धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 92

  1. [स] पुत्रं तु निहतं शरुत्वा इरावन्तं धनंजयः दुःखेन महताविष्टॊ निःश्वसन पन्नगॊ यथा ॥ 1 ॥

  2. अब्रवीत समरे राजन वासुदेवम इदं वचः इदं नूनं महाप्राज्ञॊ विदुरॊ दृष्टवान पुरा ॥ 2 ॥

  3. कुरूणां पाण्डवानां च कषयं घॊरं महामतिः ततॊ निवारयितवान धृतराष्ट्रं जनेश्वरम ॥ 3 ॥

  4. अवध्या बहवॊ वीराः संग्रामे मधुसूदन निहताः कौरवैः संख्ये तथास्माभिश च ते हताः ॥ 4 ॥

  5. अर्थहेतॊर नरश्रेष्ठ करियते कर्म कुत्सितम धिग अर्थान यत्कृते हय एवं करियते जञातिसंक्षयः ॥ 5 ॥

  6. अधनस्य मृतं शरेयॊ न च जञातिवधाद धनम किं नु पराप्स्यामहे कृष्ण हत्वा जञातीन समागतान ॥ 6 ॥

  7. दुर्यॊधनापराधेन शकुनेः सौबलस्य च कषत्रिया निधनं यान्ति कर्ण दुर्मन्त्रितेन च ॥ 7 ॥

  8. इदानीं च विजानामि सुकृतं मधुसूदन कृतं राज्ञा महाबाहॊ याचता सम सुयॊधनम राज्यार्धं पञ्च वा गरामान नाकार्षीत स च दुर्मतिः ॥ 8 ॥

  9. दृष्ट्वा हि कषत्रियाञ शूराञ शयानान धरणीतले निन्दामि भृशम आत्मानं धिग अस्तु कषत्रजीविकाम ॥ 9 ॥

  10. अशक्तम इति माम एते जञास्यन्ति कषत्रिया रणे युद्धं ममाभिरुचितं जञातिभिर मधुसूदन ॥ 10 ॥

  11. संचॊदय हयान कषिप्रं धार्तराष्ट्रचमूं परति परतरिष्य महापारं भुजाभ्यां समरॊदधिम नायं कलीबयितुं कालॊ विद्यते माधव कव चित ॥ 11 ॥

  12. एवम उक्तस तु पार्थेन केशवः परवीरहा चॊदयाम आस तान अश्वान पाण्डुरान वातरंहसः ॥ 12 ॥

  13. अथ शब्दॊ महान आसीत तव सैन्यस्य भारत मारुतॊद्धूत वेगस्य सागरस्येव पर्वणि ॥ 13 ॥

  14. अपराह्णे महाराज संग्रामः समपद्यत पर्जन्यसमनिर्घॊषॊ भीष्मस्य सह पाण्डवैः ॥ 14 ॥

  15. ततॊ राजंस तव सुता भीमसेनम उपाद्रवन परिवार्य रणे दरॊणं वसवॊ वासवं यथा ॥ 15 ॥

  16. ततः शांतनवॊ भीष्मः कृपश च रथिनां वरः भगदत्तः सुशर्मा च धनंजयम उपाद्रवन ॥ 16 ॥

  17. हार्दिक्यॊ बाह्लिकश चैव सात्यकिं समभिद्रुतौ अम्बष्ठकस तु नृपतिर अभिमन्युम अवारयत ॥ 17 ॥

  18. शेषास तव अन्ये महाराज शेषान एव महारथान ततः परववृते युद्धं घॊररूपं भयावहम ॥ 18 ॥

  19. भीमसेनस तु संप्रेक्ष्य पुत्रांस तव जनेश्वर परजज्वाल रणे करुद्धॊ हविषा हव्यवाड इव ॥ 19 ॥

  20. पुत्रास तु तव कौन्तेयं छादयां चक्रिरे शरैः परावृषीव महाराज जलदाः पर्वतं यथा ॥ 20 ॥

  21. स चछाद्यमानॊ बहुधा पुत्रैस तव विशां पते सृक्किणी विलिहन वीरः शार्दूल इव दर्पितः ॥ 21 ॥

  22. वयूढॊरस्कं ततॊ भीमः पातयाम आस पार्थिव कषुरप्रेण सुतीक्ष्णेन सॊ ऽभवद गतजीवितः ॥ 22 ॥

  23. अपरेण तु भल्लेन पीतेन निशितेन च अपातयत कुण्डलिनं सिंहः कषुद्रमृगं यथा ॥ 23 ॥

  24. ततः सुनिशितान पीतान समादत्त शिलीमुखान स सप्त तवरया युक्तः पुत्रांस ते पराप्य मारिष ॥ 24 ॥

  25. परेषिता भीमसेनेन शरास ते दृढधन्वना अपातयन्त पुत्रांस ते रथेभ्यः सुमहारथान ॥ 25 ॥

  26. अनाधृष्टिं कुण्ड भेदं वैराटं दीर्घलॊचनम दीर्घबाहुं सुबाहुं च तथैव कनकध्वजम ॥ 26 ॥

