[स] वयूहेष्व आलॊड्यमानेषु पाण्डवानां ततस ततः सुदूरम अन्वयुः पार्थाः पाञ्चालाः सह सॊमकैः ॥ 1 ॥
वर्तमाने तथा रौद्रे संग्रामे लॊमहर्षणे परक्षये जगतस तीव्रे युगान्त इव भारत ॥ 2 ॥
दरॊणे युधि पराक्राने नर्दमाने मुहुर मुहुः पाञ्चालेषु च कषीणेषु वध्यमानेषु पाण्डुषु ॥ 3 ॥
नापश्यच छरणं किं चिद धर्मराजॊ युधिष्ठिरः चिन्तयाम आस राजेन्द्र कथम एतद भविष्यति ॥ 4 ॥
तत्रावेक्ष्य दिशः सर्वाः सव्यसाचि दिदृष्ट्कया युधिष्ठिरॊ ददर्शाथ नैव पार्थ न माधवम ॥ 5 ॥
सॊ ऽपश्यन नरशार्दूलं वानरर्षभ लक्षणम गाण्डीवस्य च निर्घॊषम अशृण्वन वयथितेन्द्रियः ॥ 6 ॥
अपश्यन सात्यकिं चापि वृष्णीनां परवरं रथम चिन्तयाभिपरीताङ्गॊ धर्मराजॊ युधिष्ठिरः नाध्यगच्छत तदा शान्तिं ताव अपश्यन नरर्षभौ ॥ 7 ॥
लॊकॊपक्रॊश भीरुत्वाद धर्मराजॊ महायशाः अचिन्तयन महाबाहुः शैनेयस्य रथं परति ॥ 8 ॥
पदवीं परेषितश चैव फल्गुनस्य मया रणे शैनेयः सात्यकिः सत्यॊ मित्राणाम अभयंकरः ॥ 9 ॥
तद इदं हय एकम एवासीद दविधा जातं ममाद्य वै सात्यकिश च हि मे जञेयः पाण्डवश च धनंजयः ॥ 10 ॥
सात्यकिं परेषयित्वा तु पाण्डवस्य पदानुगम सात्वतस्यापि किं युद्धे परेषयिष्ये पदानुगम ॥ 11 ॥
करिष्यामि परयत्नेन भरातुर अन्वेषणं यदि युयुधानम अनन्विष्य लॊकॊ मां गर्हयिष्यति ॥ 12 ॥
भरातुर अन्वेषणं कृत्वा धर्मराजॊ युधिष्ठिरः परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम ॥ 13 ॥
लॊकापवादभीरुत्वात सॊ ऽहं पार्थं वृकॊदरम पदवीं परेषयिष्यामि माधवस्य महात्मनः ॥ 14 ॥
यथैव च मम परीतिर अर्जुने शत्रुसूदने तथैव वृष्णिवीरे ऽपि सात्वते युद्धदुर्मदे ॥ 15 ॥
अतिभारे नियुक्तश च मया शैनेयनन्दनः स तु मित्रॊपरॊधेन गौरवाच च महाबलः परविष्टॊ भरतीं सेनां मकरः सागरं यथा ॥ 16 ॥
असौ हि शरूयते शब्दः शूराणाम अनिवर्तिनाम मिथः संयुध्यमानानां वृष्णिवीरेण धीमता ॥ 17 ॥
पराप्तकालं सुबलवन निश्चित्य बहुधा हि मे तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः गमनं रॊचते मह्यं यत्र यातौ महारथौ ॥ 18 ॥
न चाप्य असह्यं भीमस्य विद्यते भुवि किं चन शक्तॊ हय एष रणे यत्तान पृथिव्यां सर्वधन्विनः सवबाहुबलम आस्थाय परतिव्यूहितुम अञ्जसा ॥ 19 ॥
यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः वनवासान निवृत्ताः सम न च युद्धेषु निर्जिताः ॥ 20 ॥
इतॊ गते भीमसेने सात्वतं परति पाण्डवे स नाथौ भवितारौ हि युधि सात्वत फल्गुनौ ॥ 21 ॥
