[स] ततॊ दुर्यॊधनॊ राजा शकुनिश चापि सौबलः दुःशासनश च पुत्रस ते सूतपुत्रश च दुर्जयः ॥ 1 ॥
समागम्य महाराज मन्त्रं चक्रूर विवक्षितम कथं पाण्डुसुता युद्धे जेतव्याः सगणा इति ॥ 2 ॥
ततॊ दुर्यॊधनॊ राजा सर्वांस तान आह मन्त्रिणः सूतपुत्रं समाभाष्य सौबलं च महाबलम ॥ 3 ॥
दरॊणॊ भीष्मः कृपः शल्यः सौमदत्तिश च संयुगे न पार्थान परतिबाधन्ते न जाने तत्र कारणम ॥ 4 ॥
अवध्यमानास ते चापि कषपयन्ति बलं मम सॊ ऽसमि कषीणबलः कर्ण कषीणशस्त्रश च संयुगे ॥ 5 ॥
निकृतः पाण्डवैः शूरैर अवध्यैर दैवतैर अपि सॊ ऽहं संशयम आपन्नः परकरिष्ये कथं रणम ॥ 6 ॥
तम बरवीन महाराज सूतपुत्रॊ नराधिपम मा शुचॊ भरतश्रेष्ठ परकरिष्ये परियं तव ॥ 7 ॥
भीष्मः शांतनवस तूर्णम अपयातु महारणात निवृत्ते युधि गाङ्गेये नयस्तशस्त्रे च भारत ॥ 8 ॥
अहं पार्थान हनिष्यामि सनितान सर्वसॊमकैः पश्यतॊ युधि भीष्मस्य शपे सत्येन ते नृप ॥ 9 ॥
पाण्डवेषु दयां राजन सदा भीष्मः करॊति वै अशक्तश च रणे भीष्मॊ जेतुम एतान महारथान ॥ 10 ॥
अभिमानी रणे भीष्मॊ नित्यं चापि रणप्रियः स कथं पाण्डवान युद्धे जेष्यते तात संगतान ॥ 11 ॥
स तवं शीघ्रम इतॊ गत्वा भीष्मस्य शिबिरं परति अनुमान्य रणे भीष्मं शस्त्रं नयासय भारत ॥ 12 ॥
नयस्तशस्ते ततॊ भीष्मे निहतान पश्य पाण्डवान मयैकेन रणे राजन ससुहृद गणबान्धवान ॥ 13 ॥
एवम उक्तस तु कर्णेन पुत्रॊ दुर्यॊधनस तव अब्रवीद भरातरं तत्र दुःशासनम इदं वचः ॥ 14 ॥
अनुयात्रं यथा सज्जं सर्वं भवति सर्वतः दुःशासन तथा कषिप्रं सर्वम एवॊपपादय ॥ 15 ॥
एवम उक्त्वा ततॊ राजन कर्णम आह जनेश्वरः अनुमान्य रणे भीष्मम इतॊ ऽहं दविपदां वरम ॥ 16 ॥
आगमिष्ये ततः कषिप्रं तवत्सकाशम अरिंदम ततस तवं पुरुषव्याघ्र परकरिष्यसि संयुगम ॥ 17 ॥
निष्पपात ततस तूर्णं पुत्रस तव विशां पते सहितॊ भरातृभिः सर्वैर देवैर इव शतक्रतुः ॥ 18 ॥
ततस तं नृपशार्दूलं शार्दूलसमविक्रमम आरॊहयद धयं तूर्णं भराता दुःशासनस तदा ॥ 19 ॥
अङ्गदी बद्धमुकुटॊ हस्ताभरणवान नृपः धार्तराष्ट्रॊ महाराज विबभौ स महेन्द्रवत ॥ 20 ॥
भाण्डी पुष्पनिकाशेन तपनीयनिभेन च अनुलिप्तः परार्घ्येन चन्दनेन सुगन्धिना ॥ 21 ॥
अरजॊ ऽमबरसंवीतः सिंहखेल गतिर नृपः शुशुभे विमलार्चिष्मञ शरदीव दिवाकरः ॥ 22 ॥
