[स] अभिमन्यू रथॊदारः पिशंगैस तुरगॊत्तमैः अभिदुद्राव तेजस्वी दुर्यॊधन बलं महत विकिरञ शरवर्षाणि वारिधारा इवाम्बुदः ॥ 1 ॥
न शेकुः समरे करुद्धं सौभद्रम अरिसूदनम शस्त्रौघिणं गाहमानं सेनासागरम अक्षयम निवारयितुम अप्य आजौ तवदीयाः कुरुपुंगवाः ॥ 2 ॥
तेन मुक्ता रणे राजञ शराः शत्रुनिवर्हणाः कषत्रियान अनयञ शूरान परेतराजनिवेशनम ॥ 3 ॥
यमदण्डॊपमान घॊराञ जवलनाशीविषॊपमान सौभद्रः समरे करुद्धः परेषयाम आस सायकान ॥ 4 ॥
रथिनं च रथात तूर्णं हयपृष्ठा च सादिनम गजारॊहांश च स गजान पातयाम आस फाल्गुनिः ॥ 5 ॥
तस्य तत कुर्वतः कर्म महत संख्ये ऽदभुतं नृपाः पूजयां चक्रिरे हृष्टाः परशशंसुश च फाल्गुनिम ॥ 6 ॥
तान्य अनीकानि सौभद्रॊ दरावयन बह्व अशॊभत तूलराशिम इवाधूय मारुतः सर्वतॊदिशम ॥ 7 ॥
तेन विद्राव्यमाणानि तव सैन्यानि भारत तरातारं नाध्यगच्छन्त पङ्के मग्ना इव दविपाः ॥ 8 ॥
विद्राव्य सर्वसैन्यानि तावकानि नरॊत्तमः अभिमन्युः सथितॊ राजन विधूमॊ ऽगनिर इव जवलन ॥ 9 ॥
न चैनं तावकाः सर्वे विषेहुर अरिघातिनम परदीप्तं पावकं यद्वत पतंगाः कालचॊदिताः ॥ 10 ॥
परहरन सर्वशत्रुभ्यः पाण्डवानां महारथः अदृश्यत महेष्वासः सवज्र इव वज्रभृत ॥ 11 ॥
हेमपृष्ठं धनुश चास्य ददृशे चरतॊ दिशः तॊयदेषु यथा राजन भराजमानाः शतह्वदाह ॥ 12 ॥
शराश च निशिताः पीता निश्चरन्ति सम संयुगे वनात फुल्लद्रुमाद राजन भरमराणाम इव वरजाः ॥ 13 ॥
तथैव चरतस तस्य सौभद्रस्य महात्मनः रथेन मेघघॊषेण ददृशुर नान्तरं जनाः ॥ 14 ॥
मॊहयित्वा कृपं दरॊणं दरौणिं च स बृहद्बलम सैन्धवं च महेष्वासं वयचरल लघु सुष्ठु च ॥ 15 ॥
मण्डलीकृतम एवास्य धनुः पश्याम मारिष सूर्यमण्डल संकाशं तपतस तव वाहिनीम ॥ 16 ॥
तं दृष्ट्वा कषत्रियाः शूराः परतपन्तं शरार्चिभिः दविफल्गुनम इमं लॊकं मेनिरे तस्य कर्मभिः ॥ 17 ॥
तेनार्दिता महाराज भारती सा महाचमूः बभ्राम तत्र तत्रैव यॊषिन मदवशाद इव ॥ 18 ॥
दरावयित्वा च तत सैन्यं कम्पयित्वा महारथान नन्दयाम आस सुहृदॊ मयं जित्वेव वासवः ॥ 19 ॥
तेन विद्राव्यमाणानि तव सैन्यानि संयुगे चक्रुर आर्तस्वरं घॊरं पर्जन्यनिनदॊपमम ॥ 20 ॥
तं शरुत्वा निनदं घॊरं तव सैन्यस्य मारिष मारुतॊद्धूत वेगस्य समुद्रस्येव पर्वणि दुर्यॊधनस तदा राजा आर्श्य शृङ्गिम अभाषत ॥ 21 ॥
एष कार्ष्णिर महेष्वासॊ दवितीय इव फल्गुनः चमूं दरावयते करॊधाद वृत्रॊ देव चमूम इव ॥ 22 ॥
तस्य नान्यं परपश्यामि संयुगे भेषजं महत ऋते तवां राक्षसश्रेष्ठ सर्वविद्यासु पारगम ॥ 23 ॥
स गत्वा तवरितं वीरं जहि सौभद्रम आहवे वयं पार्थान हनिष्यामॊ भीष्मद्रॊणपुरःसराः ॥ 24 ॥
स एवम उक्तॊ बलवान राक्षसेन्द्रः परतापवान परययौ समरे तूर्णं तव पुत्रस्य शासनात नर्दमानॊ महानादं परावृषीव बलाहकः ॥ 25 ॥
तस्य शब्देन महता पाण्डवानां महद बलम पराचलत सर्वतॊ राजन पूर्यमाण इवार्णवः ॥ 26 ॥
