[स] अपराह्णे महाराज संग्रामः समपद्यत पर्जन्यसमनिर्घॊषः पुनर दरॊणस्य सॊमकैः ॥ 1 ॥
शॊणाश्वं रथम आस्थाय नरवीरः समाहितः समरे ऽभयद्रवत पाण्डूञ जवम आस्थाय मध्यमम ॥ 2 ॥
तव परियहिते युक्तॊ महेष्वासॊ महाबलः चित्रपुङ्खैः शितैर बाणैः कलशॊत्तम संभवः ॥ 3 ॥
वरान वरान हि यॊधानां विचिन्वन्न इव भारत अक्रीडत रणे राजन भारद्वाजः परतापवान ॥ 4 ॥
तम अभ्ययाद बृहत कषत्रः केकयानां महारथः भरातॄणां वीर पञ्चानां जयेष्ठः समरकर्कशः ॥ 5 ॥
विमुञ्चन विशिखांस तीक्ष्णान आचार्यं छादयन भृशम महामेघॊ यथा वर्षं विमुञ्चन गन्धमादने ॥ 6 ॥
तस्य दरॊणॊ महाराज सवर्णपुङ्खाञ शिलाशितान परेषयाम आस संक्रुद्धः सायकान दश सप्त च ॥ 7 ॥
तांस तु दरॊण धनुर्मुक्तान घॊरान आशीविषॊपमान एकैकं दशभिर बाणैर युधि चिच्छेद हृष्टवत ॥ 8 ॥
तस्य तल लाघवं दृष्ट्वा परहसन दविजसत्तमः परेषयाम आस विशिखान अष्टौ संनतपर्वणः ॥ 9 ॥
तान दृष्ट्वा पततः शीघ्रं दरॊण चापच्युताञ शरान अवारयच छरैर एव तावद्भिर निशितैर दृढैः ॥ 10 ॥
ततॊ ऽभवन महाराज तव सैन्यस्य विस्मयः बृह कषत्रेण तत कर्मकृतं दृष्ट्वा सुदुष्करम ॥ 11 ॥
ततॊ दरॊणॊ महाराज केकयं वै विशेषयन परादुश्चक्रे रणे दिव्यं बराह्मम अस्त्रं महातपाः ॥ 12 ॥
तद अस्य राजन कैकेयः परत्यवारयद अच्युतः बराह्मेणैव महाबाहुर आहवे समुदीरितम ॥ 13 ॥
परतिहन्य तद अस्त्रं तु भारद्वाजस्य संयुगे विव्याध बराह्मणं षष्ट्या सवर्णपुङ्खैः शिलाशितैः ॥ 14 ॥
तं दरॊणॊ दविपदां शरेष्ठॊ नाराचेन समर्पयत स तस्य कवचं भित्त्वा पराविशद धरणीतलम ॥ 15 ॥
कृष्णसर्पॊ यथा मुक्तॊ वल्मीकं नृपसत्तम तथाभ्यगान महीं बाणॊ भित्त्वा कैकेयम आहवे ॥ 16 ॥
सॊ ऽतिविद्धॊ महाराज दरॊणेनास्त्रविदा भृशम करॊधेन महताविष्टॊ वयावृत्य नयने शुभे ॥ 17 ॥
दरॊणं विव्याध सप्तत्या सवर्णपुङ्खैः शिलाशितैः सारथिं चास्य भल्लेन बाह्वॊर उरसि चार्पयत ॥ 18 ॥
दरॊणस तु बहुधा विद्धॊ बृहत कषत्रेण मारिष असृजद विशिखांस तीक्ष्णान केकयस्य रथं परति ॥ 19 ॥
वयाकुलीकृत्य तं दरॊणॊ बृहत कषत्रं महारथम वयसृजत सायकं तीक्ष्णं केकयं परति भारत ॥ 20 ॥
स गाढविद्धस तेनाशु महाराज सतनान्तरे रथात पुरुषशार्दूलः संभिन्नहृदयॊ ऽपतत ॥ 21 ॥
बृहत कषत्रे हते राजन केकयानां महारथे शैशुपालिः सुसंक्रुद्धॊ यन्तारम इदम अब्रवीत ॥ 22 ॥
सारथे याहि यत्रैष दरॊणस तिष्ठति दंशितः विनिघ्नन केकयान सर्वान पाञ्चालानां च वाहिनीम ॥ 23 ॥
तस्य तद वचनं शरुत्वा सारथी रथिनां वरम दरॊणाय परापयाम आस काम्बॊजैर जवनैर हयैः ॥ 24 ॥
धृष्टकेतुश च चेदीनाम ऋषभॊ ऽतिबलॊदितः सहसा परापतद दरॊणं पतंग इव पावकम ॥ 25 ॥