  27. परपतन्त सम ते वीरा विरेजुर भरतर्षभ वसन्ते पुष्पशबलाश चूताः परपतिता इव ॥ 27 ॥

  28. ततः परदुद्रुवुः शेषाः पुत्रास तव विशां पते तं कालम इव मन्यन्तॊ भीमसेनं महाबलम ॥ 28 ॥

  29. दरॊणस तु समरे वीरं निर्दहन्तं सुतांस तव यथाद्रिं वारिधाराभिः समन्ताद वयकिरच छरैः ॥ 29 ॥

  30. तत्राद्भुतम अपश्याम कुन्तीपुत्रस्य पौरुषम दरॊणेन वार्यमाणॊ ऽपि निजघ्ने यत सुतांस तव ॥ 30 ॥

  31. यथा हि गॊवृषॊ वर्षं संधारयति खात पतत भीमस तथा दरॊण मुक्तं शरवर्षम अदीधरत ॥ 31 ॥

  32. अद्भुतं च महाराज तत्र चक्रे वृकॊदरः यत पुत्रांस ते ऽवधीत संख्ये दरॊणं चैव नययॊधयत ॥ 32 ॥

  33. पुत्रेषु तव वीरेषु चिक्रीडार्जुन पूर्वजः मृगेष्व इव महाराज चरन वयाघ्रॊ महाबलः ॥ 33 ॥

  34. यथा वा पशुमध्यस्थॊ दरावयेत पशून वृकः वृकॊदरस तव सुतांस तथा वयद्रावयद रणे ॥ 34 ॥

  35. गाङ्गेयॊ भगदत्तश च गौतमश च महारथः पाण्डवं रभसं युद्धे वारयाम आसुर अर्जुनम ॥ 35 ॥

  36. अस्त्रैर अस्त्राणि संवार्य तेषां सॊ ऽतिरथॊ रणे परवीरांस तव सैन्येषु परेषयाम आस मृत्यवे ॥ 36 ॥

  37. अभिमन्युश च राजानम अम्बष्ठं लॊकविश्रुतम विरथं रथिनां शरेष्ठं कारयाम आस सायकैः ॥ 37 ॥

  38. विरथॊ वध्यमानः स सौभद्रेण यशस्विना अवप्लुत्य रथात तूर्णं सव्रीडॊ मनुजाधिपः ॥ 38 ॥

  39. असिं चिक्षेप समरे सौभद्रस्य महात्मनः आरुरॊह रथं चैव हार्दिक्यस्य महात्मनः ॥ 39 ॥

  40. आपतन्तं तु निस्त्रिंशं युद्धमार्ग विशारदः लाघवाद वयंसयाम आस सौभद्रः परवीरहा ॥ 40 ॥

  41. वयंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा साधु साध्व इति सैन्यानां परणादॊ ऽभूद विशां पते ॥ 41 ॥

  42. धृष्टद्युम्नमुखास तव अन्ये तव सैन्यम अयॊधयन तथैव तावकाः सर्वे पाण्डुसैन्यम अयॊधयन ॥ 42 ॥

  43. तत्राक्रन्दॊ महान आसीत तव तेषां च भारत निघ्नतां भृशम अन्यॊन्यं कुर्वतां कर्म दुष्करम ॥ 43 ॥

  44. अन्यॊन्यं हि रणे शूराः केशेष्व आक्षिप्य मारिष नखैर दन्तैर अयुध्यन्त मुष्टिभिर जानुभिस तथा ॥ 44 ॥

  45. बाहुभिश च तलैश चैव निस्त्रिंशैश च सुसंशितैः विवरं पराप्य चान्यॊन्यम अनयन यमसादनम ॥ 45 ॥

  46. नयहनच च पिता पुत्रं पुत्रश च पितरं रणे वयाकुलीकृतसंकल्पा युयुधुस तत्र मानवाः ॥ 46 ॥

  47. रणे चारूणि चापानि हेमपृष्ठानि भारत हतानाम अपविद्धानि कलापाश च महाधनाः ॥ 47 ॥

  48. जातरूपमयैः पुङ्खै राजतैश च शिताः शराः तैलधौता वयराजन्त निर्मुक्तभुजगॊपमाः ॥ 48 ॥

  49. हस्तिदन्त तसरून खड्गाञ जातरूपपरिष्कृतान चर्माणि चापविद्धानि रुक्मपृष्ठानि धन्विनाम ॥ 49 ॥

  50. सुवर्णविकृतप्रासान पट्टिशान हेमभूषितान जातरूपमयाश चर्ष्टीः शक्त्यश च कनकॊज्ज्वलाः ॥ 50 ॥

  51. अपकृत्ताश च पतिता मुसलानि गुरूणि च परिघान पट्टिशांश चैव भिण्डिपालांश च मारिष ॥ 51 ॥

  52. पतितांस तॊमरांश चापि चित्रा हेमपरिष्कृताः कुथाश च बहुधाकाराश चामरव्यजनानि च ॥ 52 ॥

  53. नानाविधानि शस्त्राणि विसृज्य पतिता नराः जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः ॥ 53 ॥

