[धृ] वर्णाणां चैव नामानि पर्वतानां च संजय आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः ॥ 1 ॥
[स] दक्षिणेन तु शवेतस्य नीलस्यैवॊत्तरेण तु वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥ 2 ॥
शुक्लाभिजन संपन्नाः सर्वे सुप्रियदर्शनाः रतिप्रधानाश च तथा जायन्ते तत्र मानवाः ॥ 3 ॥
दशवर्षसहस्राणि शतानि दश पञ्च च जीवन्ति ते महाराज नित्यं मुदितमानसाः ॥ 4 ॥
दक्षिणे शृङ्गिणश चैव शवेतस्याथॊत्तरेण च वर्षं हैरण्वतं नाम यत्र हैरण्वती नदी ॥ 5 ॥
यक्षानुगा महाराज धनिनः परैय दर्शनाः महाबलास तत्र सदा राजन मुदितमानसाः ॥ 6 ॥
एकादश सहस्राणि वर्षाणां ते जनाधिप आयुष परमाणं जीवन्ति शतानि दश पञ्च च ॥ 7 ॥
शृङ्गाणि वै शृङ्गवतस तरीण्य एव मनुजाधिप एकं मणिमयं तत्र तथैकं रौक्मम अद्भुतम ॥ 8 ॥
सर्वरत्नमयं चैकं भवनैर उपशॊभितम तत्र सवयंप्रभा देवी नित्यं वसति शाण्डिली ॥ 9 ॥
उत्तरेण तु शृङ्गस्य समुद्रान्ते जनाधिप वर्षम ऐरावतं नाम तस्माच छृङ्गवतः परम ॥ 10 ॥
न तत्र सूर्यस तपति न ते जीर्यन्ति मानवाः चन्द्रमाश च स नक्षत्रॊ जयॊतिर भूत इवावृतः ॥ 11 ॥
पद्मप्रभाः पद्मवर्णाः पद्मपत्र निभेक्षणाः पद्मपत्र सुगन्धाश च जायन्ते तत्र मानवाः ॥ 12 ॥
अनिष्पन्दाः सुगन्धाश च निराहारा जितेन्द्रियाः देवलॊकच्युताः सर्वे तथा विरजसॊ नृप ॥ 13 ॥
तरयॊदश सहस्राणि वर्षाणां ते जनाधिप आयुष परमाणं जीवन्ति नरा भरतसत्तम ॥ 14 ॥
कषीरॊदस्य समुद्रस्य तथैवॊत्तरतः परभुः हरिर वसति वैकुण्ठः शकटे कनकात्मके ॥ 15 ॥
अष्टचक्रं हि तद यानं भूतयुक्तं मनॊजवम अग्निवर्णं महावेगं जाम्बूनदपरिष्कृतम ॥ 16 ॥
स परभुः सर्वभूतानां विभुश च भरतर्षभ संक्षेपॊ विस्तरश चैव कर्ता कारयिता च सः ॥ 17 ॥
पृथिव्य आपस तथाकाशं वायुस तेजश च पार्थिव स यज्ञः सर्वभूतानाम आस्यं तस्य हुताशनः ॥ 18 ॥
[व] एवम उक्तः संजयेन धृतराष्ट्रॊ महामनाः धयानम अन्वगमद राजा पुत्रान परति जनाधिप ॥ 19 ॥
स विचिन्त्य महाराज पुनर एवाब्रवीद वचः असंशयं सूतपुत्र कालः संक्षिपते जगत सृजते च पुनः सर्वं न ह विद्यति शाश्वतम ॥ 20 ॥
नरॊ नारायणश चैव सर्वज्ञः सर्वभूतभृत देवा वैकुण्ठ इत्य आहुर वेदा विष्णुर इति परभुम ॥ 21 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 9
Reach this point to mark the section finished.
Continue to अध्याय 10