बहवश च नरा राजंस तस्य नादेन भीषिताः परियान पराणान परित्यज्य निपेतुर धरणीतले ॥ 27 ॥
कार्ष्णिश चापि मुदा युक्तः परगृहीतशरासनः नृत्यन्न इव रथॊपस्थे तद रक्षः समुपाद्रवत ॥ 28 ॥
ततः स राक्षसः करुद्धः संप्राप्यैवार्जुनिं रणे नातिदूरे सथितस तस्य दरावयाम आस वै चमूम ॥ 29 ॥
सा वध्यमाना समरे पाण्डवानां महाचमूः परत्युद्ययौ रणे रक्षॊ देव सेना यथाबलिम ॥ 30 ॥
विमर्दः सुमहान आसीत तस्य सैन्यस्य मारिष रक्षसा घॊररूपेण वध्यमानस्य संयुगे ॥ 31 ॥
ततः शरसहस्रैस तां पाण्डवानां महाचमूम वयद्रावयद रणे रक्षॊ दर्शयद वै पराक्रमम ॥ 32 ॥
सा वाध्यमाना च तथा पाण्डवानाम अनीकिनी रक्षसा घॊररूपेण परदुद्राव रणे भयात ॥ 33 ॥
तां परमृद्य ततः सेनां पद्मिनीं वारणॊ यथा ततॊ ऽभिदुद्राव रणे दरौपदेयान महाबलान ॥ 34 ॥
ते तु करुद्धा महेष्वासा दरौपदेयाः परहारिणः राक्षसं दुद्रुवुः सर्वे गरहाः पञ्च यथा रविम ॥ 35 ॥
वीर्यवद्भिस ततस तैस तु पीडितॊ राक्षसॊत्तमः यथा युगक्षये घॊरे चन्द्रमाः पञ्चभिर गरहैः ॥ 36 ॥
परतिविन्ध्यस ततॊ रक्षॊ बिभेद निशितैः शरैः सर्वपारशवैस तूर्णम अकुण्ठाग्रैर महाबलः ॥ 37 ॥
स तैर भिन्नतनु तराणः शुशुभे राक्षसॊत्तमः मरीचिभिर इवार्कस्य संस्यूतॊ जलदॊ महान ॥ 38 ॥
विषक्तैः स शरैश चापि तपनीयपरिच्छदैः आर्श्यशृङ्गिर बभौ राजन दीप्तशृङ्ग इवाचलः ॥ 39 ॥
ततस ते भरातरः पञ्च राक्षसेन्द्रं महाहवे विव्यधुर निशितैर बाणैस तपनीयविभूषितैः ॥ 40 ॥
स निर्भिन्नः शरैर घॊरैर भुजगैः कॊपितैर इव अलम्बुसॊ भृशं राजन नागेन्द्र इव चुक्रुधे ॥ 41 ॥
सॊ ऽतिविद्धॊ महाराज मुहूर्तम अथ मारिष परविवेश तमॊ दीर्घं पीडितस तैर महारथैः ॥ 42 ॥
परतिलभ्य ततः संज्ञां करॊधेन दविगुणीकृतः चिच्छेद सायकैस तेषां धवजांश चैव धनूंषि च ॥ 43 ॥
एकैकं च तरिभिर बाणैर आजघान समयन्न इव अलम्बुसॊ रथॊपस्थे नृत्यन्न इव महारथः ॥ 44 ॥
तवरमाणश च संक्रुद्धॊ हयांस तेषां महात्मनाम जघान राक्षसः करुद्धः सारथींश च महाबलः ॥ 45 ॥
बिभेद च सुसंहृष्टः पुनश चैनान सुसंशितैः शरैर बहुविधाकारैः शतशॊ ऽथ सहस्रशः ॥ 46 ॥
विरथांश च महेष्वासान कृत्वा तत्र स राक्षसः अभिदुद्राव वेगेन हन्तुकामॊ निशाचरः ॥ 47 ॥
तान अर्दितान रणे तेन राक्षसेन दुरात्मना दृष्ट्वार्जुन सुतः संख्ये राक्षसं समुपाद्रवत ॥ 48 ॥
तयॊः समभवद युद्धं वृत्रवासवयॊर इव ददृशुस तावकाः सर्वे पाण्डवाश च महारथाः ॥ 49 ॥
तौ समेतौ महायुद्धे करॊधदीप्तौ परस्परम महाबलौ महाराज करॊधसंरक्तलॊचनौ परस्परम अवेक्षेतां कालानलसमौ युधि ॥ 50 ॥
तयॊः समागमॊ घॊरॊ बभूव कटुकॊदयः यथा देवासुरे युद्धे शक्रशम्बरयॊर इव ॥ 51 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 96
Reach this point to mark the section finished.
Continue to अध्याय 97