[स] भीमसेनस्य राधेयः शरुत्वा जयातलनिस्वनम नामृष्यत यथामत्तॊ गजः परतिगज सवनम ॥ 1 ॥
अपक्रम्य स भीमस्य मुहूर्तं शरगॊचरात तव चाधिरथिर दृष्ट्वा सयन्दनेभ्यश चयुतान सुतान ॥ 2 ॥
भीमसेनेन निहतान विमना दुःखितॊ ऽभवत निःश्वस्न दीर्घम उष्णं च पुनः पाण्डवम अभ्ययात ॥ 3 ॥
स ताम्रनयनः करॊधाच छवसन्न इव महॊरगः बभौ कर्णः शरान अस्यन रश्मिवान इव भास्करः ॥ 4 ॥
रश्मिजालैर इवार्कस्य विततैर भरतर्षभः कर्ण चापच्युतैर बाणैः पराच्छाद्यत वृकॊदरः ॥ 5 ॥
कर्ण चापच्युताश चित्राः शरा बर्हिणवाससः विविशुः सर्वतः पार्थं वासायेवाण्डजा दरुमम ॥ 6 ॥
कर्ण चापच्युता बाणाः संपतन्तस ततस ततः रुक्मपुङ्खा वयराजन्त हंसाः शरेणी कृता इव ॥ 7 ॥
चापध्वजॊपस्करेभ्यश छत्राद ईषा मुखाद युगात परभवन्तॊ वयदृश्यन्त राजन्न आधिरथेः शराः ॥ 8 ॥
खं पूरयन महावेगान खगमान खग वाससः सुवर्णविकृतांश चित्रान मुमॊचाधिरथिः शरान ॥ 9 ॥
तम अन्तकम इवायस्तम आपतन्तं वृकॊदरः तयक्त्वा पराणान अभिक्रुध्य विव्याध नवभिः शरैः ॥ 10 ॥
तस्य वेगम असंसह्यं दृष्ट्वा कर्णस्य पाण्डवः महतश च शरौघांस तान नैवाव्यथत वीर्यवान ॥ 11 ॥
ततॊ विधम्याधिरथेः शरजालानि पाण्डवः विव्याध कर्णं विंशत्या पुनर अन्यैः शितैः शरैः ॥ 12 ॥
यथैव हि शरैः पार्थः सूतपुत्रेण छादितः तथैव कर्णं समरे छादयाम आस पाण्डवः ॥ 13 ॥
दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत अभ्यनन्दंस तदीयाश च संप्रहृष्टाश च चारणाः ॥ 14 ॥
भूरिश्रवाः कृपॊ दरौणिर मद्रराजॊ जयद्रथः उत्तमौजा युधामन्युः सात्यकिः केशवार्जुनौ ॥ 15 ॥
कुरुपाण्डवानां परवरा दश राजन महारथाः साधु साध्व इति वेगेन सिंहनादम अथानदन ॥ 16 ॥
तस्मिंस तु तुमुले शब्दे परवृत्ते लॊमहर्षणे अभ्यभाषत पुत्रांस ते राजन दुर्यॊधनस तवरन ॥ 17 ॥
राज्ञश च राजपुत्रांश च सॊदर्यांश च विशेषतः कर्णं गच्छत भद्रं वः परीप्सन्तॊ वृकॊदरात ॥ 18 ॥
पुरा निघ्नन्ति राधेयं भीमचापच्युताः शराः ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे ॥ 19 ॥
दुर्यॊधन समादिष्टाः सॊदर्याः सप्त मारिषः भीमसेनम अभिद्रुत्य संरब्धाः पर्यवारयन ॥ 20 ॥
ते समासाद्य कौन्तेयम आवृण्वञ शरवृष्टिभिः पर्वतं वारिधाराभिः परावृषीव बलाहकाः ॥ 21 ॥
ते ऽपीडयन भीमसेनं करुद्धाः सप्त महारथाः परजासंहरणे राजन सॊमं सप्त गरहा इव ॥ 22 ॥
ततॊ वामेन कौनेयः पीडयित्वा शरासनम मुष्टिना पाण्डवॊ राजन दृढेन सुपरिष्कृतम ॥ 23 ॥
मनुष्यसमतां जञात्वा सप्त संधाय सायकान तेभ्यॊ वयसृजद आयस्तः सूर्यरश्मि निभान परभुः ॥ 24 ॥
