[स] तस्मिन महति संक्रन्दे राजा दुर्यॊधनस तदा गाङ्गेयम उपसंगम्य विनयेनाभिवाद्य च ॥ 1 ॥
तस्य सर्वं यथावृत्तम आख्यातुम उपचक्रमे घटॊत्कचस्य विजयम आत्मनश च पराजयम ॥ 2 ॥
अक्थयाम आस दुर्धर्षॊ विनिःश्वस्य पुनः पुनः अब्रवीच च तदा राजन भीष्मं कुरुपितामहम ॥ 3 ॥
भवन्तं समुपाश्रित्य वासुदेवं यथा परैः पाण्डवैर विग्रहॊ घॊरः समारब्धॊ मया परभॊ ॥ 4 ॥
एकादश समाख्याता अक्षौहिण्यश च या मम निदेशे तव तिष्ठन्ति मया सार्धं परंतप ॥ 5 ॥
सॊ ऽहं भरतशार्दूल भीमसेनपुरॊगमैः घटॊत्कचं समाश्रित्य पाण्डवैर युधि निर्जितः ॥ 6 ॥
तन मे दहति गात्राणि शुष्कवृक्षम इवानलः तद इच्छामि महाभाग तवत्प्रसादात परंतप ॥ 7 ॥
राक्षसापसदं हन्तुं सवयम एव पितामह तवां समाश्रित्य दुर्धर्षं तन मे कर्तुं तवम अर्हसि ॥ 8 ॥
एतच छरुत्वा तु वचनं राज्ञॊ भरतसत्तम दुर्यॊधनम इदं वाक्यं भीष्मः शांतनवॊ ऽबरवीत ॥ 9 ॥
शृणु राजन मम वचॊ यत तवा वक्ष्यामि कौरव यथा तवया महाराज वर्तितव्यं परंतप ॥ 10 ॥
आत्मा रक्ष्यॊ रणे तातः सर्वावस्थास्व अरिंदमम धर्मराजेन संग्रामस तवया कार्यः सदानघ ॥ 11 ॥
अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः राजधर्मं पुरस्कृत्य राजा राजानम ऋच्छति ॥ 12 ॥
अहं दरॊणः कृपॊ दरौणिः कृतवर्मा च सात्वतः शल्यश च सौमदत्तिश च विकर्णश च महारथः ॥ 13 ॥
तव च भरातरः शूरा दुःशासन पुरॊगमाः तवदर्थं परतियॊत्स्यामॊ राक्षसं तं महाबलम ॥ 14 ॥
तस्मिन रौद्रे राक्षसेन्द्रे यदि ते हृच्छयॊ महान अयं वा गच्छतु रणे तस्य युद्धाय दुर्मतेः भगदत्तॊ महीपालः पुरंदरसमॊ युधि ॥ 15 ॥
एतावद उक्त्वा राजानं भगदत्तम अथाब्रवीत समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः ॥ 16 ॥
गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम वारयस्व रणे यत्तॊ मिषतां सर्वधन्विनाम राक्षसं करूरकर्माणं यथेन्द्रस तारकं पुरा ॥ 17 ॥
तव दिव्यानि चास्त्राणि विक्रमश च परंतप समागमश च बहुभिः पुराभूद असुरैः सह ॥ 18 ॥
तवं तस्य राजशार्दूल परतियॊद्धा महाहवे सवबलेन वृतॊ राजञ जहि राक्षसपुंगवम ॥ 19 ॥
एतच छरुत्वा तु वचनं भीष्मस्य पृतना पतेः परययौ सिंहनादेन परान अभिमुखॊ दरुतम ॥ 20 ॥
