धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 10

  1. [धृ] यद इदं भारतं वर्षं यत्रेदं मूर्छितं बलम यत्रातिमात्रं लुब्धॊ ऽयं पुत्रॊ दुर्यॊधनॊ मम ॥ 1 ॥

  2. यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनः एतन मे तत्त्वम आचक्ष्व कुशलॊ हय असि संजय ॥ 2 ॥

  3. [स] न तत्र पाण्डवा गृद्धाः शृणु राजन वचॊ मम गृद्धॊ दुर्यॊधनस तत्र शकुनिश चापि सौबलः ॥ 3 ॥

  4. अपरे कषत्रियाश चापि नानाजनपदेश्वराः ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम ॥ 4 ॥

  5. अत्र ते वर्णयिष्यामि वर्षं भारत भारतम परियम इन्द्रस्य देवस्य मनॊर वैवस्वतस्य च ॥ 5 ॥

  6. पृथॊश च राजन वैन्यस्य तथेक्ष्वाकॊर महात्मनः ययातेर अम्बरीषस्य मान्धातुर नहुषस्य च ॥ 6 ॥

  7. तथैव मुचुकुन्दस्य शिबेर औशीनरस्य च ऋषभस्य तथैलस्य नृगस्य नृपतेस तथा ॥ 7 ॥

  8. अन्येषां च महाराज कषत्रियाणां बलीयसाम सर्वेषाम एव राजेन्द्र परियं भारत भारतम ॥ 8 ॥

  9. तत ते वर्षं परवक्ष्यामि यथा शुतम अरिंदम शृणु मे गदतॊ राजन यन मां तवं परिपृच्छसि ॥ 9 ॥

  10. महेन्द्रॊ मलयः सह्यः शुक्तिमान ऋक्षवान अपि विन्ध्यश च पारियात्रश च सप्तैते कुलपर्वताः ॥ 10 ॥

  11. तेषां सहस्रशॊ राजन पर्वतास तु समीपतः अभिज्ञाताः सारवन्तॊ विपुलाश चित्रसानवः ॥ 11 ॥

  12. अन्ये ततॊ ऽपरिज्ञाता हरस्वा हरस्वॊपजीविनः आर्या मलेच्छाश च कौरव्य तैर मिश्राः पुरुषा विभॊ ॥ 12 ॥

  13. नदीः पिबन्ति बहुला गङ्गां सिन्धुं सरस्वतीम गॊदावरीं नर्मदां च बाहुदां च महानदीम ॥ 13 ॥

  14. शतद्रुं चन्द्रभागां च यमुनां च महानदीम दृषद्वतीं विपाशां च विपापां सथूलवालुकाम ॥ 14 ॥

  15. नदीं वेत्रवतीं चैव कृष्ण वेणां च निम्नगाम इरावतीं वितस्तां च पयॊष्णीं देविकाम अपि ॥ 15 ॥

  16. वेद समृतिं वेतसिनीं तरिदिवाम इष्कु मालिनीम करीषिणीं चित्रवहां चित्रसेनां च निम्नगाम ॥ 16 ॥

  17. गॊमतीं धूतपापां च वन्दनां च महानदीम कौशिकीं तरिदिवां कृत्यां विचित्रां लॊहतारिणीम ॥ 17 ॥

  18. रथस्थां शतकुम्भां च सरयूं च नरेश्वर चर्मण्वतीं वेत्रवतीं हस्तिसॊमां दिशं तथा ॥ 18 ॥

  19. शतावरीं पयॊष्णीं च परां भैमरथीं तथा कावेरीं चुलुकां चापि वापीं शतबलाम अपि ॥ 19 ॥

  20. निचीरां महितां चापि सुप्रयॊगां नराधिप पवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम ॥ 20 ॥

  21. पूर्वाभिरामां वीरां च भीमाम ओघवतीं तथा पलाशिनीं पापहरां महेन्द्रं पिप्पलावतीम ॥ 21 ॥

  22. पारिषेणाम असिक्नीं च सरलां भारमर्दिनीम पुरुहीं परवरां मेनां मॊघां घृतवतीं तथा ॥ 22 ॥

  23. धूमत्याम अतिकृष्णां च सूचीं छावीं च कौरव सदानीराम अधृष्यां च कुश धारां महानदीम ॥ 23 ॥

  24. शशिकान्तां शिवां चैव तथा वीरवतीम अपि वास्तुं सुवास्तुं गौरीं च कम्पनां स हिरण्वतीम ॥ 24 ॥

  25. हिरण्वतीं चित्रवतीं चित्रसेनां च निम्नगाम रथचित्रां जयॊतिरथां विश्वामित्रां कपिञ्जलाम ॥ 25 ॥

