धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 8

  1. [धृ] मेरॊर अथॊत्तरं पार्श्वं पूर्वं चाचक्ष्व संजय निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम ॥ 1 ॥

  2. [स] दक्षिणेन तु नीलस्य मेरॊः पार्श्वे तथॊत्तरे उत्तराः कुरवॊ राजन पुण्याः सिद्धनिषेविताः ॥ 2 ॥

  3. तत्र वृक्षा मधु फला नित्यपुष्पफलॊपगाः पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च ॥ 3 ॥

  4. सर्वकामफलास तत्र के चिद वृक्षा जनाधिप अपरे कषीरिणॊ नाम वृक्षास तत्र नराधिप ॥ 4 ॥

  5. ये कषरन्ति सदा कषीरं षड्रसं हय अमृतॊपमम वस्त्राणि च परसूयन्ते फलेष्व आभरणानि च ॥ 5 ॥

  6. सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका सर्वत्र सुखसंस्पर्शा निष्पङ्का च जनाधिप ॥ 6 ॥

  7. देवलॊकच्युताः सर्वे जायन्ते तत्र मानवाः तुल्यरूपगुणॊपेताः समेषु विषमेषु च ॥ 7 ॥

  8. मिथुनानि च जायन्ते सत्रियश चाप्सरसॊपमाः तेषां ते कषीरिणां कषीरं पिबन्त्य अमृतसंनिभम ॥ 8 ॥

  9. मिथुनं जायमानं वै समं तच च परवर्धते तुल्यरूपगुणॊपेतं समवेषं तथैव च एकैकम अनुरक्तं च चक्रवाक समं विभॊ ॥ 9 ॥

  10. निरामया वीतशॊका नित्यं मुदितमानसाः दशवर्षसहस्राणि दशवर्षशतानि च जीवन्ति ते महाराज न चान्यॊन्यं जहत्य उत ॥ 10 ॥

  11. भारुण्डा नाम शकुनास तीक्ष्णतुण्डा महाबलाः ते निर्हरन्ति हि मृतान दरीषु परक्षिपन्ति च ॥ 11 ॥

  12. उत्तराः कुरवॊ राजन वयाख्यातास ते समासतः मेरॊः पार्श्वम अहं पूर्वं वक्ष्याम्य अथ यथातथम ॥ 12 ॥

  13. तस्य पूर्वाभिषेकस तु भद्राश्वस्य विशां पते भद्र सालवनं यत्र कालाम्रश च महाद्रुमः ॥ 13 ॥

  14. कालाम्रश च महाराज नित्यपुष्पफलः शुभः दवीपश च यॊजनॊत्सेधः सिद्धचारणसेवितः ॥ 14 ॥

  15. तत्र ते पुरुषाः शवेतास तेजॊयुक्ता महाबलाः सत्रियः कुमुदवर्णाश च सुन्दर्यः परियदर्शनाः ॥ 15 ॥

  16. चन्द्रप्रभाश चन्द्र वर्णाः पूर्णचन्द्रनिभाननाः चन्द्र शीतलगात्र्यश च नृत्तगीतविशारदाः ॥ 16 ॥

  17. दशवर्षसहस्राणि तत्रायुर भरतर्षभ कालाम्र रसपीतास ते नित्यं संस्थित यौवनाः ॥ 17 ॥

  18. दक्षिणेन तु नीलस्य निषधस्यॊत्तरेण तु सुदर्शनॊ नाम महाञ जाम्बूवृक्षः सनातनः ॥ 18 ॥

  19. सर्वकामफलः पुण्यः सिद्धचारणसेवितः तस्य नाम्ना समाख्यातॊ जम्बूद्वीपः सनातनः ॥ 19 ॥

  20. यॊजनानां सहस्रं च शतं च भरतर्षभ उत्सेधॊ वृक्षराजस्य दिवस्पृन मनुजेश्वर ॥ 20 ॥

  21. अरत्नीनां सहस्रं च शतानि दश पञ्च च परिणाहस तु वृक्षस्य फलानां रसभेदिनाम ॥ 21 ॥

  22. पतमानानि तान्य उर्व्यां कुर्वन्ति विपुलं सवनम मुञ्चन्ति च रसं राजंस तस्मिन रजतसंनिभम ॥ 22 ॥

  23. तस्या जम्ब्वाः फलरसॊ नदी भूत्वा जनाधिप मेरुं परदक्षिणं कृत्वा संप्रयात्य उत्तरान कुरून ॥ 23 ॥

  24. पिबन्ति तद रसं हृष्टा जना नित्यं जनाधिप तस्मिन फलरसे पीते न जरा बाधते च तान ॥ 24 ॥

  25. तत्र जाम्बूनदं नाम कनकं देव भूषणम तरुणादित्यवर्णाश च जायन्ते तत्र मानवाः ॥ 25 ॥

  26. तथा माल्यवतः शृङ्गे दीप्यते तत्र हव्यवाट नाम्ना संवर्तकॊ नाम कालाग्निर भरतर्षभ ॥ 26 ॥

  27. तथा माल्यवतः शृङ्गे पूर्वे पूर्वान्त गण्डिका यॊजनानां सहस्राणि पञ्चाशन माल्यवान सथितः ॥ 27 ॥

  28. महारजत संकाशा जायन्ते तत्र मानवाः बरह्मलॊकाच चयुताः सर्वे सर्वे च बरह्मवादिनः ॥ 28 ॥

  29. तपस तु तप्यमानास ते भवन्ति हय ऊर्ध्वरेतसः रक्षणार्थं तु भूतानां परविशन्ति दिवाकरम ॥ 29 ॥

  30. षष्टिस तानि सहस्राणि षष्टिर एव शतानि च अरुणस्याग्रतॊ यान्ति परिवार्य दिवाकरम ॥ 30 ॥

  31. षष्टिं वर्षसहस्राणि षष्टिम एव शतानि च आदित्यताप तप्तास ते विशन्ति शशिमण्डलम ॥ 31 ॥

Reach this point to mark the section finished.

Continue to अध्याय 9

Previous: अध्याय 7