सॊ ऽभयविध्यत ततॊ दरॊणं षष्ट्या साश्वरथध्वजम पुनश चान्यैः शरैस तीक्ष्णैः सुप्तं वयाघ्रं तुदन्न इव ॥ 26 ॥
तस्य दरॊणॊ धनुर्मध्ये कषुरप्रेण शितेन ह चिच्छेद राज्ञॊ बलिनॊ यतमानस्य संयुगे ॥ 27 ॥
अथान्यद धनुर आदाय शैशुपालिर महारथः विव्याध सायकैर दरॊणं पुनः सुनिशितैर दृढैः ॥ 28 ॥
तस्य दरॊणॊ हयान हत्वा सारथिंच महाबलः अथैनं पञ्चविंशत्या सायकानां समार्पयत ॥ 29 ॥
विरथॊ विधनुष्कश च चेदिराजॊ ऽपि संयुगे गदां चिक्षेप संक्रुद्धॊ भारद्वाज रथं परति ॥ 30 ॥
ताम आपतन्तीं सहसा घॊररूपां भयावहाम अश्मसारमयीं गुर्वीं तपनीयविभूषिताम शरैर अनेकसाहस्रैर भारद्वाजॊ नयपातयत ॥ 31 ॥
सा पपात गदा भूमौ भारद्वाजेन सादिता रक्तमाल्याम्बरधरा तारेव नभसस तलात ॥ 32 ॥
गदां विनिहतां दृष्ट्वा धृष्टकेतुर अमर्षणः तॊमरं वयसृजत तूर्णं शक्तिं च कनकॊज्ज्वलाम ॥ 33 ॥
तॊमरं तु तरिभिर बाणैर दरॊणश छित्त्वा महामृधे शक्तिं चिच्छेद सहसा कृतहस्तॊ महाबलः ॥ 34 ॥
ततॊ ऽसय विशिखं तीक्ष्णं वधार्थं वधकाङ्क्षिणः परेषयाम आस समरे भारद्वाजः परतापवान ॥ 35 ॥
स तस्य कवचं भित्त्वा हृदयं चामितौजसः अभ्यगाद धरणीं बाणॊ हंसः पद्मसरॊ यथा ॥ 36 ॥
पतंगं हि गरसेच चाषॊ यथा राजन बुभुक्षितः तथा दरॊणॊ ऽगरसच छूरॊ धृष्टकेतुं महामृधे ॥ 37 ॥
निहते चेदिराजे तु तत खण्डं पित्र्यम आविशत अमर्षवशम आपन्नः पुत्रॊ ऽसय परमास्त्रवित ॥ 38 ॥
तम अपि परहसन दरॊणः शरैर निन्ये यमक्षयम महाव्याघ्रॊ महारण्ये मृगशावं यथाबली ॥ 39 ॥
तेषु परक्षीयमाणेषु पाण्डवेयेषु भारत जरासंध सुतॊ वीरः सवयं दरॊणम उपाद्रवत ॥ 40 ॥
स तु दरॊणं महाराज छादयन सायकैः शितैः अदृश्यम अकरॊत तूर्णं जलदॊ भास्करं यथा ॥ 41 ॥
तस्य तल लाघवं दृष्ट्वा दरॊणः कषत्रिय मर्दनः वयसृजत सायकांस तूर्णं शतशॊ ऽथ सहस्रशः ॥ 42 ॥
छादयित्वा रणे दरॊणॊ रथस्थं रथिनां वरम जारासंधिम अथॊ जघ्ने मिषतां सर्वधन्विनाम ॥ 43 ॥
यॊ यः सम लीयते दरॊणं तं तं दरॊणॊ ऽनतकॊपमः आदत्त सर्वभूतानि पराप्रे काले यथान्तकः ॥ 44 ॥
ततॊ दरॊणॊ महेष्वासॊ नाम विश्राव्य संयुगे शरैर अनेकसाहस्रैः पाण्डवेयान वयमॊहयत ॥ 45 ॥
ततॊ दरॊणाङ्किता बाणाः सवर्णपुङ्खाः शिलाशिताः नरान नागान हयांश चैव निजघ्नुः सर्वतॊ रणे ॥ 46 ॥
ते वध्यमाना दरॊणेन शक्रेणेव महासुराः समकम्पन्त पाञ्चाला गावः शीतार्दिता इव ॥ 47 ॥
ततॊ निष्टानकॊ घॊरः पाण्डवानाम अजायत दरॊणेन वध्यमानेषु सैन्येषु भरतर्षभ ॥ 48 ॥
मॊहिताः शरवर्षेण भारद्वाजस्य संयुगे ऊरुग्राहगृहीता हि पाञ्चालानां महारथाः ॥ 49 ॥
चेदयश च महाराज सृञ्जयाः सॊमकास तथा अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया ॥ 50 ॥