कामं तव अशॊचनीयौ तौ रणे सात्वत फल्गुनौ रक्षितौ वासुदेवेन सवयं चास्त्रविशारदौ ॥ 22 ॥
अवश्यं तु मया कार्यम आत्मनः शॊकनाशनम तस्माद भीमं नियॊक्ष्यामि सात्वतस्य पदानुगम ततः परतिकृतं मन्ये विधानं सात्यकिं परति ॥ 23 ॥
एवं निश्चित्य मनसा धर्मपुत्रॊ युधिष्ठिरः यन्तारम अब्रवीद राजन भीमं परति नयस्व माम ॥ 24 ॥
धर्मराज वचः शरुत्वा सारथिर हयकॊविदः रथं हेमपरिष्कारं भीमान्तिकम उपानयत ॥ 25 ॥
भीमसेनम अनुप्राप्य पराप्तकालम अनुस्मरन कश्मलं पराविशद राजा बहु तत्र समादिशन ॥ 26 ॥
यः स देवान स गन्धर्वान दैत्यांश चैकरथॊ ऽजयत तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते ॥ 27 ॥
ततॊ ऽबरवीद धर्मराजं भीमसेनस तथागतम नैवाद्राक्षं न चाश्रौषं तव कश्मलम ईदृशम ॥ 28 ॥
पुरा हि दुःखदीर्णानां भवान गतिर अभूद धि नः उत्तिष्ठॊत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते ॥ 29 ॥
न हय असाध्यम अकार्यं वा विद्यते मम मानद आज्ञापय कुरुश्रेष्ठ मा च शॊके मनः कृथाः ॥ 30 ॥
तम अब्रवीद अश्रुपूर्णः कृष्णसर्प इव शवसन भीमसेनम इदं वाक्यं परम्लान वदनॊ नृपः ॥ 31 ॥
यथा शङ्खस्य निर्घॊषः पाञ्चजन्यस्य शरूयते परेरितॊ वासुदेवेन संरब्धेन यशस्विना नूनम अद्य हतः शेते तव भराता धनंजयः ॥ 32 ॥
तस्मिन विनिहते नूनं युध्यते ऽसौ जनार्दनः यस्य सत्त्ववतॊ वीर्यम उपजीवन्ति पाण्डवाः ॥ 33 ॥
यं भयेष्व अभिगच्छन्ति सहस्राक्षम इवामराः स शूरः सैन्धव परेप्सुर अन्वयाद भारतीं चमूम ॥ 34 ॥
तस्य वै गमनं विद्मॊ भीम नावर्तनं पुनः शयामॊ युवा गुडाकेशॊ दर्शनीयॊ महाभुजः ॥ 35 ॥
वयूढॊरस्कॊ महास्कन्धॊ मत्तद्विरदविक्रमः चकॊर नेत्रस ताम्राक्षॊ दविषताम अघवर्धनः ॥ 36 ॥
तद इदं मम भद्रं ते शॊकस्थानम अरिंदम अर्जुनार्थं महाबाहॊ सात्वतस्य च कारणात ॥ 37 ॥
वर्धते हविषेवाग्निर इध्यमानः पुनः पुनः तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम ॥ 38 ॥
तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम स तं महारथं पश्चाद अनुयातस तवानुजम तम अपश्यन महाबाहुम अहं विन्दामि कश्मलम ॥ 39 ॥
तस्मात कृष्णॊ रणे नूनं युध्यते युद्धकॊविदः यस्य वीर्यवतॊ वीर्यम उपजीवन्ति पाण्डवाः ॥ 40 ॥
स तत्र गच्छ कौनेय यत्र यातॊ धनंजयः सात्यकिश च महावीर्यः कर्तव्यं यदि मन्यसे वचनं मम धर्मज्ञ जयेष्ठॊ भराता भवामि ते ॥ 41 ॥
