[स] तवात्मजांस तु पतितान दृष्ट्वा कर्णः परतापवान करॊधेन महताविष्टॊ निर्विण्णॊ ऽभूत स जीवितात ॥ 1 ॥
आगः कृतम इवात्मानं मेने चाधिरथिस तदा भीमसेनं ततः करुद्धः समाद्रवत संभ्रमात ॥ 2 ॥
स भीमं पञ्चभिर विद्ध्वा राधेयः परहसन्न इव पुनर विव्याध सप्तत्या सवर्णपुङ्खैः शिलाशितैः ॥ 3 ॥
अवहासं तु तं पार्थॊ नामृष्यत वृकॊदरः ततॊ विव्याध राधेयं शतेन नतपर्वणाम ॥ 4 ॥
पुनश च विशिखैस तीक्ष्णैर विद्ध्वा पञ्चभिर आशुगैः धनुश चिच्छेद भल्लेन सूतपुत्रस्य मारिष ॥ 5 ॥
अथान्यद धनुर आदाय कर्णॊ भारत दुर्मनाः इषुभिश छादयाम आस भीमसेनं समन्ततः ॥ 6 ॥
तस्य भीमॊ हयान हत्वा विनिहत्य च सारथिम परजहास महाहासं कृते परतिकृतं पुनः ॥ 7 ॥
इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः तत पपात महाराज सवर्णपृष्ठं महास्वनम ॥ 8 ॥
अवारॊहद रथात तस्माद अथ कर्णॊ महारथः गदां गृहीत्वा समरे भीमसेनाय चाक्षिपत ॥ 9 ॥
ताम आपतन्तीं सहसा गदां दृष्ट्वा वृकॊदरः शरैर अवारयद राजन सर्वसैन्यस्य पश्यतः ॥ 10 ॥
ततॊ बाणसहस्राणि परेषयाम आस पाण्डवः सूतपुत्र वधाकाङ्क्षी तवरमाणः पराक्रमी ॥ 11 ॥
तान इषून इषुभिः कर्णॊ वारयित्वा महामृधे कवचं भीमसेनस्य पातयाम आस सायकैः ॥ 12 ॥
अथैनं पञ्चविंशत्या कषुद्रकाणां समार्पयत पश्यतां सर्वभूतानां तद अद्भुतम इवाभवत ॥ 13 ॥
ततॊ भीमॊ महाराज नवभिर नतपर्वणाम रणे ऽपरेषयत करुद्धः सूतपुत्रस्य मारिष ॥ 14 ॥
ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम अभ्यगुर धरणीं तीक्ष्णा वल्मीकम इव पन्नगाः ॥ 15 ॥
राधेयं तु रणे दृष्ट्वा पदातिनम अवस्थितम भीमसेनेन संरब्धं राजा दुर्यॊधनॊ ऽबरवीत तवरध्वं सर्वतॊ यत्ता राधेयस्य रथं परति ॥ 16 ॥
ततस तव सुता राजञ शरुत्वा भरातुर वचॊ दरुतम अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिताञ शरान ॥ 17 ॥
चित्रॊपचित्रश चित्राक्षश चारु चित्रः शरासनः चित्रायुधश चित्रवर्मा समरे चित्रयॊधिनः ॥ 18 ॥
आगच्छतस तान सहसा भीमॊ राजन महारथः साश्वसूत धवजान यत्तान पातयाम आस संयुगे ते हता नयपतन भूमौ वातनुन्ना इव दरुमाः ॥ 19 ॥
दृष्ट्वा विनिहतान पुत्रांस तव राजन महारथान अश्रुपूर्णमुखः कर्णः कश्मलं समपद्यत ॥ 20 ॥
रथम अन्यं समास्थाय विधिवत कल्पितं पुनः अभ्ययात पाण्डवं युद्धे तवरमाणः पराक्रमी ॥ 21 ॥
ताव अन्यॊन्यं शरैर विद्ध्वा सवर्णपुङ्खैः शिलाशितैः वयभ्राजेतां महाराज पुष्पिताव इव किंशुकौ ॥ 22 ॥
षट तरिंशद्भिस ततॊ भल्लैर निशितैस तिग्मतेजनैः वयधमत कवचं करुद्धः सूतपुत्रस्य पाण्डवः ॥ 23 ॥
रक्तचन्दन दिग्धाङ्गौ शरैः कृतमहाव्रणौ शॊणिताक्तौ वयराजेतां कालसूर्याव इवॊदितौ ॥ 24 ॥
तौ शॊणितॊक्षितैर गात्रैः शरैश छिन्नतनुच छदौ विवर्माणौ वयराजेतां निर्मुक्ताव इव पन्नगौ ॥ 25 ॥
वयाघ्राव इव नरव्याघ्रौ दंष्ट्राभिर इतरेतरम शरदंष्ट्रा विधुन्वानौ ततक्षतुर अरिंदमौ ॥ 26 ॥
वारणाव इव संसक्तौ रङ्गमध्ये विरेजतुः तुदन्तौ विशिखैस तीक्ष्णैर मत्तवारणविक्रमौ ॥ 27 ॥
परच्छादयन्तौ समरे शल जालैः परस्परम रथाभ्यां नादयन्तौ च दिशः सर्वा विचेरतुः ॥ 28 ॥
तौ रथाभ्यां महाराज मण्डलावर्तनादिषु वयरॊचेतां महात्मानौ वृत्र वज्रधराव इव ॥ 29 ॥
स हस्ताभरणाभ्यां तु भुजाभ्यां विक्षिपन धनुः वयरॊचत रणे भीमः स विद्युद इव तॊयदः ॥ 30 ॥
स चापघॊषस्तनितः शरधाराम्बुदॊ महान भीम मेघॊ महाराज कर्ण पर्वतम अभ्ययात ॥ 31 ॥
ततः शरसहस्रेण धनुर्मुक्तेन भारत पाण्डवॊ वयकिरत कर्णं घनॊ ऽदरिम इव वृष्टिभिः ॥ 32 ॥
तत्रावैक्षन्त पुत्रास ते भीमसेनस्य विक्रमम सुपुङ्खैः कङ्कवासॊभिर यत कर्णं छादयच छरैः ॥ 33 ॥
स नन्दयन रणे पार्थं केशवं च यशस्विनम सात्यकिं चक्ररक्षौ च भीमः कर्णम अयॊधयत ॥ 34 ॥
विक्रमं भुजयॊर वीर्यं धैर्यं च विदितात्मनः पुत्रास तव महाराज ददृशुः पाण्डवस्य ह ॥ 35 ॥
द्रोणपर्व · Drona Parva
अध्याय 111
Reach this point to mark the section finished.
Continue to अध्याय 112