  26. उपेन्द्रां बहुलां चैव कुचराम अम्बुवाहिनीम वैनन्दीं पिञ्जलां वेण्णां तुङ्गवेणां महानदीम ॥ 26 ॥

  27. विदिशां कृष्ण वेण्णां च ताम्रां च कपिलाम अपि शलुं सुवामां वेदाश्वां हरिस्रावां महापगाम ॥ 27 ॥

  28. शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम कौशिकीं निम्नगां शॊणां बाहुदाम अथ चन्दनाम ॥ 28 ॥

  29. दुर्गाम अन्तःशिलां चैव बरह्म मेध्यां बृहद्वतीम चरक्षां महिरॊहीं च तथा जम्बुनदीम अपि ॥ 29 ॥

  30. सुनसां तमसां दासीं तरसाम अन्यां वराणसीम लॊलॊद्धृत करां चैव पूर्णाशां च महानदीम ॥ 30 ॥

  31. मानवीं वृषभां चैव महानद्यॊ जनाधिप सदा निरामयां वृत्यां मन्दगां मन्दवाहिनीम ॥ 31 ॥

  32. बरह्माणीं च महागौरीं दुर्गाम अपि च भारत चित्रॊपलां चित्रबर्हां मज्जुं मकरवाहिनीम ॥ 32 ॥

  33. मन्दाकिनीं वैतरणीं कॊकां चैव महानदीम शुक्तिमतीम अरण्यां च पुष्पवेण्य उत्पलावतीम ॥ 33 ॥

  34. लॊहित्यां करतॊयां च तथैव वृषभङ्गिनीम कुमारीम ऋषिकुल्यां च बरह्म कुल्यां च भारत ॥ 34 ॥

  35. सरस्वतीः सुपुण्याश च सर्वा गङ्गाश च मारिष विश्वस्य मातरः सर्वाः सर्वाश चैव महाबलाः ॥ 35 ॥

  36. तथा नद्यस तव अप्रकाशाः शतशॊ ऽथ सहस्रशः इत्य एताः सरितॊ राजन समाख्याता यथा समृति ॥ 36 ॥

  37. अत ऊर्ध्वं जनपदान निबॊध गदतॊ मम तत्रेमे कुरुपाञ्चालाः शाल्व माद्रेय जाङ्गलाः ॥ 37 ॥

  38. शूरसेनाः कलिङ्गाश च बॊधा मौकास तथैव च मत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशिकॊशलाः ॥ 38 ॥

  39. चेदिवत्साः करूषाश च भॊजाः सिन्धुपुलिन्दकाः उत्तमौजा दशार्णाश च मेकलाश चॊत्कलैः सह ॥ 39 ॥

  40. पाञ्चालाः कौशिकाश चैव एकपृष्ठा युगं धराः सौधा मद्रा भुजिङ्गाश च काशयॊ ऽपरकाशयः ॥ 40 ॥

  41. जठराः कुक्कुशाश चैव सुदाशार्णाश च भारत कुन्तयॊ ऽवन्तयश चैव तथैवापरकुन्तयः ॥ 41 ॥

  42. गॊविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाः अश्मकाः पांसुराष्ट्राश च गॊप राष्ट्राः पनीतकाः ॥ 42 ॥

  43. आदि राष्ट्राः सुकुट्टाश च बलिराष्ट्रं च केवलम वानरास्याः परवाहाश च वक्रा वक्रभयाः शकाः ॥ 43 ॥

  44. विदेहका मागधाश च सुह्माश च विजयास तथा अङ्गा वङ्गाः कलिङ्गाश च यकृल लॊमान एव च ॥ 44 ॥

  45. मल्लाः सुदेष्णाः पराहूतास तथा माहिष कार्षिकाः वाहीका वाटधानाश च आभीराः कालतॊयकाः ॥ 45 ॥

  46. अपरन्ध्राश च शूद्राश च पह्लवाश चर्म खण्डिकाः अटवी शबराश चैव मरु भौमाश च मारिष ॥ 46 ॥

  47. उपावृश्चानुपावृश्च सुराष्ट्राः केकयास तथा कुट्टापरान्ता दवैधेयाः काक्षाः सामुद्र निष्कुटाः ॥ 47 ॥

  48. अन्ध्राश च बहवॊ राजन्न अन्तर्गिर्यास तथैव च बहिर्गिर्य आङ्गमलदा मागधा मानवर्जकाः ॥ 48 ॥

  49. मह्युत्तराः परावृषेया भार्गवाश च जनाधिप पुण्ड्रा भार्गाः किराताश च सुदॊष्णाः परमुदास तथा ॥ 49 ॥