न ते ऽरजुनस तथा जञेयॊ जञातव्यः सात्यकिर यथा चिकीर्षुर मत्प्रियं पार्थ परयातः सव्यसाचिनः पदवीं दुर्गमां घॊराम अगम्याम अकृतात्मभिः ॥ 42 ॥
[भम] बरह्मेषानेन्द्र वरुणान अवहद यः पुरा रथः तम आस्थाय गतौ कृष्णौ न तयॊर विद्यते भयम ॥ 43 ॥
आज्ञां तु शिरसा बिभ्रद एष गच्छामि मा शुचः समेत्य तान नरव्याघ्रांस तव दास्यामि संविदम ॥ 44 ॥
[स] एतावद उक्त्वा परययौ परिदाय युधिष्ठिरम धृष्टद्युम्नाय बलवान सुहृद्भ्यश च पुनः पुनः धृष्टद्युम्नं चेदम आह भीमसेनॊ महाबलः ॥ 45 ॥
विदितं ते महाबाहॊ यथा दरॊणॊ महारथः गरहणे धर्मराजस्य सर्वॊपायेन वर्तते ॥ 46 ॥
न च मे गमने कृत्यं तादृक पार्षत विद्यते यादृशं रक्षणे राज्ञः कार्यम आत्ययिकं हि नः ॥ 47 ॥
एवम उक्तॊ ऽसमि पार्थेन परतिवक्तुं सम नॊत्सहे परयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः सथितः धर्मराजस्य वचने सथातव्यम अविशङ्कया ॥ 48 ॥
सॊ ऽदय यत्तॊ रणे पार्थं परिरक्ष युधिष्ठिरम एतद धि सर्वकार्याणां परमं कृत्यम आहवे ॥ 49 ॥
तम अब्रवीन महाराज धृष्टद्युम्नॊ वृकॊदरम ईप्सितेन महाबाहॊ गच्छ पार्थाविचारयन ॥ 50 ॥
नाहत्वा समरे दरॊणॊ धृष्टद्युम्नं कथं चन निग्रहं धर्मराजस्य परकरिष्यति संयुगे ॥ 51 ॥
ततॊ निक्षिप्य राजानं धृष्टद्युम्नाय पाण्डवः अभिवाद्य गुरुं जयेष्ठं परययौ यत्र फल्गुनः ॥ 52 ॥
परिष्वक्तस तु कौन्तेयॊ धर्मराजेन भारत आघ्रातश च तथा मूर्ध्नि शरावितश चाशिषः शुभाः ॥ 53 ॥
भीमसेनॊ महाबाहुः कवची शुभकुण्डली साङ्गदः स तनुत्राणः स शरी रथिनां वरः ॥ 54 ॥
तस्य कार्ण्षायसं वर्म हेमचित्रं महर्द्धिमत विबभौ पर्वत शलिष्टः स विद्युद इव तॊयदः ॥ 55 ॥
पीतरक्तासित सितैर वासॊभिश च सुवेष्टितः कण्ठत्राणेन च बभौ सेन्द्रायुध इवाम्बुदः ॥ 56 ॥
परयाते भीमसेने तु तव सैन्यं युयुत्सया पाञ्चजन्य रवॊ घॊरः पुनर आसीद विशां पते ॥ 57 ॥
तं शरुत्वा निनदं घॊरं तरैलॊक्यत्रासनं महत पुनर भीमं महाबाहुर धर्मपुत्रॊ ऽभयभाषत ॥ 58 ॥
एष वृष्णिप्रवीरेण धमातः सलिलजॊ भृशम पृथिवीं चान्तरिक्षं च विनादयति शङ्खराट ॥ 59 ॥
नूनं वयसनम आपन्ने सुमहत सव्यसाचिनि कुरुभिर युध्यते सार्धं सर्वैश चक्रगदाधरः ॥ 60 ॥
नूनम आर्या महत कुन्ती पापम अद्य निदर्शनम दरौपदी तु सुभद्रा च पश्यन्ति सह बन्धुभिः ॥ 61 ॥
स भीमस तवरया युक्तॊ याहि यत्र धनंजयः मुह्यन्तीव हि मे सर्वा धनंजय दिदृक्षया दिशः स परदिशः पार्थ सात्वतस्य च कारणात ॥ 62 ॥
