[धृ] कथं दरॊणॊ महेष्वासः पाण्डवश च धनंजयः समीयतू रणे शूरौ तन ममाचक्ष्व संजय ॥ 1 ॥
परियॊ हि पाण्डवॊ नित्यं भारद्वाजस्य धीमतः आचार्यःश च रणे नित्यं परियः पार्थस्य संजय ॥ 2 ॥
ताव उभौ रथिनौ संख्ये दृप्तौ सिंहाव इवॊत्कटौ कथं समीयतुर युद्धे भारद्वाज धनंजयौ ॥ 3 ॥
[स] न दरॊणः समरे पार्थं जानीते परियम आत्मनः कषत्रधर्मं पुरस्कृत्य पार्थॊ वा गुरुम आहवे ॥ 4 ॥
न कषत्रिया रणे राजन वर्जयन्ति परस्परम निर्मर्यादं हि युध्यन्ते पितृभिर भरातृभिः सह ॥ 5 ॥
रणे भारत पार्थेन दरॊणॊ विद्धस तरिभिः शरैः नाचिन्तयत तान बाणान पार्थ चापच्युतान युधि ॥ 6 ॥
शरवृष्ट्य पुनः पार्थश छादयाम आस तं रणे परजज्वाल च रॊषेण गहने ऽगनिर इवॊत्थितः ॥ 7 ॥
ततॊ ऽरजुनं रणे दरॊणः शरैः संनतपर्वभिः वारयाम आस राजेन्द्र नचिराद इव भारत ॥ 8 ॥
ततॊ दुर्यॊधनॊ राजा सुशर्माणम अचॊदयत दरॊणस्य समरे राजन पार्ष्णिग्रहण कारणात ॥ 9 ॥
तरिगर्तराड अपि करुद्धॊ भृशम आयम्य कार्मुकम छादयाम आस समरे पार्थं बाणैर अयॊमुखैः ॥ 10 ॥
ताभ्यां मुक्ताः शरा राजन्न अन्तरिक्षे विरेजिरे हंसा इव महाराज शरत्काले नभस्तले ॥ 11 ॥
ते शराः पराप्य कौन्तेयं समस्ता विविशुः परभॊ फलभार नतं यद्वत सवादु वृक्षं विहंगमाः ॥ 12 ॥
अर्जुनस तु रणे नादं विनद्य रथिनां वरः तरिगर्तराजं समरे सपुत्रं विव्यधे शरैः ॥ 13 ॥
ते वध्यमानाः पार्थेन कालेनेव युगक्षये पार्थम एवाभ्यवर्तन्त मरणे कृतनिश्चयाः मुमुचुः शरवृष्टिं च पाण्डवस्य रथं परति ॥ 14 ॥
शरवृष्टिं ततस तां तु शरवर्षेण पाण्डवः परतिजग्राह राजेन्द्र तॊयवृष्टिम इवाचलः ॥ 15 ॥
तत्राद्भुतम अपश्याम बीभत्सॊर हस्तलाघवम विमुक्तां बहुभिः शूरैः शस्त्रवृष्टिं दुरासदम ॥ 16 ॥
यद एकॊ वारयाम आस मारुतॊ ऽभरगणान इव कर्मणा तेन पार्थस्य तुतुषुर देवदानवाः ॥ 17 ॥
अथ करुद्धॊ रणे पार्थस तरिगर्तान परति भारत मुमॊचास्त्रं महाराज वायव्यं पृतना मुखे ॥ 18 ॥
परादुरासीत ततॊ वायुः कषॊभयाणॊ नभस्तलम पातयन वै तरुगणान विनिघ्नंश चैव सैनिकान ॥ 19 ॥
ततॊ दरॊणॊ ऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम शैलम अन्यन महाराज घॊरम अस्त्रं मुमॊच ह ॥ 20 ॥
दरॊणेन युधि निर्मुक्ते तस्मिन्न अस्त्रे महामृधे परशशाम ततॊ वायुः परसन्नाश चाभवन दिशः ॥ 21 ॥
ततः पाण्डुसुतॊ वीरस तरिगर्तस्य रथव्रजान निरुत्साहान रणे चक्रे विमुखान विपराक्रमान ॥ 22 ॥
ततॊ दुर्यॊधनॊ राजा कृपश च रथिनां वरः अश्वत्थामा ततः शल्यः काम्बॊजश च सुदक्षिणः ॥ 23 ॥
विन्दानुविन्दाव आवन्त्यौ बाह्लिकश च स बाह्लिकः महता रथवंशेन पार्थस्यावारयन दिशः ॥ 24 ॥
तथैव भगदत्तश च शरुतायुश च महाबलः गजानीकेन भीमस्य ताव अवारयतां दिशः ॥ 25 ॥
भूरिश्रवाः शलश चैव सौबलश च विशां पते शरौघैर विविधैस तूर्णं माद्रीपुत्राव अवारयन ॥ 26 ॥
भीष्मस तु सहितः सर्वैर धार्तराष्ट्रस्य सैनिकैः युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत ॥ 27 ॥
आपतन्तं गजानीकं दृष्ट्वा पार्थॊ वृकॊदरः लेलिहन सृक्किणी वीरॊ मृगराड इव कानने ॥ 28 ॥
ततस तु रथिनां शरेष्ठॊ गदां गृह्य महाहवे अवप्लुत्य रथात तूर्णं तव सैन्यम अभीषयत ॥ 29 ॥
तम उदीक्ष्य गदाहस्तं ततस ते गजसादिनः परिवव्रू रणे यत्ता भीमसेनं समन्ततः ॥ 30 ॥
गममध्यम अनुप्राप्तः पाण्डवश च वयराजत मेघजालस्य महतॊ यथा मध्यगतॊ रविः ॥ 31 ॥
वयधमत स गजानीकं गदया पाण्डवर्षभः महाभ्रजालम अतुलं मातरिश्वेव संततम ॥ 32 ॥
ते वध्यमाना बलिना भीमसेनेन दन्तिनः आर्तनादं रणे चक्रुर गर्जन्तॊ जलदा इव ॥ 33 ॥
बहुधा दारितश चैव विषाणैस तत्र दन्तिभिः फुल्लाशॊक निभः पार्थः शुशुभे रणमूर्धनि ॥ 34 ॥
विषाणे दन्तिनं गृह्य निर्विषाणम अथाकरॊत विषाणेन च तेनैव कुम्भे ऽभयाहत्य दन्तिनम पातयाम आस समरे दण्डहस्त इवान्तकः ॥ 35 ॥
शॊणिताक्तां गदां बिभ्रन मेदॊ मज्जा कृतच्छविः कृताङ्गदः शॊणितेन रुद्रवत परत्यदृश्यत ॥ 36 ॥
एवं ते वध्यमानास तु हतशेषा महागजाः पराद्रवन्त दिशॊ राजन विमृद्नन्तः सवकं बलम ॥ 37 ॥
दरवद्भिस तैर महानागैः समन्ताद भरतर्षभ दुर्यॊधन बलं सर्वं पुनर आसीत परान उखम ॥ 38 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 98
Reach this point to mark the section finished.
Continue to अध्याय 99