धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 94

  1. [स] वाक्शल्यैस तव पुत्रेण सॊ ऽतिविद्धः पितामहः दुःखेन महताविष्टॊ नॊवाचाप्रियम अण्व अपि ॥ 1 ॥

  2. स धयात्वा सुचिरं कालं दुःखरॊषसमन्वितः शवसमानॊ यथा नागः परणुन्नॊ वै शलाकया ॥ 2 ॥

  3. उद्वृत्य चक्षुषी कॊपान निर्दहन्न इव भारत स देवासुरगन्धर्वं लॊकं लॊकविदां वरः अब्रवीत तव पुत्रं तु सामपूर्वम इदं वचः ॥ 3 ॥

  4. किं नु दुर्यॊधनैवं मां वाक्शल्यैर उपविध्यसि घटमानं यथाशक्ति कुर्वाणं च तव परियम जुह्वानं समरे पराणांस तवैव हितकाम्यया ॥ 4 ॥

  5. यदा तु पाण्डवः शूरः खाण्डवे ऽगनिम अतर्पयत पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम ॥ 5 ॥

  6. यदा च तवां महाबाहॊ गन्धर्वैर हृतम ओजसा अमॊचयत पाण्डुसुतः पर्याप्तं तन्निदर्शनम ॥ 6 ॥

  7. दरवमाणेषु शूरेषु सॊदरेषु तथाभिभॊ सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम ॥ 7 ॥

  8. यच च नः सहितान सर्वान विराटनगरे तदा एक एव समुद्यातः पर्याप्तं तन्निदर्शनम ॥ 8 ॥

  9. दरॊणं च युधि संरब्धं मां च निर्जित्य संयुगे कर्णं च तवां च दरौणिं च कृपं च सुमहारथम वासांसि स समादत्त पर्याप्तं तन्निदर्शनम ॥ 9 ॥

  10. निवातकवचान युद्धे वासवेनापि दुर्जयान जितवान समरे पार्थः पर्याप्तं तन्निदर्शनम ॥ 10 ॥

  11. कॊ हि शक्तॊ रणे जेतुं पाण्डवं रभसं रणे तवं तु मॊहान न जानीषे वाच्यावाच्यं सुयॊधन ॥ 11 ॥

  12. मुमूर्षुर हि नरः सर्वान वृक्षान पश्यति काञ्चनान तथा तवम अपि गान्धारे विपरीतानि पश्यसि ॥ 12 ॥

  13. सवयं वैरं महत कृत्वा पाण्डवैः सह सृञ्जयैः युध्यस्व तान अद्य रणे पश्यामः पुरुषॊ भव ॥ 13 ॥

  14. अहं तु सॊमकान सर्वान सपाञ्चालान समागतान निहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम ॥ 14 ॥

  15. तैर वाहं निहतः संख्ये गमिष्ये यमसादनम तान वा निहत्य संग्रामे परीतिं दास्यामि वै तव ॥ 15 ॥

  16. पूर्वं हि सत्री समुत्पन्ना शिखण्डी राजवेश्मनि वरदानात पुमाञ जातः सैषा वै सत्री शिखण्डिनी ॥ 16 ॥

  17. ताम अहं न हनिष्यामि पराणत्यागे ऽपि भारत यासौ पराङ निर्मिता धात्रा सैषा वै सत्री शिखण्डिनी ॥ 17 ॥

  18. सुखं सवपिहि गान्धारे शवॊ ऽसमि कर्ता महारणम यज जनाः कथयिष्यन्ति यावत सथास्यति मेदिनी ॥ 18 ॥

  19. एवम उक्तस तव सुतॊ निर्जगाम जनेश्वर अभिवाद्य गुरुं मूर्ध्ना परययौ सवं निवेशनम ॥ 19 ॥

  20. आगम्य तु ततॊ राजा विसृज्य च महाजनम परविवेश ततस तूर्णं कषयं शत्रुक्षयं करः परविष्टः स निशां तां च गमयाम आस पार्थिवः ॥ 20 ॥

Reach this point to mark the section finished.

Continue to अध्याय 95

Previous: अध्याय 93