गच्छ गच्छेति च पुनर भीमसेनम अभाषत भृशं स परहितॊ भरात्रा भराता भरातुः परियं करः आहत्य दुन्दुभिं भीमः शङ्खं परध्माय चासकृत ॥ 63 ॥
विनद्य सिंहनादं च जयां विकर्षन पुनः पुनः दर्शयन घॊरम आत्मानम अमित्रान सहसाभ्ययात ॥ 64 ॥
तम ऊहुर जवना दान्ता विकुर्वाणा हयॊत्तमाः विशॊकेनाभिसंयत्ता मनॊमारुतरंहसः ॥ 65 ॥
आरुजन विरुजन पार्थॊ जयां विकर्षंश च पाणिना सॊ ऽवकर्षन विकर्षंश च सेनाग्रं समलॊडयत ॥ 66 ॥
तं परयान्तं महाबाहुं पाञ्चालाः सह सॊमकाः पृष्ठतॊ ऽनुययुः शूरा मघवन्तम इवामराः ॥ 67 ॥
तं स सेना महाराज सॊदर्याः पर्यवारयन दुःशलश चित्रसेनश च कुण्ड भेदी विविंशतिः ॥ 68 ॥
दुर्मुखॊ दुःसहश चैव विकर्णश च शलस तथा विन्दानुविन्दौ सुमुखॊ दीर्घबाहुः सुदर्शनः ॥ 69 ॥
वृन्दारकः सुहस्तश च सुषेणॊ दीर्घलॊचनः अभयॊ रौद्रकर्मा च सुवर्मा दुर्विमॊचनः ॥ 70 ॥
विविधै रथिनां शरेष्ठाः सह सैन्यैः सहानुगैः संयत्ताः समरे शूरा भीमसेनम उपाद्रवन ॥ 71 ॥
तान समीक्ष्य तु कौन्तेयॊ भीमसेनः पराक्रमी अभ्यवर्तत वेगेन सिंहः कषुद्रमृगान इव ॥ 72 ॥
ते महास्त्राणि दिव्यानि तत्र वीरा अदर्शयन वारयन्तः शरैर भीमं मेघाः सूर्यम इवॊदितम ॥ 73 ॥
स तान अतीत्य वेगेन दरॊणानीकम उपाद्रवत अग्रतश च गजानीकं शरवर्षैर अवाकिरत ॥ 74 ॥
सॊ ऽचिरेणैव कालेन तद गजानीकम आशुगैः दिशः सर्वाः समभ्यस्य वयधमत पवनात्मजः ॥ 75 ॥
तरासिताः शरभस्येव गर्जितेन वने मृगाः परद्रवन दविरदाः सर्वे नदन्तॊ भैरवान रवान ॥ 76 ॥
पुनश चातीत्य वेगेन दरॊणानीकम उपाद्रवत तम अवारयद आचार्यॊ वेलेवॊद्वृत्तम अर्णवम ॥ 77 ॥
ललाटे ऽताडयच चैनं नाराचेन समयन्न इव ऊर्ध्वरश्मिर इवादित्यॊ विबभौ तत्र पाण्डवः ॥ 78 ॥
स मन्यमानस तव आचार्यॊ ममायं फल्गुनॊ यथा भीमः करिष्यते पूजाम इत्य उवाच वृकॊदरम ॥ 79 ॥
भीमसेन न ते शक्यं परवेष्टुम अरिवाहिनीम माम अनिर्जित्य समरे शत्रुमध्ये महाबल ॥ 80 ॥
यदि ते सॊ ऽनुजः कृष्णः परविष्टॊ ऽनुमते मम अनीकं न तु शक्यं भॊः परवेष्टुम इह वै तवया ॥ 81 ॥
अथ भीमस तु तच छरुत्वा गुरॊर वाक्यम अपेतभीः करुद्धः परॊवाच वै दरॊणं रक्तताम्रेक्षणः शवसन ॥ 82 ॥
तवार्जुनॊ नानुमते बरह्म बन्धॊ रणाजिरम परविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद बलम ॥ 83 ॥
येन वै परमां पूजां कुर्वता मानितॊ हय असि नार्जुनॊ ऽहं घृणी दरॊण भीमसेनॊ ऽसमि ते रिपुः ॥ 84 ॥
