धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 88

  1. [स] ततस तद बाणवर्षं तु दुःसहं दानवैर अपि दधार युधि राजेन्द्रॊ यथा वर्षं महाद्विपः ॥ 1 ॥

  2. ततः करॊधसमाविष्टॊ निःश्वसन्न इव पन्नगः संशयं परमं पराप्तः पुत्रस ते भरतर्षभ ॥ 2 ॥

  3. मुमॊच निशितांस तीक्ष्णान नाराचान पञ्चविंशतिम ते ऽपतन सहसा राजंस तस्मिन राक्षसपुंगवे आशीविषा इव करुद्धाः पर्वते गन्धमादने ॥ 3 ॥

  4. स तैर विद्धः सरवन रक्तं परभिन्न इव कुञ्जरः दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः जग्राह च महाशक्तिं गिरीणाम अपि दारणीम ॥ 4 ॥

  5. संप्रदीप्तां महॊल्काभाम अशनीं मघवान इव समुद्यच्छन महाबाहुर जिघांसुस तनयं तव ॥ 5 ॥

  6. ताम उद्यताम अभिप्रेक्ष्य वङ्गानाम अधिपस तवरन कुञ्जरं गिरिसंकाशं राक्षसं परत्यचॊदयत ॥ 6 ॥

  7. स नागप्रवरेणाजौ बलिना शीघ्रगामिना यतॊ दुर्यॊधन रथस तं मार्गं परत्यपद्यत रथं च वारयाम आस कुञ्जरेण सुतस्य ते ॥ 7 ॥

  8. मार्गम आवारितं दृष्ट्वा राज्ञा वङ्गेन धीमता घटॊत्कचॊ महाराज करॊधसंरक्तलॊचनः उद्यतां तां महाशक्तिं तस्मिंश चिक्षेप वारणे ॥ 8 ॥

  9. स तयाभिहतॊ राजंस तेन बाहुविमुक्तया संजातरुधिरॊत्पीडः पपात च ममार च ॥ 9 ॥

  10. पतत्य अथ गजे चापि वङ्गानाम ईश्वरॊ बली जवेन समभिद्रुत्य जगाम धरणीतलम ॥ 10 ॥

  11. दुर्यॊधनॊ ऽपि संप्रेक्ष्य पातितं वरवारणम परभग्नं च बलं दृष्ट्वा जगाम परमां वयथाम ॥ 11 ॥

  12. कषत्रधर्मं पुरस्कृत्य आत्मनश चाभिमानिताम पराप्ते ऽपक्रमणे राजा तस्थौ गिरिर इवाचलः ॥ 12 ॥

  13. संधाय च शितं बाणं कालाग्निसमतेजसम मुमॊच परमक्रुद्धस तस्मिन घॊरे निशाचरे ॥ 13 ॥

  14. तम आपतन्तं संप्रेक्ष्य बाणम इन्द्राशनिप्रभम लाघवाद वञ्चयाम आस महाकायॊ घटॊत्कचः ॥ 14 ॥

  15. भूय एव ननादॊग्रः करॊधसंरक्तलॊचनः तरासयन सर्वभूतानि युगान्ते जलदॊ यथा ॥ 15 ॥

  16. तं शरुत्वा निनदं घॊरं तस्य भीष्मस्य रक्षसः आचार्यम उपसंगम्य भीष्मः शांतनवॊ ऽबरवीत ॥ 16 ॥

  17. यथैष निनदॊ घॊरः शरूयते राक्षसेरितः हैडिम्बॊ युध्यते नूनं राज्ञा दुर्यॊधनेन ह ॥ 17 ॥

  18. नैष शक्यॊ हि संग्रामे जेतुं भूतेन केन चित तत्र गच्छत भद्रं वॊ राजानं परिरक्षत ॥ 18 ॥

  19. अभिद्रुतं महाभागं राक्षषेन दुरात्मना एतद धि परमं कृत्यं सर्वेषां नः परंतपः ॥ 19 ॥

