[स] मध्याह्ने तु महाराज संग्रामः समपद्यत लॊकक्षयकरॊ रौद्रॊ भीष्मस्य सह सॊमकैः ॥ 1 ॥
गाङ्गेयॊ रथिनां शरेष्ठः पाण्डवानाम अनीकिनीम वयधमन निशितैर बाणैः शतशॊ ऽथ सहस्रशः ॥ 2 ॥
संममर्द च तत सैन्यं पिता देवव्रतस तव धान्यानाम इव लूनानां परकरं गॊगणा इव ॥ 3 ॥
धृष्टद्युम्नः शिखण्डी च विराटॊ दरुपदस तथा भीष्मम आसाद्य समरे शरैर जघ्नुर महारथम ॥ 4 ॥
धृष्टद्युम्नं ततॊ विद्ध्वा विराटं च तरिभिः शरैः दरुपदस्य च नाराचं परेषयाम आस भारत ॥ 5 ॥
तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना चुक्रुधुः समरे राजन पादस्पृष्टा इवॊरगाः ॥ 6 ॥
शिखण्डी तं च विव्याध भरतानां पितामहम सत्रीमयं मनसा धयात्वा नास्मै पराहरद अच्युतः ॥ 7 ॥
धृष्टद्युम्नस तु समरे करॊधाद अग्निर इव जवलन पितामहं तरिभिर बाणैर बाह्वॊर उरसि चार्पयत ॥ 8 ॥
दरुपदः पञ्चविंशत्या विराटॊ दशभिः शरैः शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः ॥ 9 ॥
सॊ ऽतिविद्धॊ महाराज भीष्मः संख्ये महात्मभिः वसन्ते पुष्पशबलॊ रक्ताशॊक इवाबभौ ॥ 10 ॥
तान परत्यविध्यद गाङ्गेयस तरिभिस तरिभिर अजिह्मगैः दरुपदस्य च भल्लेन धनुश चिच्छेद मारिष ॥ 11 ॥
सॊ ऽनयत कार्मुकम आदाय भीष्मं विव्याध पञ्चभिः सारथिं च तरिभिर बाणैः सुशितै रणमूर्धनि ॥ 12 ॥
ततॊ भीमॊ महाराज दरौपद्याः पञ्च चात्मजाः केकया भरातरः पञ्च सात्यकिश चैव सात्वतः ॥ 13 ॥
अभ्यद्रवन्त गाङ्गेयं युधिष्ठिर हितेप्सया रिरक्षिषन्तः पाञ्चाल्यं धृट दयुम्न मुखन रणे ॥ 14 ॥
तथैव तावकाः सर्वे भीष्मरक्षार्थम उद्यताः परत्युद्ययुः पाण्डुसेनां सह सैन्या नराधिप ॥ 15 ॥
तत्रासीत सुमहद युद्धं तव तेषां च संकुलम नराश्वरथनागानां यम राष्ट्रविवर्धनम ॥ 16 ॥
रथी रथिनम आसाद्य पराहिणॊद यमसादनम तथेतरान समासाद्य नरनागाश्वसादिनः ॥ 17 ॥
अनयन परलॊकाय शरैः संनतपर्वभिः अस्त्रैश च विविधैर घॊरैस तत्र तत्र विशां पते ॥ 18 ॥
रथाश च रथिभिर हीना हतसारथयस तथा विप्रद्रुताश्वाः समरे दिशॊ जग्मुः समन्ततः ॥ 19 ॥
मर्दमाना नरान राजन हयांश च सुबहून रणे वातायमाना दृश्यन्ते गन्धर्वनगरॊपमाः ॥ 20 ॥
रथिनश च रथैर हीना वर्मिणस तेजसा युताः कुण्डलॊष्णीषिणः सर्वे निष्काङ्गदविभूषिताः ॥ 21 ॥
देवपुत्रसमा रूपॊ शौर्ये शक्रसमा युधि ऋद्ध्या वैश्रवणं चाति नयेन च बृहस्पतिम ॥ 22 ॥
सर्वलॊकेश्वराः शूरास तत्र तत्र विशां पते विप्रद्रुता वयदृश्यन्त पराकृता इव मानवाः ॥ 23 ॥
दन्तिनश च नरश्रेष्ठ विहीना वरसादिभिः मृद्नन्तः सवान्य अनीकानि संपेतुः सर्वशब्दगाः ॥ 24 ॥