तं परयान्तं नरव्याघ्रं भीष्मस्य शिबिरं परति अनुजग्मुर महेष्वासाः सर्वलॊकस्य धन्विनः भरातरश च महेष्वासास तरिदशा इव वासवम ॥ 23 ॥
हयान अन्ये समारुह्य गजान अन्ये च भारत रथैर अन्ये नरश्रेष्ठाः परिवव्रुः समन्ततः ॥ 24 ॥
आत्तशस्त्राश च सुहृदॊ रक्षणार्थं महीपतेः परादुर्बहूवुः सहिताः शक्रस्येवामरा दिवि ॥ 25 ॥
संपूज्यमानः कुरुभिः कौरवाणां महारथः परययौ सदनं राजन गाङ्गेयस्य यशस्विनः अन्वीयमानः सहितौ सॊदरैः सर्वतॊ नृपः ॥ 26 ॥
दक्षिणं दक्षिणः काले संभृत्य सवभुजं तदा हस्तिहस्तॊपमं शैक्षं सर्वशत्रुनिबर्हणम ॥ 27 ॥
परगृह्णन्न अञ्जलीन नॄणाम उद्यतान सर्वतॊदिशम शुश्राव मधुरा वाचॊ नानादेशनिवासिनाम ॥ 28 ॥
संस्तूयमानः सूतैश च मागधैश च महायशाः पूजयानश च तान सर्वान सर्वलॊकेश्वरेश्वरः ॥ 29 ॥
परदीपैः काञ्चनैस तत्र गन्धतैलावसेचनैः परिवव्रुर महात्मानं परज्वलद्भिः समन्ततः ॥ 30 ॥
स तैः परिवृतॊ राजा परदीपैः काञ्चनैः शुभैः शुशुभे चन्द्रमा युक्तॊ दीप्तैर इव महाग्रहैः ॥ 31 ॥
कञ्चुकॊष्णीषिणस तत्र वेत्रझर्झर पाणयः परॊत्सारयन्तः शनकैस तं जनं सर्वतॊदिशम ॥ 32 ॥
संप्राप्य तु ततॊ राजा भीष्मस्य सदनं शुभम अवतीर्य हयाच चापि भीष्मं पराप्य जनेश्वरः ॥ 33 ॥
अभिवाद्य ततॊ भीष्मं निषण्णः परमासने काञ्चने सर्वतॊभद्रे सपर्ध्यास्तरण संवृते उवाच पराञ्जलिर भीष्मं बाष्पकण्ठॊ ऽशरुलॊचनः ॥ 34 ॥
तवां वयं समुपाश्रित्य संयुगे शत्रुसूदन उत्सहेम रणे जेतुं सेन्द्रान अपि सुरासुरान ॥ 35 ॥
किम उ पाण्डुसुतान वीरान ससुहृद गणबान्धवान तस्माद अर्हसि गाङ्गेय कृपां कर्तुं मयि परभॊ जहि पाण्डुसुतान वीरान महेन्द्र इव दानवान ॥ 36 ॥
पूर्वम उक्तं महाबाहॊ निहनिष्यामि सॊमकान पाञ्चालान पाण्डवैः सार्धं करूषांश चेति भारत ॥ 37 ॥
तद वचः सत्यम एवास्तु जहि पार्थान समागतान सॊमकांश च महेष्वासान सत्यवाग भव भारत ॥ 38 ॥
दयया यदि वा राजन दवेष्यभावान मम परभॊ मन्दभाग्यतया वापि मम रक्षसि पाण्डवान ॥ 39 ॥
अनुजानीहि समरे कर्णम आहवशॊभिनम स जेष्यति रणे पार्थान ससुहृद गणबान्धवान ॥ 40 ॥
एतावद उक्त्वा नृपतिः पुत्रॊ दुर्यॊधनस तव नॊवाच वचनं किं चिद भीष्मं भीमपराक्रमम ॥ 41 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 93
Reach this point to mark the section finished.
Continue to अध्याय 94