[धृ] दैवम एव परं मन्ये धिक पौरुषम अनर्थकम यत्राधिरथिर आयस्तॊ नातरत पाण्डवं रणे ॥ 1 ॥
कर्णः पार्थान स गॊविन्दाञ जेतुम उत्सहते रणे न च कर्ण समं यॊधं लॊके पश्यामि कं चन इति दुर्यॊधनस्याहम अश्रौषं जल्पतॊ मुहुः ॥ 2 ॥
कर्णॊ हि बलवाञ शूरॊ दृढधन्वा जितक्लमः इति माम अब्रवीत सूत मन्दॊ दुर्यॊधनः पुरा ॥ 3 ॥
वसु षेण सहायं मां नालं देवापि संयुगे किम उ पाण्डुसुता राजन गतसत्त्वा विचेतसः ॥ 4 ॥
तत्र तं निर्जितं दृष्ट्वा भुजंगम इव निर्विषम युद्धात कर्णम अपक्रान्तं किं सविद दुर्यॊधनॊ ऽबरवीत ॥ 5 ॥
अहॊ दुर्मुखम एवैकं युद्धानाम अविशारदम परावेशयद युद्धवहं पतंगम इव मॊहितः ॥ 6 ॥
अश्वत्थामा मद्रराजः कृपः कर्णश च संगताः न शक्ताः परमुखे सथातुं नूनं भीमस्य संजय ॥ 7 ॥
ते ऽपि चास्य महाघॊरं बलं नागायुतॊपमम जानन्तॊ वयवसायं च करूरं मारुत तेजसः ॥ 8 ॥
किमर्थं करूरकर्माणं यम कालान्तकॊपमम बलसंरम्भ वीर्यज्ञाः कॊपयिष्यन्ति संयुगे ॥ 9 ॥
कर्णस तव एकॊ महाबाहुः सवबाहुबलम आश्रितः भीमसेनम अनादृत्य रणे ऽयुध्यत सूतजः ॥ 10 ॥
यॊ ऽजयत समरे कर्णं पुरंदर इवासुरम न स पाण्डुसुतॊ जेतुं शक्यः केन चिद आहवे ॥ 11 ॥
दरॊणं यः संप्रमथ्यैकः परविष्टॊ मम वाहिनीम भीमॊ धनंजयान्वेषी कस तम अर्छेज जिजीविषुः ॥ 12 ॥
कॊ हि संजय भीमस्य सथातुम उत्सहते ऽगरतः उद्यताशनि वज्रस्य महेन्द्रस्येव दानवः ॥ 13 ॥
परेतराजपुरं पराप्य निवर्तेतापि मानवः न भीमसेनं संप्राप्य निवर्तेत कदा चन ॥ 14 ॥
पतंगा इव वह्निं ते पराविशन्न अल्पचेतसः ये भीमसेनं संक्रुद्धम अभ्यधावन विमॊहिताः ॥ 15 ॥
यत तत सभायां भीमेन मम पुत्रवधाश्रयम शप्त संरम्भिणॊग्रेण कुरूणां शृण्वतां तदा ॥ 16 ॥
तन नूनम अभिसंचिन्त्य दृष्ट्वा कर्णं च निर्जितम दुःशासनः सह भरात्रा भयाद भीमाद उपारमत ॥ 17 ॥
यश च संजय दुर्बुद्धिर अब्रवीत समितौ मुहुः कर्णॊ दुःशासनॊ ऽहं च जेष्यामॊ युधि पाण्डवान ॥ 18 ॥
स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम परत्याख्यानाच च कृष्णस्य भृशं तप्यति संजय ॥ 19 ॥
दृष्ट्वा भरातॄन हतान युद्धे भीमसेनेन दंशितान आत्मापराधात सुमहन नूनं तप्यति पुत्रकः ॥ 20 ॥
कॊ हि जीवितम अन्विच्छन परतीपं पाण्डवं वरजेत भीमं भीमायुधं करुद्धं साक्षात कालम इव सथितम ॥ 21 ॥
वडवामुखमध्यस्थॊ मुच्येतापि हि मानवः न भीम मुखसंप्राप्तॊ मुच्येतेति मतिर मम ॥ 22 ॥
न पाण्डवा न पाञ्चाला न च केशव सात्यकी जानन्ति युधि संरब्धा जीवितं परिरक्षितुम ॥ 23 ॥
[स] यत संशॊचसि कौरव्य वर्तमाने जनक्षये तवम अस्य जगतॊ मूलं विनाशस्य न संशयः ॥ 24 ॥
सवयं वैरं महत कृत्वा पुत्राणां वचने सथितः उच्यमानॊ न गृह्णीषे मर्त्यः पथ्यम इवौषधम ॥ 25 ॥
सवयं पीत्वा महाराज कालकूटं सुदुर्जरम तस्येदानीं फलं कृत्स्नम अवाप्नुहि नरॊत्तम ॥ 26 ॥
यत तु कुत्सयसे यॊधान युध्यमानान यथाबलम अत्र ते वर्णयिष्यामि यथा युद्धम अवर्तत ॥ 27 ॥
दृष्ट्वा कर्णं तु पुत्रास ते भीमसेन पराजितम नामृष्यन्त महेष्वासाः सॊदर्याः पञ्च मारिष ॥ 28 ॥
दुर्मर्षणॊ दुःसहश च दुर्मदॊ दुर्धरॊ जयः पाण्डवं चित्रसंनाहास तं परतीपम उपाद्रवन ॥ 29 ॥
ते समन्तान महाबाहुं परिवार्य वृकॊदरम दिशः शरैः समावृण्वञ शलभानाम इव वरजैः ॥ 30 ॥
आगच्छतस तान सहसा कुमारान देवरूपिणः परतिजग्राह समरे भीमसेनॊ हसन्न इव ॥ 31 ॥
तव दृष्ट्वा तु तनयान भीमसेन समीपगान अभ्यवर्तत राधेयॊ भीमसेनं महाबलम ॥ 32 ॥
विसृजन विशिखान राजन सवर्णपुङ्खाञ शिलाशितान तं तु भीमॊ ऽभययात तूर्णं वार्यमाणः सुतैस तव ॥ 33 ॥
कुरवस तु ततः कर्णं परिवार्य समन्ततः अवाकिरन भीमसेनं शरैः संनतपर्वभिः ॥ 34 ॥
तान बाणैः पञ्चविंशत्या साश्वान राजन नरर्षभान स सुतान भीम धनुषॊ भीमॊ निन्ये यमक्षयम ॥ 35 ॥
परापतन सयन्दनेभ्यस ते सार्धं सूतैर गतासवः चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः ॥ 36 ॥
तत्राद्भुतम अपश्याम भीमसेनस्य विक्रमम संवार्याधिरथिं बाणैर यज जघान तवात्मजान ॥ 37 ॥
स वार्यमाणॊ भीमेन शितैर बाणैः समन्ततः सूतपुत्रॊ महाराज भीमसेनम अवैक्षत ॥ 38 ॥
तं भीमसेनः संरम्भात करॊधसंरक्तलॊचनः विस्फार्य सुमहच चापं मुहुः कर्णम अवैक्षत ॥ 39 ॥
द्रोणपर्व · Drona Parva
अध्याय 110
Reach this point to mark the section finished.
Continue to अध्याय 111