धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 100

  1. [स] अर्जुनस तु नरव्याघ्र सुशर्मप्रमुखान नृपान अनयत परेतराजस्य भवनं सायकैः शितैः ॥ 1 ॥

  2. सुशर्मापि ततॊ बाणैः पार्थं विव्याध संयुगे वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः ॥ 2 ॥

  3. तान निवार्य शरौघेण शक्रसूनुर महारथः सुशर्मणॊ रणे यॊधान पराहिणॊद यमसादनम ॥ 3 ॥

  4. ते वध्यमानाः पार्थेन कालेनेव युगक्षये वयद्रवन्त रणे राजन भये जाते महारथाः ॥ 4 ॥

  5. उत्सृज्य तुरगान के चिद रथान के चिच च मारिष गजान अन्ये समुत्सृज्य पराद्रवन्त दिशॊ दश ॥ 5 ॥

  6. अपरे तुद्यमानास तु वाजिनार रथा रणात तवरया परया युक्ताः पराद्रवन्त विशां पते ॥ 6 ॥

  7. पादाताश चापि शस्त्राणि समुत्सृज्य महारणे निरपेक्षा वयधावन्त तेन तेन सम भारत ॥ 7 ॥

  8. वार्यमाणाः सम बहुशस तरैगर्तेन सुशर्मणा तथान्यैः पार्थिवश्रेष्ठैर न वयतिष्ठन्त संयुगे ॥ 8 ॥

  9. तद बलं परद्रुतं दृष्ट्वा पुत्रॊ दुर्यॊधनस तव पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतम ॥ 9 ॥

  10. सर्वॊद्यॊगेन महता धनंजयम उपाद्रवत तरिगर्ताधिपतेर अर्थे जीवितस्य विशां पते ॥ 10 ॥

  11. स एकः समरे तस्थौ किरन बहुविधाञ शरान भरातृभिः सहितः सर्वैः शेषा विप्रद्रुता नराः ॥ 11 ॥

  12. तथैव पण्डवा राजन सर्वॊद्यॊगेन दंशिताः परययुः फल्गुनार्थाय यत्र भीष्मॊ वयवस्थितः ॥ 12 ॥

  13. जानन्तॊ ऽपि रणे शौर्यं घॊरं गाण्डीवधन्वनः हाहाकारकृतॊत्साहा भीष्मं जग्मुः समन्ततः ॥ 13 ॥

  14. ततस तालध्वजः शूरः पाण्डवानाम अनीकिनीम छादयाम आस समरे शरैः संनतपर्वभिः ॥ 14 ॥

  15. एकीभूतास ततः सर्वे कुरवः पाण्डवैः सह अयुध्यन्त महाराज मध्यं पराप्ते दिवाकरे ॥ 15 ॥

  16. सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिर आयसैः अतिष्ठद आहवे शूरः किरन बाणान सहस्रशः ॥ 16 ॥

  17. तथैव दरुपदॊ राजा दरॊणं विद्ध्वा शितैः शरैः पुनर विव्याध सप्तत्या सारथिं चास्य सप्तभिः ॥ 17 ॥

  18. भीमसेनस तु राजानं बाह्लिकं परपितामहम विद्ध्वानदन महानादं शार्दूल इव कानने ॥ 18 ॥

  19. आर्जुनिश चित्रसेनेन विद्धॊ बहुभिर आशुगैः चित्रसेनं तरिभिर बाणैर विव्याध हृदये भृशम ॥ 19 ॥

  20. समागतौ तौ तु रणे महामात्रौ वयरॊचताम यथा दिवि महाघॊरौ राजन बुध शनैश्चरौ ॥ 20 ॥

  21. तस्याश्वांश चतुरॊ हत्वा सूतं च नवभिः शरैः ननाद बलवन नादं सौभद्रः परवीरहा ॥ 21 ॥

  22. हताश्वात तु रथात तूर्णम अवप्लुत्य महारथः आरुरॊह रथं तूर्णं दुर्मुखस्य विशां पते ॥ 22 ॥

  23. दरॊणश च दरुपदं विद्ध्वा शरैः संनतपर्वभिः सारथिं चास्य विव्याध तवरमाणः पराक्रमी ॥ 23 ॥

  24. पीड्यमानस ततॊ राजा दरुपदॊ वाहिनीमुखे अपायाज जवनैर अश्वैः पूर्ववैरम अनुस्मरन ॥ 24 ॥

  25. भीमसेनस तु राजानं मुहूराद इव बाह्लिकम वयश्व सूत रथं चक्रे सर्वसैन्यस्य पश्यतः ॥ 25 ॥

  26. स संभ्रमॊ महाराज संशयं परमं गतः अवप्लुत्य ततॊ वाहाद बाह्लिकः पुरुषॊत्तमः आरुरॊह रथं तूर्णं लक्ष्मणस्य महारथः ॥ 26 ॥

  27. सात्यकिः कृतवर्माणं वारयित्वा महारथः शारैर बहुविधै राजन्न आससाद पितामहम ॥ 27 ॥

  28. स विद्ध्वा भारतं षष्ट्या निशितैर लॊमवाहिभिः ननर्तेव रथॊपस्थे विधुन्वानॊ महद धनुः ॥ 28 ॥

  29. तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः हेमचित्रां महावेगां नागकन्यॊपमां शुभाम ॥ 29 ॥

  30. ताम आपतन्तीं सहसा मृत्युकल्पां सुतेजनाम धवंसयाम आस वार्ष्णेयॊ लाघवेन महायशाः ॥ 30 ॥

  31. अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा नयपतद धरणी पृष्ठे महॊल्केव गतप्रभा ॥ 31 ॥

  32. वार्ष्णेयस तु ततॊ राजन सवां शक्तिं घॊरदर्शनाम वेगवद गृह्य चिक्षेप पितामह रथं परति ॥ 32 ॥

  33. वार्ष्णेय भुजवेगेन परणुन्ना सा महाहवे अभिदुद्राव वेगेन कालरात्रिर यथा नरम ॥ 33 ॥

  34. ताम आपतन्तीं सहसा दविधा चिच्छेद भारत कषुरप्राभ्यां सुतीक्ष्णाभ्यां सान्वकीर्यत भूतले ॥ 34 ॥

  35. छित्त्वा तु शक्तिं गाङ्गेयः सात्यकिं नवभिः शरैः आजघानॊरसि करुद्धः परहसञ शत्रुकर्शनः ॥ 35 ॥

  36. ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज परिवव्रू रणे भीष्मं माधवत्राणकारणात ॥ 36 ॥

  37. ततः परववृते युद्धं तुमुलं लॊमहर्षणम पाण्डवानां कुरूणां च समरे विजयैषिणाम ॥ 37 ॥

Reach this point to mark the section finished.

Continue to अध्याय 101

Previous: अध्याय 99