तम आद्रवन्तं संप्रेक्ष्य गर्जन्तम इव तॊयदम अभ्यवर्तन्त संक्रुद्धाः पाण्डवानां महारथाः ॥ 21 ॥
भिमसेनॊ ऽभिमन्युश च राक्षसश च घटॊत्कचः दरौपदेयाः सत्यधृतिः कषत्रदेवश च मारिष ॥ 22 ॥
चेदिपॊ वसु दानश च दशार्णाधिपतिस तथा सुप्रतीकेन तांश चापि भगदत्तॊ ऽपय उपाद्रवत ॥ 23 ॥
ततः समभवद युद्धं घॊररूपं भयानकम पाण्डूनां भगदत्तेन यम राष्ट्रविवर्धनम ॥ 24 ॥
परमुक्ता रथिभिर बाणा भीमवेगाः सुतेजनाः ते निपेतुर महाराज नागेषु च रथेषु च ॥ 25 ॥
परभिन्नाश च महानागा विनीता हस्तिसादिभिः परस्परं समासाद्य संनिपेतुर अभीतवत ॥ 26 ॥
मदान्धा रॊषसंरब्धा विषाणाग्रैर महाहवे विभिदुर दन्तमुसलैः समासाद्य परस्परम ॥ 27 ॥
हयाश च चामरापीडाः परासपाणिभिर आस्थिताः चॊदिताः सादिभिः कषिप्रं निपेतुर इतरेतरम ॥ 28 ॥
पादाताश च पदात्यॊघैस ताडिताः शक्तितॊमरैः नयपतन्त तदा भूमौ शतशॊ ऽथ सहस्रशः ॥ 29 ॥
रथिनश च तथा राजन कर्णिनालीकसायकैः निहत्य समरे वीरान सिंहनादान विनेदिरे ॥ 30 ॥
तस्मिंस तथा वर्तमाने संग्रामे लॊमहर्षणे भगदत्तॊ महेष्वासॊ भीमसेनम अथाद्रवत ॥ 31 ॥
कुञ्जरेण परभिन्नेन सप्तधा सरवता मदम पर्वतेन यथा तॊयं सरवमाणेन सर्वतः ॥ 32 ॥
किरञ शरसहस्राणि सुप्रतीक शिरॊ गतः ऐरावतस्थॊ मघवान वारिधारा इवानघ ॥ 33 ॥
स भीमं शरधाराभिस ताडयाम आस पार्थिवः पर्वतं वारिधाराभिः परावृषीव बलाहकः ॥ 34 ॥
भीमसेनस तु संक्रुद्धः पादरक्षान परःशतान निजघान महेष्वासः संक्रुद्धः शरवृष्टिभिः ॥ 35 ॥
तान दृष्ट्वा निहतान करुद्धॊ भगदत्तः परतापवान चॊदयाम आस नागेन्द्रं भीमसेनरथं परति ॥ 36 ॥
स नागः परेषितस तेन बाणॊ जया चॊदितॊ यथा अभ्यधावत वेगेन भीमसेनम अरिंदमम ॥ 37 ॥
तम आपतन्तं संक्रेप्ष्य पाण्डवानां महारथाः अभ्यवर्तन्त वेगेन भीमसेनपुरॊगमाः ॥ 38 ॥
केकयाश चाभिमन्युश च दरौपदेयाश च सर्वशः दशार्णाधिपतिः शूरः कषत्रदेवश च मारिष चेदिपश चित्रकेतुश च संक्रुद्धाः सर्व एव ते ॥ 39 ॥
उत्तमास्त्राणि दिव्यानि दर्शयन्तॊ महाबलाः तम एकं कुञ्जरं करुद्धाः समन्तात पर्यवारयन ॥ 40 ॥
स विद्धॊ बहुभिर बाणैर वयरॊचत महाद्विपः संजातरुधिरॊत्पीडॊ धातुचित्र इवाद्रिराट ॥ 41 ॥
दशार्णाधिपतिश चापि गजं भूमिधरॊपमम समास्थितॊ ऽभिदुद्राव भगदत्तस्य वारणम ॥ 42 ॥