निरस्यन्न इव देहेभ्यस तनयानाम असूंस तव भीमसेनॊ महाराज पूर्ववैरम अनुस्मरन ॥ 25 ॥
ते कषिप्ता भीमसेनेन शरा भारत भारतान विदार्य खं समुत्पेतुः सवर्णपुङ्खाः शिलाशिताः ॥ 26 ॥
तेषां विदार्य चेतांसि शरा हेमविभूषिताः वयराजन्त महाराज सुपर्णा इव खेचराः ॥ 27 ॥
शॊणितादिग्ध वाजाग्राः सप्त हेमपरिष्कृताः पुत्राणां तव राजेन्द्र पीत्वा शॊणितम उद्गताः ॥ 28 ॥
ते शरैर भिन्नमर्माणॊ रथेभ्यः परापतन कषितौ गिरिसानु रुहा भग्ना दविपेनेव महाद्रुमाः ॥ 29 ॥
शत्रुंजयः शत्रुसहश चित्रश चित्रायुधॊ दृढः चित्रसेनॊ विकर्णश च सप्तैते विनिपातिताः ॥ 30 ॥
तान निहत्य महाबाहू राधेयस्यैव पश्यतः सिंहनाद रवं घॊरम असृजत पाण्डुनन्दनः ॥ 31 ॥
स रवस तस्य शूरस्य धर्मराजस्य भारत आचख्याव इव तद युद्धं विजयं चात्मनॊ महत ॥ 32 ॥
तं शरुत्वा सुमहानादं भीमसेनस्य धन्विनः बभूव परमा परीतिर धर्मराजस्य संयुगे ॥ 33 ॥
ततॊ हृष्टॊ महाराज वादित्राणां महास्वनैः भीमसेनरवं पार्थः परतिजग्राह सर्वशः ॥ 34 ॥
अभ्ययाच चैव समरे दरॊणम अस्त्रभृतां वरम हर्षेण महता युक्तः कृतसंज्ञे वृकॊदरे ॥ 35 ॥
एकत्रिंशन महाराज पुत्रांस तव महारथान हतान दुर्यॊधनॊ दृष्ट्वा कषत्तुः सस्मार तद वचः ॥ 36 ॥
तद इदं समनुप्राप्तं कषत्तुर हितकरं वचः इति संचिन्त्य राजासौ नॊत्तरं परत्यपद्यत ॥ 37 ॥
यद दयूतकाले दुर्बुद्धिर अब्रवीत तनयस तव यच च कर्णॊ ऽबरवीत कृष्णां सभायां परुषं वचः ॥ 38 ॥
परमुखे पाण्डुपुत्राणां तव चैव विशां पते कौरवाणां च सर्वेषाम आचार्यस्य च संनिधौ ॥ 39 ॥
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः पतिम अन्यं वृणीष्वेति तस्येदं फलम आगतम ॥ 40 ॥
यः सम तां पौरुषाण्य आहुः सभाम आनाय्य दरौपदीम पाण्डवान उग्रधनुषः करॊधयन्तस तवात्मजाः ॥ 41 ॥
तं भीमसेनः करॊधाग्निं तरयॊदश समाः सथितम विसृजंस तव पुत्राणाम अन्तं गच्छति कौरव ॥ 42 ॥
विलपंश च बहु कषत्ता शमं नालभत तवयि सपुत्रॊ भरतश्रेष्ठ तस्य भुङ्क्ष्व फलॊदयम इतॊ विकर्णॊ राजेन्द्र चित्रसेनश्च वीर्यवान ॥ 43 ॥
परवरान आत्मजानां ते सुतांश चान्यान महारथान यान यांश च ददृशे भीमश चक्षुर्विषयम आगतान पुत्रांस तव महाबाहॊ तवरया ताञ जघान ह ॥ 44 ॥
तवत्कृते हय अहम अद्राक्षं दह्यमानां वरूथिनीम सहस्रशः शरैर मुक्तैः पाण्डवेन वृषेण च ॥ 45 ॥
द्रोणपर्व · Drona Parva
अध्याय 112
Reach this point to mark the section finished.
Continue to अध्याय 113