वर्मभिश चामरैश छत्रैः पताकाभिश च मारिष कक्ष्याभिर अथ तॊत्त्रैश च घण्टाभिस तॊमरैस तथा ॥ 25 ॥
विशीर्णैर विप्रधावन्तॊ दृश्यन्ते सम दिशॊ दश नगमेघप्रतीकाशैर जलदॊदय निस्वनैः ॥ 26 ॥
तथैव दन्तिभिर हीनान गजारॊहान विशां पते परधावन्तॊ ऽनवपश्याम तव तेषां च संकुले ॥ 27 ॥
नानादेशसमुत्थांश च तुरगान हेमभूषितान वातायमानान अद्राक्षं शतशॊ ऽथ सहस्रशः ॥ 28 ॥
अश्वारॊहान हतैर अश्वैर गृहीतासीन समन्ततः दरवमाणान अपश्याम दराव्यमाणांश च संयुगे ॥ 29 ॥
गजॊ गजं समासाद्य दरवमाणं महारणे ययौ विमृद्नंस तरसा पदातीन वाजिनस तथा ॥ 30 ॥
तथैव च रथान राजन संममर्द रणे गजः रथश चैव समासाद्य पदातिं तुरगं तथा ॥ 31 ॥
वयमृद्नात समरे राजंस तुरगांश च नरान रणे एवं ते बहुधा राजन परमृद्नन्तः परस्परम ॥ 32 ॥
तस्मिन रौद्रे तथा युद्धे वर्तमाने महाभये परावर्तत नदी घॊरा शॊणितान्त्र तरङ्गिणी ॥ 33 ॥
अस्थि संचयसंघाटा केशशैवलशाद्वला रथह्रदा शरावर्ता हयमीना दुरासदा ॥ 34 ॥
शीर्षॊपल समाकीर्णा हस्तिग्राहसमाकुला कवचॊष्णीष फेनाढ्या धनुर दवीपासि कच्छपा ॥ 35 ॥
पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी करव्यादसंघसंकीर्णा यम राष्ट्रविवर्धिनी ॥ 36 ॥
तां नदीं कषत्रियाः शूरा हयनागरथप्लवैः परतेरुर बहवॊ राजन भयं तयक्त्वा महाहवे ॥ 37 ॥
अपॊवाह रणे भीरून कश्मलेनाभिसंवृतान यथा वैतरणी परेतान परेतराजपुरं परति ॥ 38 ॥
पराक्रॊशन कषत्रियास तत्र दृष्ट्वा तद वैशसं महत दुर्यॊधनापराधेन कषयं गच्छन्ति कौरवाः ॥ 39 ॥
गुणवत्सु कथं दवेषं धार्तराष्ट्रॊ जनेश्वरः कृतवान पाण्डुपुत्रेषु पापात्मा लॊभमॊहितः ॥ 40 ॥
एवं बहुविधा वाचः शरूयन्ते समात्र भारत पाण्डव सवत संयुक्ताः पुत्राणां ते सुदारुणाः ॥ 41 ॥
ता निशम्य तदा वाचः सर्वयॊधैर उदाहृताः आगस्कृत सर्वलॊकस्य पुत्रॊ दुर्यॊधनस तव ॥ 42 ॥
भीष्मं दरॊणं कृपं चैव शल्यं चॊवाच भारत युध्यध्वम अनहंकाराः किं चिरं कुरुथेति च ॥ 43 ॥
ततः परववृते युद्धं कुरूणां पाण्डवैः सह अक्षद्यूतकृतं राजन सुघॊरं वैशसं तदा ॥ 44 ॥
यत पुरा न निगृह्णीषे वार्यमाणॊ महात्मभिः वैचित्रवीर्य तस्येदं फलं पश्य तथाविधम ॥ 45 ॥
न हि पाण्डुसुता राजन स सैन्याः सपदानुगाः रक्षन्ति समरे पराणान कौरवा वा विशां पते ॥ 46 ॥
एतस्मात कारणाद घॊरॊ वर्तते सम जनक्षयः दैवाद वा पुरुषव्याघ्र तव चापनयान नृप ॥ 47 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 99
Reach this point to mark the section finished.
Continue to अध्याय 100