तम आपतन्तं समरे गजं गजपतिः स च दधार सुप्रतीकॊ ऽपि वेलेव मकरालयम ॥ 43 ॥
वारितं परेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः साधु साध्व इति सैन्यानि पाण्डवेयान्य अपूजयन ॥ 44 ॥
ततः पराग यॊतिषः करुद्धस तॊमरान वै चतुर्दश पराहिणॊत तस्य नागस्य परमुखे नृपसत्तम ॥ 45 ॥
तस्य वर्म मुखत्राणं शातकुम्भपरिष्कृतम विदार्य पराविशन कषिप्रं वल्मीकम इव पन्नगाः ॥ 46 ॥
स गाढविद्धॊ वयथितॊ नागॊ भरतसत्तम उपावृत्त मदः कषिप्रं स नयवर्तत वेगतः ॥ 47 ॥
परदुद्राव च वेगेन परणदन भैरवं सवनम स मर्दमानः सवबलं वायुर वृक्षान इवौजसा ॥ 48 ॥
तस्मिन पराजिते नागे पाण्डवानां महारथाः सिंहनादं विनद्यॊच्चैर युद्धायैवॊपतस्थिरे ॥ 49 ॥
ततॊ भीमं पुरस्कृत्य भगदत्तम उपाद्रवन किरन्तॊ विविधान बाणाञ शस्त्राणि विविधानि च ॥ 50 ॥
तेषाम आपततां राजन संक्रुद्धानाम अमर्षिणाम शरुत्वा स निनदं घॊरम अमर्षाद गतसाध्वसः भगदत्तॊ महेष्वासः सवनागं परत्यचॊदयत ॥ 51 ॥
अङ्कुशाङ्गुष्ठ नुदितः स गजप्रवरॊ युधि तस्मिन कषणे समभवत संवर्तक इवानलः ॥ 52 ॥
रथसंघांस तथा नागान हयांश च सह सादिभिः पादातांश च सुसंक्रुद्धः शतशॊ ऽथ सहस्रशः अमृद्नात समरे राजन संप्रधावंस ततस ततः ॥ 53 ॥
तेन संलॊड्यमानं तु पाण्डूनां तद वलं महत संचुकॊप महाराज चर्मेवाग्नौ समाहितम ॥ 54 ॥
भग्नं तु सवबलं दृष्ट्वा भगदत्तेन धीमता घटॊत्कचॊ ऽथ संक्रुद्धॊ भगदत्तम उपाद्रवत ॥ 55 ॥
विकटः पुरुषॊ राजन दीप्तास्यॊ दीप्तलॊचनः रूपं विभीषणं कृत्वा रॊषेण परज्वलन्न इव ॥ 56 ॥
जग्राह विपुलं शूलं गिरीणाम अपि दारुणम नागं जिघांसुः सहसा चिक्षेप च महाबलः सविष्फुलिङ्ग जवालाभिः समन्तात परिवेष्टितम ॥ 57 ॥
तम आपतन्तं सहसा दृष्ट्वा जवालाकुलं रणे चिक्षेप रुचिरं तीक्ष्णम अर्धचन्द्रं स पार्थिवः चिच्छेद सुमहच छूलं तेन बाणेन वेगवत ॥ 58 ॥
निपपात दविधा छिन्नं शूलं हेमपरिष्कृतम महाशनिर यथा भरष्टा शक्र मुक्ता नभॊगता ॥ 59 ॥
शूलं निपतितं दृष्ट्वा दविधाकृत्तं स पार्थिवः रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखॊपमाम चिक्षेप तां राक्षसस्य तिष्ठ तिष्ठेति चाब्रवीत ॥ 60 ॥
ताम आपतन्तीं संप्रेक्ष्य वियत्स्थाम अशनीम इव उत्पत्य राक्षसत तूर्णं जग्राह च ननाद च ॥ 61 ॥
