[स] विमुखीकृत्य तान सर्वांस तावकान युधि राक्षसः जिघांसुर भरतश्रेष्ठ दुर्यॊधनम उपाद्रवत ॥ 1 ॥
तम आपतन्तं संप्रेक्ष्य राजानं परति वेगितम अभ्यधावज जिघांसन्तस तावका युद्धदुर्मदाः ॥ 2 ॥
तालमात्राणि चापानि विकर्षन्तॊ महाबलाः तम एकम अभ्यधावन्त नदन्तः सिंहसंघवत ॥ 3 ॥
अथैनं शरवर्षेण समन्तात पर्यवारयन पर्वतं वारिधाराभिः शरदीव बलाहकाः ॥ 4 ॥
स गाढविद्धॊ वयथितस तॊत्त्रार्दित इव दविपः उत्पपात तदाकाशं समन्ताद वैनतेयवत ॥ 5 ॥
वयनदत सुमहानादं जीमूत इव शारदः दिशः खं परदिशश चैव नादयन भैरवस्वनः ॥ 6 ॥
राक्षसस्य तु तं शब्दं शरुत्वा राजा युधिष्ठिरः उवाच भरतश्रेष्ठॊ भीमसेनम इदं वचः ॥ 7 ॥
युध्यते राक्षसॊ नूनं धार्तराष्ट्रैर महारथैः यथास्य शरूयते शब्दॊ नदतॊ भैरवं सवनम अतिभारं च पश्यामि तत्र तात समाहितम ॥ 8 ॥
पितामहश च संक्रुद्धः पाञ्चालान हन्तुम उद्यतः तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः ॥ 9 ॥
एतच छरुत्वा महाबाहॊ कार्यद्वयम उपस्थितम गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम ॥ 10 ॥
भरातुर वचनम आज्ञाय तवरमाणॊ वृकॊदरः परययौ सिंहनादेन तरासयन सर्वपार्थिवान वेगेन महता राजन पर्वकाले यथॊदधिः ॥ 11 ॥
तम अन्वयात सत्यघृतिः सौचित्तिर युद्धदुर्मदः शरेणिमान वसु दानश च पुत्रः काश्यस्य चाभिभूः ॥ 12 ॥
अभिमन्युमुखाश चैव दरौपदेया महारथाः कषत्रदेवश च विक्रान्तः कषत्रधर्मा तथैव च ॥ 13 ॥
अनूपाधिपतिश चैव नीलः सवबलम आस्थितः महता रथवंशेन हैडिम्बं पर्यवारयन ॥ 14 ॥
कुञ्जरैश च सदामत्तैः षट सहस्रैः परहारिभिः अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटॊत्कचम ॥ 15 ॥
सिंहनादेन महता नेमिघॊषेण चैव हि खुरशब्दनिनादैश च कम्पयन्तॊ वसुंधराम ॥ 16 ॥
तेमाम आपततां शरुत्वा शब्दं तं तावकं बलम भीमसेन भयॊद्विग्नं विवर्णवदनं तथा परिवृत्तं महाराज परित्यज्य घटॊत्कचम ॥ 17 ॥
ततः परववृते युद्धं तत्र तत्र महात्मनाम तावकानां परेषां च संग्रामेष्व अनिवर्तिनाम ॥ 18 ॥
नानारूपाणि शस्त्राणि विसृजन्तॊ महारथाः अन्यॊन्यम अभिधावन्तः संप्रहारं परचक्रिरे वयतिषक्तं महारौद्रं युद्धं भीरु भयावहम ॥ 19 ॥
हया गजैः समाजग्मुः पादाता रथिभिः सह अन्यॊन्यं समरे राजन परार्थयाना महद यशः ॥ 20 ॥
सहसा चाभवत तीव्रं संनिपातान महद रजः रथाश्वजग पत्तीनां पदनेमि समुद्धतम ॥ 21 ॥
धूम्रारुणं रजस तीव्रं रणभूमिं समावृणॊत नैव सवे न परे राजन समजानन परस्परम ॥ 22 ॥
पिता पुत्रं न जानीते पुत्रॊ वा पितरं तथा निर्मर्यादे तथा भूते वैशसे लॊमहर्षणे ॥ 23 ॥
शस्त्राणां भरतश्रेष्ठ मनुष्याणां च गर्जताम सुमहान अभवच छब्दॊ वंशानाम इव दह्यताम ॥ 24 ॥
गजवाजिमनुष्याणां शॊणितान्त्र तरङ्गिणी परावर्तत नदी तत्र केशशैवलशाद्वला ॥ 25 ॥
नराणां चैव कायेभ्यः शिरसां पततां रणे शुश्रुवे सुमहाञ शब्दः पतताम अश्मनाम इव ॥ 26 ॥
विशिरस्कैर मनुष्यैश च छिन्नगात्रैश च वारणैः अश्वैः संभिन्नदेहैश च संकीर्णाभूद वसुंधरा ॥ 27 ॥
नानाविधानि शस्त्राणि विसृजन्तॊ महारथाः अन्यॊन्यम अभिधावन्तः संप्रहारं परचक्रिरे ॥ 28 ॥
हया हयान समासाद्य परेषिता हयसादिभिः समाहत्य रणे ऽनयॊन्यं निपेतुर गतजीविताः ॥ 29 ॥
नरा नरान समासाद्य करॊधरक्तेक्षणा भृशम उरांस्य उरॊभिर अन्यॊन्यं समाश्लिष्य निजघ्निरे ॥ 30 ॥
परेषिताश च महामात्रैर वारणाः परवारणाः अभिघ्नन्ति विषाणाग्रैर वारणान एव संयुगे ॥ 31 ॥
ते जातरुधिरापीडाः पताकाभिर अलंकृताः संसक्ताः परत्यदृश्यन्त मेघा इव स विद्युतः ॥ 32 ॥
के चिद भिन्ना विषाणाग्रैर भिन्नकुम्भाश च तॊमरैः विनदन्तॊ ऽभयधावन्त गर्जन्तॊ जलदा इव ॥ 33 ॥
केचिद धस्तैर दविधा छिन्नैश छिन्नगात्रास तथापरे निपेतुस तुमुले तस्मिंश छिन्नपक्षा इवाद्रयः ॥ 34 ॥
पार्श्वैस तु दारितैर अन्ये वारणैर वरवारणाः मुमुचुः शॊणितं भूरि धातून इव महीधराः ॥ 35 ॥
नाराचाभिहतास तव अन्ये तथा विद्धाश च तॊमरैः हतारॊहा वयदृश्यन्त विशृङ्गा इव पर्वताः ॥ 36 ॥
के चित करॊधसमाविष्टा मदान्धा निरवग्रहाः रथान हयान पदातांश च ममृदुः शतशॊ रणे ॥ 37 ॥
तथा हया हयारॊहैस ताडिताः परासतॊमरैः तेन तेनाभ्यवर्तन्त कुर्वन्तॊ वयाकुला दिशः ॥ 38 ॥
रथिनॊ रथिभिः सार्धं कुलपुत्रास तनुत्यजः परां शक्तिं समास्थाय चक्रुः कर्माण्य अभीतवत ॥ 39 ॥
सवयंवर इवामर्दे परजह्रुर इतरेतरम परार्थयानां यशॊ राजन सवर्गं वा युद्धशालिनः ॥ 40 ॥
तस्मिंस तथा वर्तमाने संग्रामे लॊमहर्षणे धार्तराष्ट्रं महत सैन्यं परायशॊ विमुखीकृतम ॥ 41 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 89
Reach this point to mark the section finished.
Continue to अध्याय 90