हतद्रॊणं हतद्रॊणम इति ते दरॊणम अभ्ययुः यतन्तः पुरुषव्याघ्राः सर्वशक्त्या महाद्युतिम निनीषन्तॊ रणे दरॊणं यमस्य सदनं परति ॥ 51 ॥
यतमानांस तु तान वीरान भारद्वाजः शिलीमुखैः यमाय परेषयाम आस चेदिमुख्यान विशेषतः ॥ 52 ॥
तेषु परक्षीयमाणेषु चेदिमुख्येषु भारत पाञ्चालाः समकम्पन्त दरॊण सायकपीडिताः ॥ 53 ॥
पराक्रॊशन भीमसेनं ते धृष्टद्युम्न रथं परति दृष्ट्वा दरॊणस्य कर्माणि तथारूपाणि मारिष ॥ 54 ॥
बराह्मणेन तपॊ नूनं चरितं दुश्चरं महत तथा हि युधि विक्रान्तॊ दहति कषत्रियर्षभान ॥ 55 ॥
धर्मॊ युद्धं कषत्रियस्य बराह्मणस्य परंतपः तपस्वी कृतविद्यश च परेक्षितेनापि निर्दहेत ॥ 56 ॥
दरॊणास्त्रम अग्निसंस्पर्शं परविष्टाः कषत्रियर्षभाः बहवॊ दुस्तरं घॊरं यत्रादह्यन्त भारत ॥ 57 ॥
यथाबलं यथॊत्साहं यथा सत्त्वं महाद्युतिः मॊहयन सर्वभूतानि दरॊणॊ हन्ति बलानि नः ॥ 58 ॥
तेषां तद वचनं शरुत्वा कषत्रधर्मा वयवस्थितः अर्धचन्द्रेण चिच्छेद दरॊणस्य स शरं धनुः ॥ 59 ॥
स संरब्धतरॊ भूत्वा दरॊणः कषत्रिय मर्दनः अन्यत कार्मुकम आदाय भास्वरं वेगवत्तरम ॥ 60 ॥
तत्राधाय शरं तीक्ष्णं भारघ्नं विमलं दृढम आकर्णपूर्णम आचार्यॊ बलवान अभ्यवासृजत ॥ 61 ॥
स हत्वा कषत्रधर्म्माणं जगाम धरणीतलम स भिन्नहृदयॊ वाहाद अपतन मेदिनी तले ॥ 62 ॥
ततः सैन्यान्य अकम्पन्त धृष्टद्युम्न सुते हते अथ दरॊणं समारॊहच चेकितानॊ महारथः ॥ 63 ॥
स दरॊणं दशभिर बाणैः परत्यविध्यत सतनान्तरे चतुर्भिः सारथिं चास्य चतुर्भिश चतुरॊ हयान ॥ 64 ॥
तस्याचार्यः षॊडशभिर अविध्यद दक्षिणं भुजम धवजं षॊडशभिर बाणैर यन्तारं चास्य सप्तभिः ॥ 65 ॥
तस्य सूते हते ते ऽशवा रथम आदाय विद्रुताः समरे शरसंवीता भारद्वाजेन मारिष ॥ 66 ॥
चेकितान रथं दृष्ट्वा विद्रुतं हतसारथिम पाञ्चालान पाण्डवांश चैव महद भयम अथाविशत ॥ 67 ॥
तान समेतान रणे शूरांश चेदिपाञ्चालसृञ्जयान समन्ताद दरावयन दरॊणॊ बह्व अशॊभत मारिष ॥ 68 ॥
आकर्णपलितः शयामॊ वयसाशीतिकात परः रणे पर्यचरद दरॊणॊ वृद्धः षॊडशवर्षवत ॥ 69 ॥
अथ दरॊणं महाराज विचरन्तम अभीतवत वज्रहस्तम अमन्यन्त शत्रवः शत्रुसूदनम ॥ 70 ॥
ततॊ ऽबरवीन महाराज दरुपदॊ बुद्धिमान नृप लुब्धॊ ऽयं कषत्रियान हन्ति वयाघ्रः कषुद्रमृगान इव ॥ 71 ॥
कृच्छ्रान दुर्यॊधनॊ लॊकान आपः पराप्स्यति दुर्मतिः यस्य लॊभाद विनिहताः समरे कषत्रियर्षभाः ॥ 72 ॥
शतशः शेरते भूमौ निकृत्ता गॊवृषा इव रुधिरेण परीताङ्गाः शवसृगालादनी कृताः ॥ 73 ॥
एवम उक्त्वा महाराज दरुपदॊ ऽकषौहिणीपतिः पुरस्कृत्य रणे पार्थान दरॊणम अभ्यद्रवद दरुतम ॥ 74 ॥
द्रोणपर्व · Drona Parva
अध्याय 101
Reach this point to mark the section finished.
Continue to अध्याय 102