बभञ्ज चैनां तवरितॊ जानुन्य आरॊप्य भारत पश्यतः पार्थिवेन्द्रस्य तद अद्भुतम इवाभवत ॥ 62 ॥
तद अवेक्ष्य कृतं कर्म राक्षसेन बलीयसा दिवि देवाः स गन्धर्वा मुनयश चापि विस्मिताः ॥ 63 ॥
पाण्डवाश च महेष्वासा भीमसेनपुरॊगमाः साधु साध्व इति नादेन पृथिवीम अनुनादयन ॥ 64 ॥
तं तु शरुत्वा महानादं परहृष्टानां महात्मनाम नामृष्यत महेष्वासॊ भगदत्तः परतापवान ॥ 65 ॥
स विस्फार्य महच चापम इन्द्राशनिसमस्वनम अभिदुद्राव वेगेन पाण्डवानां महारथान विसृजन विमलांस तीक्ष्णान नाराचाञ जवलनप्रभान ॥ 66 ॥
भीमम एकेन विव्याध राक्षसं नवभिः शरैः अभिमन्युं तरिभिश चैव केकयान पञ्चभिस तथा ॥ 67 ॥
पूर्णायतविसृष्टेन सवर्णपुङ्खेन पत्रिणा बिभेद दक्षिणं बाहुं कषत्रदेवस्य चाहवे पपात सहसा तस्य स शरं धनुर उत्तमम ॥ 68 ॥
दरौपदेयांस ततः पञ्च पञ्चभिः समताडयत भीमसेनस्य च करॊधान निजघान तुरंगमान ॥ 69 ॥
धवजं केसरिणं चास्य चिच्छेद विशिखैस तरिभिः निर्बिभेद तरिभिश चान्यैः सारैथिं चास्य पत्रिभिः ॥ 70 ॥
स गाढविद्धॊ वयथितॊ रथॊपस्थ उपाविशत विशॊकॊ भरतश्रेष्ठ भगदत्तेन संयुगे ॥ 71 ॥
ततॊ भीमॊ महाराज विरथॊ रथिनां वरः गदां परगृह्य वेगेन परचस्कन्द महारथात ॥ 72 ॥
तम उद्यतगदं दृष्ट्वा स शृङ्गम इव पर्वतम तावकानां भयं घॊरं समपद्यत भारत ॥ 73 ॥
एतस्मिन्न एव काले तु पाण्डवः कृष्णसारथिः आजगाम महाराज निघ्नञ शत्रून सहस्रशः ॥ 74 ॥
यत्र तौ पुरुषव्याघ्रौ पिता पुत्रौ परंतपौ पराग्ज्यॊतिषेण संसक्तौ भीमसेन घटॊत्कचौ ॥ 75 ॥
दृष्ट्वा तु पाण्डवॊ राजन युध्यमानान महारथान तवरितॊ भरतश्रेष्ठ तत्रायाद विकिरञ शरान ॥ 76 ॥
ततॊ दुर्यॊधनॊ राजा तवरमाणॊ महारथः सेनाम अचॊदयत कषिप्रं रथनागाश्वसंकुलाम ॥ 77 ॥
ताम आपतन्तीं सहसा कौरवाणां महाचमूम अभिदुद्राव वेगेन पाण्डवः शवेतवाहनः ॥ 78 ॥
भगदत्तॊ ऽपि समरे तेन नागेन भारत विमृद्न पाण्डव बलं युधिष्ठिरम उपाद्रवत ॥ 79 ॥
तदासीत तुमुलं युद्धं भगदत्तस्य मारिष पाञ्चालैः सृञ्जयैश चैव केकयैश चॊद्यतायुधैः ॥ 80 ॥
भीमसेनॊ ऽपि समरे ताव उभौ केशवार्जुनौ आश्रावयद यथावृत्तम इरावद वधम उत्तमम ॥ 81 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 91
Reach this point to mark the section finished.
Continue to अध्याय 92