पिता नस तवं गुरुर बन्धुस तथा पुत्रा हि ते वयम इति मन्यामहे सर्वे भवन्तं परणताः सथिताः ॥ 85 ॥
अद्य तद विपरीतं ते वदतॊ ऽसमासु दृश्यते यदि शत्रुं तवम आत्मानं मन्यसे तत तथास्त्व इह एष ते सदृशं शत्रॊः कर्म भीमः करॊम्य अहम ॥ 86 ॥
अथॊद्भ्राम्य गदां भीमः कालदण्डम इवान्तकः दरॊणायावसृजद राजन स रथाद अवपुप्लुवे ॥ 87 ॥
साश्वसूत धवजं यानं दरॊणस्यापॊथयत तदा परामृद्नाच च बहून यॊधान वायुर कृष्णान इवौजसा ॥ 88 ॥
तं पुनः परिवव्रुस ते तव पुत्रा रथॊत्तमम अन्यं च रथम आस्थाय दरॊणः परहरतां वरः ॥ 89 ॥
ततः करुद्दॊर महाराज भीमसेनः पराक्रमी अग्रतः सयन्दनानीकं शरवर्षैर अवाकिरत ॥ 90 ॥
ते वध्यमानाः समरे तव पुत्रा महारथाः भीमं भीमबलं युद्धे ऽयॊधयंस तु जयैषिणः ॥ 91 ॥
ततॊ दुःशासनः करुद्धॊ रथशक्तिं समाक्षिपन सर्वपारशवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम ॥ 92 ॥
आपतन्तीं महाशक्तिं तव पुत्र परचॊदिताम दविधा चिच्छेद तां भीमस तद अद्भुतम इवाभवत ॥ 93 ॥
अथान्यैर निशितैर बाणैः संक्रुद्धः कुण्ड भेदिनम सुषेणं दीर्घनेत्रं च तरिभिस तरीन अवधीद बली ॥ 94 ॥
ततॊ वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम पुत्राणां तव वीराणां युध्यताम अवधीत पुनः ॥ 95 ॥
अभयं रौद्रकर्माणं दुर्विमॊचनम एव च तरिभिस तरीन अवधीद भीमः पुनर एव सुतांस तव ॥ 96 ॥
वध्यमाना महाराज पुत्रास तव बलीयसा भीमं परहरतां शरेष्ठं समन्तात पर्यवारयन ॥ 97 ॥
विन्दानुविन्दौ सहितौ सुवर्माणं च ते सुतम परहसन्न इव कौनेयः शरैर निन्ये यमक्षयम ॥ 98 ॥
ततः सुदर्शनं वीरं पुत्रं ते भरतर्षभ विव्याध समरे तूर्णं स पपात ममार च ॥ 99 ॥
सॊ चिरेणैव कालेन तद्रथानीकम आशुगैः दिशः सर्वाः समभ्यस्य वयधमत पाणुनन्दनः ॥ 100 ॥
ततॊ वै रथगॊषेण गर्जितेन मृगा इव वध्यमानाश च समरे पुत्रास तव विशां पते पराद्रवन स रथाः सर्वे भीमसेनभयार्दिताः ॥ 101 ॥
अनुयाय तु कौनेयः पुत्राणां ते महद बलम विव्याध समरे राजन कौरवेयान समन्ततः ॥ 102 ॥
वध्यमाना महाराज भीमसेनेन तावकाः तयक्त्वा भीमं रणे यन्ति चॊदयन्तॊ हयॊत्तमान ॥ 103 ॥
तांस तु निर्जित्य समरे भीमसेनॊ महाबलः सिंहनाद रवं चक्रे बाहुशब्दं च पाण्डवः ॥ 104 ॥
तलशब्दं च सुमहत कृत्वा भीमॊ महाबलः वयतीत्य रथिनश चापि दरॊणानीकम उपाद्रवत ॥ 105 ॥
द्रोणपर्व · Drona Parva
अध्याय 102
Reach this point to mark the section finished.
Continue to अध्याय 103