धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 97

  1. [धृ] आर्जुनिं समरे शूरं विनिघ्नन्तं महारथम अलम्बुसः कथं युद्धे परत्ययुध्यत संजय ॥ 1 ॥

  2. आर्श्यशृङ्गिं कथं चापि सौभद्रः परवीरहा तन ममाचक्ष्व तत्त्वेन यथावृत्तं सम संयुगे ॥ 2 ॥

  3. धनंजयश च किं चक्रे मम सैन्येषु संजय भीमॊ वा बलिनां शरेष्ठॊ राक्षसॊ वा घटॊत्कचः ॥ 3 ॥

  4. नकुलः सहदेवॊ वा सात्यकिर वा महारथः एतद आचक्ष्व मे सर्वं कुशलॊ हय असि संजय ॥ 4 ॥

  5. [स] हन्त ते ऽहं परवक्ष्यामि संग्रामं लॊमहर्षणम यथाभूद राक्षसेन्द्रस्य सौभद्रस्य च मारिष ॥ 5 ॥

  6. अर्जुनश च यथा संख्ये भीमसेनश च पाण्डवः नकुलः सहदेवश च रणे चक्रुः पराक्रमम ॥ 6 ॥

  7. तथैव तावकाः सर्वे भीष्मद्रॊणपुरॊगमाः अद्भुतानि विचित्राणि चक्रुः कर्माण्य अभीतवत ॥ 7 ॥

  8. अलम्बुसस तु समरे अभिमन्युं महारथम विनद्य सुमहानादं तर्जयित्वा मुहुर मुहुः अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत ॥ 8 ॥

  9. सौभद्रॊ ऽपि रणे राजन सिंहवद विनदन मुहुः आर्श्यशृङ्गिं महेष्वासं पितुर अत्यन्तवैरिणम ॥ 9 ॥

  10. ततः समेयतुः संख्ये तवरितौ नरराक्षसौ रथाभ्यां रथिनां शरेष्ठौ यथा वै देवदानवौ मायावी राक्षसश्रेष्ठॊ दिव्यास्त्रज्ञश च फाल्गुनिः ॥ 10 ॥

  11. ततः कार्ष्णिर महाराज निशितैः सायकैस तरिभिः आर्श्यशृङ्गिं रणे विद्ध्वा पुनर विव्याध पञ्चभिः ॥ 11 ॥

  12. अलम्बुसॊ ऽपि संक्रुद्धः कार्ष्णिं नवभिर आशुगैः हृदि विव्याध वेगेन तॊत्त्रैर इव महाद्विपम ॥ 12 ॥

  13. अतः शरसहस्रेण कषिप्रकारी निशाचरः अर्जुनस्य सुतं संख्ये पीडयाम आस भारत ॥ 13 ॥

  14. अभिमन्युस ततः करुद्धॊ नवतिं नतपर्वणाम चिक्षेप निशितान बाणान राक्षसस्य महॊरसि ॥ 14 ॥

  15. ते तस्य विविशुस तूर्णं कायं निर्भिद्य मर्मणि स तैर विभिन्नसर्वाङ्गः शुशुभे राक्षसॊत्तमः पुष्पितैः किंशुकै राजन संस्तीर्ण इव पर्वतः ॥ 15 ॥

  16. स धारयञ शरान हेमपुङ्खान अपि महाबलः विबभौ राक्षसश्रेष्ठः स जवाल इव पर्वतः ॥ 16 ॥

  17. ततः करुद्धॊ महाराज आर्श्यशृङ्गिर महाबलः महेन्द्रप्रतिमं कार्ष्णिं छादयाम आस पत्रिभिः ॥ 17 ॥

  18. तेन ते विशिखा मुक्ता यमदण्डॊपमाः शिताः अभिमन्युं विनिर्भिद्य पराविशन धरणीतलम ॥ 18 ॥

  19. तथैवार्जुनिनिर्मुक्ताः शराः काञ्चनभूषणाः अलम्बुसं विनिर्भिद्य पराविशन्त धरातलम ॥ 19 ॥

  20. सौभद्रस तु रणे रक्षः शरैः संनतपर्वभिः चक्रे विमुखम आसाद्य मयं शक्र इवाहवे ॥ 20 ॥

  21. विमुखं च ततॊ रक्षॊ वध्यमानं रणे ऽरिणा परादुश्चक्रे महामायां तामसीं परतापनः ॥ 21 ॥

  22. अतस ते तमसा सर्वे हृता हय आसन महीतले नाभिमन्युम अपश्यन्त नैव सयान न परान रणे ॥ 22 ॥

  23. अभिमन्युश च तद दृष्ट्वा घॊररूपं महत तमः परादुश्चक्रे ऽसत्रम अत्युग्रं भास्करं कुरुनन्दनः ॥ 23 ॥

  24. ततः परकाशम अभवज जगत सर्वं महीपते तां चापि जघ्निवान मायां राक्षसस्य दुरात्मनः ॥ 24 ॥

  25. संक्रुद्धश च महावीर्यॊ राक्षसेन्द्रं नरॊत्तमः छादयाम आस समरे शरैः संनतपर्वभिः ॥ 25 ॥

  26. बह्वीस तथान्या मायाश च परयुक्तास तेन रक्षसा सर्वास्त्रविद अमेयात्मा वारयाम आस फाल्गुनिः ॥ 26 ॥

  27. हतमायं ततॊ रक्षॊ वध्यमानं च सायकैः रथं तत्रैव संत्यज्य पराद्रवन महतॊ भयात ॥ 27 ॥