  50. शका निषादा निषधास तथैवानर्तनैरृताः दुगूलाः परतिमत्स्याश च कुशलाः कुनटास तथा ॥ 50 ॥

  51. तीरग्राहास्तर तॊया राजिका रम्यका गणाः तिलकाः पारसीकाश च मधुमन्तः परकुत्सकाः ॥ 51 ॥

  52. काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास तथा अभीसारा कुलूताश च शौवला बाह्लिकास तथा ॥ 52 ॥

  53. दर्वीकाः सकचा दर्वा वातजाम रथॊरगाः बहु वाद्याश च कौरव्य सुदामानः सुमल्लिकाः ॥ 53 ॥

  54. वध्राः करीषकाश चापि कुलिन्दॊपत्यकास तथा वनायवॊ दशा पार्श्वा रॊमाणः कुश बिन्दवः ॥ 54 ॥

  55. कच्छा गॊपाल कच्छाश च लाङ्गलाः परवल्लकाः किराता बर्बराः सिद्धा विदेहास ताम्रलिङ्गकाः ॥ 55 ॥

  56. ओष्ट्राः पुण्ड्राः स सैरन्ध्राः पार्वतीयाश च मारिष अथापरे जनपदा दक्षिणा भरतर्षभ ॥ 56 ॥

  57. दरविडाः केरलाः पराच्या भूषिका वनवासिनः उन्नत्यका माहिषका विकल्पा मूषकास तथा ॥ 57 ॥

  58. कर्णिकाः कुन्तिकाश चैव सौब्धिदा नलकालकाः कौकुट्टकास तथा चॊलाः कॊङ्कणा मालवाणकाः ॥ 58 ॥

  59. समङ्गाः कॊपनाश चैव कुकुराङ्गद मारिषाः धवजिन्य उत्सव संकेतास तरिवर्गाः सर्वसेनयः ॥ 59 ॥

  60. तर्यङ्गाः केकरकाः परॊष्ठाः परसंचरकास तथा तथैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह ॥ 60 ॥

  61. मालका मल्लकाश चैव तथैवापरवर्तकाः कुलिन्दाः कुलकाश चैव करण्ठाः कुरकास तथा ॥ 61 ॥

  62. मूषका सतनबालाश च सतियः पत्तिपञ्जकाः आदिदायाः सिरालाश च सतूबका सतनपास तथा ॥ 62 ॥

  63. हृषीविदर्भाः कान्तीकास तङ्गणाः परतङ्गणाः उत्तराश चापरे मलेच्छा जना भरतसत्तम ॥ 63 ॥

  64. यवनाश च स काम्बॊजा दारुणा मलेच्छ जातयः सक्षद्द्रुहः कुन्तलाश च हूणाः पारतकैः सह ॥ 64 ॥

  65. तथैव मरधाश चीनास तथैव दश मालिकाः कषत्रियॊपनिवेशाश च वैश्यशूद्र कुलानि च ॥ 65 ॥

  66. शूद्राभीराथ दरदाः काश्मीराः पशुभिः सह खशिकाश च तुखाराश च पल्लवा गिरिगह्वराः ॥ 66 ॥

  67. आत्रेयाः स भरद्वाजास तथैव सतनयॊषिकाः औपकाश च कलिङ्गाश च किरातानां च जातयः ॥ 67 ॥

  68. तामरा हंसमार्गाश च तथैव करभञ्जकाः उद्देश मात्रेण मया देशाः संकीर्तिताः परभॊ ॥ 68 ॥

  69. यथा गुणबलं चापि तरिवर्गस्य महाफलम दुह्येद धेनुः कामधुक च भूमिः सम्यग अनुष्ठिता ॥ 69 ॥

  70. तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकॊविदाः ते तयजन्त्य आहवे पराणान रसा गृद्धास तरस्विनः ॥ 70 ॥

  71. देव मानुषकायानां कामं भूमिः परायणम अन्यॊन्यस्यावलुम्पन्ति सारमेया इवामिषम ॥ 71 ॥

  72. राजानॊ भरतश्रेष्ठ भॊक्तुकामा वसुंधराम न चापि तृप्तिः कामानां विद्यते चेह कस्य चित ॥ 72 ॥

  73. तस्मात परिग्रहे भूमेर यतन्ते कुरुपाण्डवाः साम्ना दानेन भेदेन दण्डेनैव च पार्थिव ॥ 73 ॥

  74. पिता माता च पुत्राश च खं दयौश च नरपुंगव भूमिर भवति भूतानां सम्यग अच्छिद्र दर्शिनी ॥ 74 ॥

Reach this point to mark the section finished.

Continue to अध्याय 11

Previous: अध्याय 9