[धृ] महान अपनयः सूत ममैवात्र विशेषतः स इदानीम अनुप्राप्तॊ मन्ये संजय शॊचतः ॥ 1 ॥
यद गतं तद्गतम इति ममासीन मनसि सथितम इदानीम अत्र किं कार्यं परकरिष्यामि संजय ॥ 2 ॥
यथा तव एष कषयॊ वृत्तॊ ममापनय संभवः वीराणां तन ममाचक्ष्व सथिरी भूतॊ ऽसमि संजय ॥ 3 ॥
[स] कर्ण भीमौ महाराज पराक्रान्तौ महाहवे बाणवर्षाण्य अवर्षेतां वृष्टिमन्ताव इवाम्बुदौ ॥ 4 ॥
भीम नामाङ्किता बाणाः सवर्णपुङ्खाः शिलाशिताः विविशुः कर्णम आसाद्य भिन्दन्त इव जीवितम ॥ 5 ॥
तथैव कर्ण निर्मुक्तैः स विषैर इव पन्नगैः अकीर्यत रणे भीमः शतशॊ ऽथ सहस्रशः ॥ 6 ॥
तयॊः शरैर महाराज संपतद्भिः समन्ततः बभूव तव सैन्यानां संक्षॊभः सागरॊपमः ॥ 7 ॥
भीमचापच्युतैर बाणैस तव सैन्यम अरिंदम अवध्यत चमूमध्ये घॊरैर आशीविषॊपमैः ॥ 8 ॥
वारणैः पतितै राजन वाजिभिश च नरैः सह अदृश्यत मही कीर्णा वातनुन्नैर दरुमैर इव ॥ 9 ॥
ते वध्यमानाः समरे भीमचापच्युतैः शरैः दराद्रवंस तावका यॊधाः किम एतद इति चाब्रुवन ॥ 10 ॥
ततॊ वयुदस्तं तत सैन्यं सिन्धुसौवीरकौरवम परॊत्सारितं महावेगैः कर्ण पाण्डवयॊः शरैः ॥ 11 ॥
ते शरातुर भूयिष्ठा हताश्वनरवाहनाः उत्सृज्य कर्णं भीमं च पराद्रवन सर्वतॊदिशम ॥ 12 ॥
नूनं पार्थार्थम एवास्मान मॊहयन्ति दिवौकसः यत कर्ण भीम परभवैर वध्यते नॊ बलं शरैः ॥ 13 ॥
एवं बरुवन्तॊ यॊधास ते तावका भयपीडिताः शरपातं समुत्सृज्य सथिता युद्धदिदृक्षवः ॥ 14 ॥
ततः परावर्तत नदी घॊररूपा महाहवे बभूव च विशेषेण भीरूणां भयवर्धिनी ॥ 15 ॥
वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा संवृता गतसत्त्वैश च मनुष्यगजवाजिभिः ॥ 16 ॥
सानुकर्ष पताकैश च दविपाश्वरथभूषणैः सयन्दनैर अपविद्धैश च भग्नचक्राक्ष कूबरैः ॥ 17 ॥
जातरूपपरिष्कारैर धनुर्भिः सुमहाधनैः सुवर्णपुङ्खैर इषुभिर नाराचैश च सहस्रशः ॥ 18 ॥
कर्ण पाण्डव निर्मुक्तैर निर्मुक्तैर इव पन्नगैः परासतॊमर संघातैः खड्गैश च सपरश्वधैः ॥ 19 ॥
सुवर्णविकृतैश चापि गदामुसलपट्टिशैः वज्रैश च विविधाकारैः शक्तिभिः परिघैर अपि शतघ्नीभिश च चित्राभिर बभौ भारत मेदिनी ॥ 20 ॥
कनकाङ्गद केयूरैः कुण्डलैर मणिभिः शुभैः तनुत्रैः स तरत्रैश च हारैर निष्कैश च भारत ॥ 21 ॥
वस्त्रैश छत्रैश च विध्वस्तैश चामरा वयजनैर अपि जगाश्वमौनजिर भिन्नैः शस्त्रैः सयन्दनभूषणैः ॥ 22 ॥
तैस तैश च विविधैर भावैस तत्र तत्र वसुंधरा पतितैर अपविद्धैश च संबभौ दयौर इव गरहैः ॥ 23 ॥
अचिन्त्यम अद्भुतं चैव तयॊः कर्मातिमानुषम दृष्ट्वा चारणसिद्धानां विस्मयः समपद्यत ॥ 24 ॥
अग्नेर वायुसहायस्य गतिः कक्ष इवाहवे आसीद भीम सहायस्य रौद्रम आधिरथेर गतम निपातितध्वजरथं हतवाजि नरद्विपम ॥ 25 ॥
गजाभ्यां संप्रयुक्ताभ्याम आसीन नडवनं यथा तथा भूतं महत सैन्यम आसीद भारत संयुगे विमर्दः कर्ण भीमाभ्याम आसीच च परमॊ रणे ॥ 26 ॥
द्रोणपर्व · Drona Parva
अध्याय 113
Reach this point to mark the section finished.
Continue to अध्याय 114