  20. पितामहवचः शरुत्वा तवरमाणा महारथाः उत्तमं जवम आस्थाय परययुर यत्र कौरवः ॥ 20 ॥

  21. दरॊणश च सॊमदत्तश च बाह्लिकश च जयद्रथः कृपॊ भूरी शरवाः शल्यश चित्रसेनॊ विविंशतिः ॥ 21 ॥

  22. अश्वत्थामा विकर्णश च आवन्त्यश च बृहद्बलः रथाश चानेक साहस्रा ये तेषाम अनुयायिनः अभिद्रुतं परीप्सन्तः पुत्रं दुर्यॊधनं तव ॥ 22 ॥

  23. तद अनीकम अनाधृष्यं पालितं लॊकसत्तमैः आततायिनम आयान्तं परेक्ष्य राक्षससत्तमः नाकम्पत महाबाहुर मैनाक इव पर्वतः ॥ 23 ॥

  24. परगृह्य विपुलं चापं जञातिभिः परिवारितः शूलम उद्गर हस्तैश च नानाप्रहरणैर अपि ॥ 24 ॥

  25. ततः समभवद युद्धं तुमुलं लॊमहर्षणम राक्षसानां च मुख्यस्य दुर्यॊधन बलस्य च ॥ 25 ॥

  26. धनुषां कूजतां शब्दः सर्वतस तुमुलॊ ऽभवत अश्रूयत महाराज वंशानां दह्यताम इव ॥ 26 ॥

  27. शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम शब्दः समभवद राजन्न अद्रीणाम इव दीर्यताम ॥ 27 ॥

  28. वीरबाहुविसृष्टानां तॊमराणां विशां पते रूपम आसीद वियत सथानां सर्पाणां सर्पताम इव ॥ 28 ॥

  29. ततः परमसंक्रुद्धॊ विस्फार्य सुमहद धनुः राक्षसेन्द्रॊ महाबाहुर विनदन भैरवं रवम ॥ 29 ॥

  30. आचार्यस्यार्ध चन्द्रेण करुद्धश चिच्छेद कार्मुकम सॊमदत्तस्य भल्लेन धवजम उन्मथ्य चानदत ॥ 30 ॥

  31. बाह्लिकं च तरिभिर बाणैर अभ्यविध्यत सतनान्तरे कृपम एकेन विव्याध चित्रसेनं तरिभिः शरैः ॥ 31 ॥

  32. पूर्णायतविसृष्टेन सम्यक परणिहितेन च जत्रु देशे समासाद्य विकर्णं समताडयत नयषीदत स रथॊपस्थे शॊणितेन परिप्लुतः ॥ 32 ॥

  33. ततः पुनर अमेयात्मा नाराचान दश पञ्च च भूरिश्रवसि संक्रुद्धः पराहिणॊद भरतर्षभ ते वर्म भित्त्वा तस्याशु पराविशन मेदिनी तलम ॥ 33 ॥

  34. विविंशतेश च दरौणेश च यन्तारौ समताडयत तौ पेततू रथॊपस्थे रश्मीन उत्सृज्य वाजिनाम ॥ 34 ॥

  35. सिन्धुराज्ञॊ ऽरधचन्द्रेण वाराहं सवर्णभूषितम उन्ममाथ महाराज दवितीयेनाछिनद धनुः ॥ 35 ॥

  36. चतुर्भिर अथ नाराचैर आवन्त्यस्य महात्मनः जघान चतुरॊ वाहान करॊधसंरक्तलॊचनः ॥ 36 ॥

  37. पूर्णायतविसृष्टेन पीतेन निशितेन च निर्बिभेद महाराज राजपुत्रं बृहद्बलम स गाढविद्धॊ वयथितॊ रथॊपस्थ उपाविशत ॥ 37 ॥

  38. भृशं करॊधेन चाविष्टॊ रथस्थॊ राक्षसाधिपः चिक्षेप निशितांस तीक्ष्णाञ शरान आशीविषॊपमान विभिदुस ते महाराज शल्यं युद्धविशारदम ॥ 38 ॥

Reach this point to mark the section finished.

Continue to अध्याय 89

Previous: अध्याय 87