसॊ राजवरः परसह्य अनागतान एव तु तान पृषत्कांश; चिच्छेद बाणैः शिनिपुंगवॊ ऽपि ॥ 14 ॥

  15. पुनः स बाणैस तरिभिर अग्निकल्पैर; आकर्णपूर्णैर निशितैः सुपुङ्खैः विव्याध देहावरणं विदार्य; ते सात्यकेर आविविशुः शरीरम ॥ 15 ॥

  16. तैः कायम अस्याग्न्य अनिलप्रभावैर; विदार्य बाणैर अपरैर जवलद्भिः आजघ्निवांस तान रजतप्रकाशान; अश्वांश चतुर्भिश चतुरः परसह्य ॥ 16 ॥

  17. तथा तु तेनाभिहतस तरस्वी; नप्ता शिनेश चक्रधर परभावः अलम्बुसस्यॊत्तम वेगवद्भिर; हयांश चतुर्भिर निजघान बाणैः ॥ 17 ॥

  18. अथास्य सूतस्य शिरॊ निकृत्य; भल्लेन कालानलसंनिभेन सकुण्डलं पूर्णशशिप्रकाशं; भराजिष्णु वक्त्रं निचकर्त देहात ॥ 18 ॥

  19. निहत्य तं पार्थिव पुत्रपौत्रं; संख्ये मधूनाम ऋषभः परमाथी ततॊ ऽनवयाद अर्जुनम एव वीरः; सैन्यानि राजंस तव संनिवार्य ॥ 19 ॥

  20. अन्वागतं वृष्णिवरं समीक्ष्य; तथारिमध्ये परिवर्तमानम घनन्तं कुरूणाम इषुभिर बलानि; पुनः पुनर वायुर इवाभ्रपूगान ॥ 20 ॥

  21. ततॊ ऽवहन सैन्धवाः साधु दान्ता; गॊक्षीरकुन्देन्दु हिमप्रकाशाः सुवर्णजालावतताः सदश्वा; यतॊ यतः कामयते नृसिंहः ॥ 21 ॥

  22. अथात्मजास ते सहिताभिपेतुर; अन्ये च यॊधास तवरितास तवदीयाः कृत्वा मुखं भारत यॊधमुख्यं; दुःशासनं तवत्सुतम आजमीढ ॥ 22 ॥

  23. ते सर्वतः संपरिवार्य संख्ये; शैनेयम आजघ्नुर अनीक साहाः स चापि तान परवरः सात्वतानां; नयवारयद बाणजालेन वीरः ॥ 23 ॥

  24. निवार्य तांस तूर्णम अमित्रघाती; नप्ता शिनेः पत्रिभिर अग्निकल्पैः दुःशासनस्यापि जघान वाहान; उद्यम्य बाणासनम आजमीढ ॥ 24 ॥

Reach this point to mark the section finished.

Continue to अध्याय 116

Previous: अध्याय 114