  54. गदा विमथितैर गात्रैर मुसलैर भिन्नमस्तकाः गजवाजिरथक्षुण्णाः शेरते सम नराः कषितौ ॥ 54 ॥

  55. तथैवाश्वनृनागानां शरीरैर आबभौ तदा संछन्ना वसुधा राजन पर्वतैर इव सर्वतः ॥ 55 ॥

  56. समरे पतितैश चैव शक्त्यृष्टि शरतॊमरैः निस्त्रिंशैः पट्टिशैः परासैर अयः कुन्तैः परश्वधैः ॥ 56 ॥

  57. परिघैर भिण्डिपालैश च शतघ्नीभिस तथैव च शरीरैः शस्त्रभिन्नैश च समास्तीर्यत मेदिनी ॥ 57 ॥

  58. निःशब्दैर अल्पशब्दैश च शॊणितौघपरिप्लुतैः गतासुभिर अमित्रघ्न विबभौ संवृता मही ॥ 58 ॥

  59. स तलत्रैः स केयूरैर बाहुभिश चन्दनॊक्षितैः हस्तिहस्तॊपमैश छिन्नैर ऊरुभिश च तरस्विनाम ॥ 59 ॥

  60. बद्धचूडा मणिधरैः शिरॊभिश च सकुण्डलैः पतितैर वृषभाक्षाणां बभौ भारत मेदिनी ॥ 60 ॥

  61. कवचैः शॊणितादिग्धैर विप्रकीर्णैश च काञ्चनैः रराज सुभृशं भूमिः शान्तार्चिभिर इवानलैः ॥ 61 ॥

  62. विप्रविद्धैः कलापैश च पतितैश च शरासनैः विप्रकीर्णैः शरैश चापि रुक्मपुङ्खैः समन्ततः ॥ 62 ॥

  63. रथैश च बहुभिर भग्नैः किङ्किणीजालमालिभिः वाजिभिश च हतैः कीर्णैः सरस्तजिह्वैः स शॊणितैः ॥ 63 ॥

  64. अनुकर्षैः पताकाभिर उपासङ्गैर धवजैर अपि परवीराणां महाशङ्खैर विप्रकीर्णैश च पाण्डुरैः ॥ 64 ॥

  65. सरस्तहस्तैश च मातङ्गैः शयानैर विबभौ मही नानारूपैर अलंकारैः परमदेवाभ्यलंकृता ॥ 65 ॥

  66. दन्तिभिश चापरैस तत्र स परासैर गाढवेदनैः करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर मुहुः विबभौ तद रणस्थानं धम्यमानैर इवाचलैः ॥ 66 ॥

  67. नाना रागैः कम्बलैश च परिस्तॊमैश च दन्तिनाम वैडूय मणिदण्डैश च पतितैर अङ्कुशैः शुभैः ॥ 67 ॥

  68. घण्टाभिश च गजेन्द्राणां पतिताभिः समन्ततः विघाटित विचित्राभिः कुथाभी राङ्कवैस तथा ॥ 68 ॥

  69. गरैवेयैश चित्ररूपैश च रुक्मकक्ष्याभिर एव च यन्त्रैश च बहुधा छिन्नैस तॊमरैश च स कम्पनैः ॥ 69 ॥

  70. अश्वानां रेणुकपिलै रुक्मच छन्नैर उरश छदैः सादिनां च भुजैश छिन्नैः पतितैः साङ्गदैस तथा ॥ 70 ॥

  71. परासैश च विमलैस तीक्ष्णैर विमलाभिस तथर्ष्टिभिः उष्णीषैश च तथा छिन्नैः परविद्धैश च ततस ततः ॥ 71 ॥

  72. विचित्रैर अर्धचन्द्रैश च जातरूपपरिष्कृतैः अश्वास्तर परिस्तॊमै राङ्कवैर मृदितैस तथा ॥ 72 ॥

  73. नरेन्द्र चूडामणिभिर विचित्रैश च महाधनैः छत्रैस तथापविद्धैश च चामरव्यजनैर अपि ॥ 73 ॥

  74. पद्मेन्दु दयुतिभिश चैव वदनैश चारुकुण्डलैः कॢप्त शमश्रुभिर अत्यर्थं वीराणां समलंकृतैः ॥ 74 ॥

  75. अपविद्धैर महाराज सुवर्णॊज्ज्वल कुण्डलैः गरहनक्षत्रशबला दयौर इवासीद वसुंधराः ॥ 75 ॥

  76. एवम एते महासेने मृदिते तत्र भारत परस्परं समासाद्य तव तेषां च संयुगे ॥ 76 ॥

  77. तेषु शरान्तेषु भग्नेषु मृदितेषु च भारत रात्रिः समभवद घॊरा नापश्याम ततॊ रणम ॥ 77 ॥

  78. ततॊ ऽवहारं सैन्यानां परचक्रुः कुरुपाण्डवाः घॊरे निशामुखे रौद्रे वर्तमाने सुदारुणे ॥ 78 ॥

  79. अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः नयविशन्त यथाकालं गत्वा सवशिबिरं तदा ॥ 79 ॥

Reach this point to mark the section finished.

Continue to अध्याय 93

Previous: अध्याय 91