धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 85

  1. [धृ] दृष्ट्वा मम हतान पुत्रान बहून एकेन संशय भीष्मॊ दरॊणः कृपश चैव किम अकुर्वत संयुगे ॥ 1 ॥

  2. अहन्य अहनि मे पुत्राः कषयं गच्छन्ति संजय मन्ये ऽहं सर्वथा सूत दैवेनौपहता भृशम ॥ 2 ॥

  3. यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्य उत यत्र भीष्मस्य दरॊणस्य कृपस्य च महात्मनः ॥ 3 ॥

  4. सौमदत्तेश च वीरस्य भगदत्तस्य चॊभयॊः अश्वत्थाम्नस तथा तात शूराणां सुमहात्मनाम ॥ 4 ॥

  5. अन्येषां चैव वीराणां मध्यगास तनया मम यद अहन्यन्त संग्रामे किम अन्यद भागधेयतः ॥ 5 ॥

  6. न हि दुर्यॊधनॊ मन्दः पुरा परॊक्तम अबुध्यत वार्यमाणॊ मया तात भीष्मेण विदुरेण च ॥ 6 ॥

  7. गान्धार्या चैव दुर्मेधाः सततं हितकाम्यया नावबुध्यत पुरा मॊहात तस्य पराप्तम इदं फलम ॥ 7 ॥

  8. यद भीमसेनः समरे पुत्रान मम विचेतसः अहन्य अहनि संक्रुद्धॊ नयते यमसादनम ॥ 8 ॥

  9. [स] इदं तत समनुप्राप्तं कषत्तुर वचनम उत्तमम न बुद्धवान असि विभॊ परॊच्यमानं हितं तदा ॥ 9 ॥

  10. निवारय सुतान दयूतात पाण्डवान मा दरुहेति च सुहृदां हितकामानां बरुवतां तत तद एव च ॥ 10 ॥

  11. न शुश्रूषसि यद वाक्यं मर्त्यः पथ्यम इवौषधम तद एव तवाम अनुप्राप्तं वचनं साधु भाषितम ॥ 11 ॥

  12. विदुर दरॊण भीष्माणां तथान्येषां हितैषिणाम अकृत्वा वचनं पथ्यं कषयं गच्छन्ति कौरवाः ॥ 12 ॥

  13. तद एतत समतिक्रान्तं पूर्वम एव विशां पते तस्मान मे शृणु तत्त्वेन यथा युद्धम अवर्तत ॥ 13 ॥

  14. मध्याह्ने सुमहारौद्रः संग्रामः समपद्यत लॊकक्षयकरॊ राजंस तन मे निगदतः शृणु ॥ 14 ॥

  15. ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात संरब्धान्य अभ्यधावन्त भीष्मम एव जिघांसया ॥ 15 ॥

  16. धृष्टद्युम्नः शिखण्डी च सात्यकिश च महारथः युक्तानीका महाराज भीष्मम एव समभ्ययुः ॥ 16 ॥

  17. अर्जुनॊ दरौपदेयाश च चेकितानश च संयुगे दरुयॊधन समादिष्टान राज्ञः सर्वान समभ्ययुः ॥ 17 ॥

  18. अभिमन्युस तथा वीरॊ हैडिम्बश च महारथः भीमसेनश च संक्रुद्धस ते ऽभयधावन्त कौरवान ॥ 18 ॥

  19. तरिधा भूतैर अवध्यन्त पाण्डवैः कौरवा युधि तथैव कौरवे राजन्न अवध्यन्त परे रणे ॥ 19 ॥

  20. दरॊणस तु रथिनां शरेष्ठः सॊमकान सृञ्जयैः सह अभ्यद्रवत संक्रुद्धः परेषयिष्यन यमक्षयम ॥ 20 ॥

  21. तत्राक्रन्दॊ महान आसीत सृञ्जयानां महात्मनाम वध्यतां समरे राजन भारद्वाजेन धन्विना ॥ 21 ॥

  22. दरॊणेन निहतास तत्र कषत्रिया बहवॊ रणे विवेष्टन्तः सम दृश्यन्ते वयाधिक्लिष्टा नरा इव ॥ 22 ॥

  23. कूजतां करन्दतां चैव सतनतां चैव संयुगे अनिशं शरूयते शब्दः कषुत कृशानां नृणाम इव ॥ 23 ॥

  24. तथैव कौरवेयाणां भीमसेनॊ महाबलः चकार कदनं घॊरं करुद्धः काल इवापरः ॥ 24 ॥

  25. वध्यतां तत्र सैन्यानाम अन्यॊन्येन महारणे परावर्तत नदी घॊरा रुधिरौघप्रवाहिनी ॥ 25 ॥

  26. स संग्रामॊ महाराज घॊररूपॊ ऽभवन महान कुरूणां पाण्डवानां च यम राष्ट्रविवर्धनः ॥ 26 ॥

  27. ततॊ भीमॊ रणे करुद्धॊ रभसश च विशेषतः गजानीकं समासाद्य परेषयाम आस मृत्यवे ॥ 27 ॥

  28. तत्र भारत भीमेन नाराचाभिहता गजाः पेतुः सेदुश च नेदुश च दिशश च परिबभ्रमुः ॥ 28 ॥

  29. छिन्नहस्ता महानागाश छिन्नपादाश च मारिष करौञ्चवद वयनदन भीताः पृथिवीम अधिशिश्यिरे ॥ 29 ॥

  30. नकुलः सहदेवश च हयानीकम अभिद्रुतौ ते हयाः काञ्चनापीडा रुक्मभाण्ड परिच्छदाः वध्यमाना वयदृश्यन्त शतशॊ ऽथ सहस्रशः ॥ 30 ॥

  31. पतद्भिश च हयै राजन समास्तीर्यत मेदिनी निर्जिह्वैर्श च शवसद्भिश च कूजद्भिश च गतासुभिः हयैर बभौ नरश्रेष्ठ नानारूपधरैर धरा ॥ 31 ॥

  32. अर्जुनेन हतैः संख्ये तथा भारत वाजिभिः परबभौ वसुधा घॊरा तत्र तत्र विशां पते ॥ 32 ॥

  33. रथैर भग्नैर धवजैश छिन्नैश छत्रैश च सुमहाप्रभैः हारैर निष्कैः स केयूरैः शिरॊभिश च सकुण्डलैः ॥ 33 ॥

  34. उष्णीषैर अपविद्धैश च पताकाभिश च सर्वषः अनुकर्षैः शुभौ राजन यॊक्त्रैश चव्यसुरश्मिभिह संछन्ना वसुधा भाति वसन्ते कुसुमैर इव ॥ 34 ॥

  35. एवम एष कषयॊ वृत्तः पाण्डूनाम अपि भारत करुद्धे शांतनवे भीष्मे दरॊणे च रथसत्तमे ॥ 35 ॥

  36. अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि तथेतरेषु करुद्धेषु तावकानाम अपि कषयः ॥ 36 ॥

Reach this point to mark the section finished.

Continue to अध्याय 86

Previous: अध्याय 84