  28. तस्मिन विनिर्जिते तूर्णं कूटयॊधिनि राक्षसे आर्जुनिः समरे सैन्यं तावकं संममर्द ह मदान्धॊ वन्यनागेन्द्रः स पद्मां पद्मिनीम इव ॥ 28 ॥

  29. ततः शांतनवॊ भीष्मः सैन्यं दृष्ट्वाभिविद्रुतम महता रथवंशेन सौभद्रं पर्यवारयत ॥ 29 ॥

  30. कॊष्ठकी कृत्यतं वीरं धार्तराष्ट्रा महारथाः एकं सुबहवॊ युद्धे ततक्षुः सायकैर दृढम ॥ 30 ॥

  31. स तेषां रथिनां वीरः पितुस तुल्यपराक्रमः सदृशॊ वासुदेवस्य विक्रमेण बलेन च ॥ 31 ॥

  32. उभयॊः सदृशं कर्म स पितुर मातुलस्य च रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः ॥ 32 ॥

  33. ततॊ धनंजयॊ राजन विनिघ्नंस तव सैनिकान आससाद रणे भीष्मं पुत्र परेप्सुर अमर्षणः ॥ 33 ॥

  34. तथैव समरे राजन पिता देवव्रतस तव आससाद रणे पार्थं सवर्भानुर इव भास्करम ॥ 34 ॥

  35. ततः सरथनागाश्वाः पुत्रास तव विशां पते परिवव्रू रणे भीष्मं जुगुपुश च समन्ततः ॥ 35 ॥

  36. तथैव पाण्डवा राजन परिवार्य धनंजयम रणाय महते युक्ता दंशिता भरतर्षभ ॥ 36 ॥

  37. शादद्वतस ततॊ राजन भीष्मस्य परमुखे सथितम अर्जुनं पञ्चविंशत्या सायकानां समाचिनॊत ॥ 37 ॥

  38. पत्युद्गम्याथ विव्याध सात्यकिस तं शितैः शरैः पाण्डव परियकामार्थं शार्दूल इव कुञ्जरम ॥ 38 ॥

  39. गौतमॊ ऽपि तवरायुक्तॊ माधवं नवभिः शरैः हृदि विव्याध संक्रुद्धः कङ्कपत्र परिच्छदैः ॥ 39 ॥

  40. शैनेयॊ ऽपि ततः करुद्धॊ भृशं विद्धॊ महारथः गौतमान्त करं घॊरं समादत्त शिलीमुखम ॥ 40 ॥

  41. तम आपतन्तं वेगेन शक्राशनिसमद्युतिम दविधा चिच्छेद संक्रुद्धॊ दरौणिः परमकॊपनः ॥ 41 ॥

  42. समुत्सृज्याथ शैनेयॊ गौतमं रथिनां वरम अभ्यद्रवद रणे दरौणिं राहुः खे शशिनं यथा ॥ 42 ॥

  43. तस्य दरॊणसुतश चापं दविधा चिच्छेद भारत अथैनं छिन्नधन्वानं ताडयाम आस सायकैः ॥ 43 ॥

  44. सॊ ऽनयत कार्मुकम आदाय शत्रुघ्नं भारसाधनम दरौणिं षष्ट्या महाराज बाह्वॊर उरसि चार्पयत ॥ 44 ॥

  45. स विद्धॊ वयथितश चैव मुहूर्तं कश्मलायुतः निषसाद रथॊपस्थे धवजयष्टिम उपाश्रितः ॥ 45 ॥

  46. परतिलभ्य ततः संज्ञां दरॊणपुत्रः परतापवान वार्ष्णेयं समरे करुद्धॊ नाराचेन समर्दयत ॥ 46 ॥

  47. शैनेयं स तु निर्भिद्य पराविशद धरणीतलम वसन्त काले बलवान बिलं सर्वशिशुर यथा ॥ 47 ॥

  48. ततॊ ऽपरेण भल्लेन माधवस्य धवजॊत्तमम चिच्छेद समरे दरौणिः सिंहनादं ननाद च ॥ 48 ॥

  49. पुनर चैनं शरैर घॊरैश छादयाम आस भारत निदाघान्ते महाराज यथा मेघॊ दिवाकरम ॥ 49 ॥

  50. सात्यकिश च महाराज शरजालं निहत्य तत दरौणिम अभ्यपतत तूर्णं शरजालैर अनेकधा ॥ 50 ॥

  51. तापयाम आस च दरौणिं शैनेयः परवीरहा विमुक्तॊ मेघजालेन यथैव तपनस तथा ॥ 51 ॥

  52. शराणां च सहस्रेण पुनर एनं समुद्यतम सात्यकिश छादयाम आस ननाद च महाबलः ॥ 52 ॥

  53. दृष्ट्वा पुत्रं तथा गरस्तं राहुणेव निशाकरम अभ्यद्रवत शैनेयं भारद्वाजः परतापवान ॥ 53 ॥

  54. विव्याध च पृषत्केन सुतीक्ष्णेन महामृधे परीप्सन सवसुतं राजन वार्ष्णेयेनाभितापितम ॥ 54 ॥

  55. सात्यकिस तु रणे जित्वा गुरुपुत्रं महारथम दरॊणं विव्याध विंशत्या सर्वपारशवैः शरैः ॥ 55 ॥

  56. तदन्तरम अमेयात्मा कौन्तेयः शवेतवाहनः अभ्यद्रवद रणे करुद्धॊ दरॊणं परति महारथः ॥ 56 ॥

  57. ततॊ दरॊणश च पार्थश च समेयातां महामृधे यथा बुधश च शुक्रश च महाराज नभस्तले ॥ 57 ॥

Reach this point to mark the section finished.

Continue to अध्याय 98

Previous: अध्याय 96