धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 84

  1. [स] भीष्मं तु समरे करुद्धं परतपन्तं समन्ततः न शेकुः पाण्डवा दरष्टुं तपन्तम इव भास्करम ॥ 1 ॥

  2. ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः ॥ 2 ॥

  3. स तु भीष्मॊ रणश्लाघी सॊमकान सह सृञ्जयान पाञ्चालांश च महेष्वासान पातयाम आस सायकैः ॥ 3 ॥

  4. ते वध्यमाना भीष्मेण पाञ्चालाः सॊमकैः सह भीष्मम एवाभ्ययुस तूर्णं तयक्त्वा मृत्युकृतं भयम ॥ 4 ॥

  5. स तेषां रथिनां वीरॊ भीष्मः शांतनवॊ युधि चिच्छेद सहसा राजन बाहून अथ शिरांसि च ॥ 5 ॥

  6. विरथान रथिनश चक्रे पिता देवव्रतस तव पतितान्य उत्तमाङ्गानि हयेभ्यॊ हयसादिनाम ॥ 6 ॥

  7. निर्मनुष्यांश च मातङ्गाञ शयानान पर्वतॊपमान अपश्याम महाराज भीष्मास्त्रेण परमॊहितान ॥ 7 ॥

  8. न तत्रासीत पुमान कश चित पाण्डवानां विशां पते अन्यत्र रथिनां शरेष्ठाद भीमसेनान महाबलात ॥ 8 ॥

  9. स हि भीष्मं समासाद्य ताडयाम आस संयुगे ततॊ निष्टानकॊ घॊरॊ भीष्म भीमं समागमे ॥ 9 ॥

  10. बभूव सर्वसैन्यानां घॊररूपॊ भयानकः तथैव पाण्डवा हृष्टाः सिंहनादम अथानदन ॥ 10 ॥

  11. ततॊ दुर्यॊधनॊ राजा सॊदर्यैः परिवारितः भीष्मं जुगॊप समरे वर्तमाने जनक्षये ॥ 11 ॥

  12. भीमस तु सारथिं हत्वा भीष्मस्य रथिनां वरः विद्रुताश्वे रथे तस्मिन दरवमाणे समन्ततः सुनाभस्य शरेणाशु शिरश चिच्छेद चारिहा ॥ 12 ॥

  13. कषुरप्रेण सुतीक्ष्णेन स हतॊ नयपतद भुवि हते तस्मिन महाराज तव पुत्रे महारथे नामृष्यन्त रणे शूराः सॊदर्याः सप्त संयुगे ॥ 13 ॥

  14. आदित्यकेतुर बह्व आशीकुण्ड धारॊ महॊदरः अपराजितः पण्डितकॊ विशालाक्षः सुदुर्जयः ॥ 14 ॥

  15. पाण्डवं चित्रसंनाहा विचित्रकवच धवजाः अभ्यद्रवन्त संग्रामे यॊद्धुकामारिमर्दनाः ॥ 15 ॥

  16. महॊदरस तु समरे भीमं विव्याध पत्रिभिः नवभिर वज्रसंकाशैर नमुचिं वृत्रहा यथा ॥ 16 ॥

  17. आदित्यकेतुः सप्तत्या बह्व आशीचापि पञ्चभिः नवत्या कुण्ड धारस तु विशालाक्षश च सप्तभिः ॥ 17 ॥

  18. अपराजितॊ महाराज पराजिष्णुर महारथः शरैर बहुभिर आनर्छद भीमसेनं महाबलम ॥ 18 ॥

  19. रणे पण्डितकश चैनं तरिभिर बाणैः समर्दयत स तन न ममृषे भीमः शत्रुभिर वधम आहवे ॥ 19 ॥

  20. धनुः परपीड्य वामेन करेणामित्रकर्शनः शिरश चिच्छेद समरे शरेण नतपर्वणा ॥ 20 ॥

  21. अपराजितस्य सुनसं तव पुत्रस्य संयुगे पराजितस्य भीमेन निपपात शिरॊमहीम ॥ 21 ॥

  22. अथापरेण भल्लेन कुण्ड धारं महारथम पराहिणॊन मृत्युलॊकाय सर्वलॊकस्य पश्यतः ॥ 22 ॥

  23. ततः पुनर अमेयात्मा परसंधाय शिलीमुखम परेषयाम आस समरे पण्डितं परति भारत ॥ 23 ॥

  24. स शरः पण्डितं हत्वा विवेश धरणीतलम यथा नरं निहत्याशु भुजगः कालचॊदितः ॥ 24 ॥

  25. विशालाक्ष शिरश छित्त्वा पातयाम आस भूतले तरिभिः शरैर अदीनात्मा समरन कलेशं पुरातनम ॥ 25 ॥

  26. महॊदरं महेष्वासं नाराचेन सतनान्तरे विव्याध समरे राजन स हतॊ नयपतद भुवि ॥ 26 ॥

  27. आदित्यकेतॊः केतुं च छित्त्वा बाणेन संयुगे भल्लेन भृशतीक्ष्णेन शिरश चिच्छेद चारिहा ॥ 27 ॥

  28. बह्व आशिनं ततॊ भीमः शरेण नतपर्वणा परेषयाम आस संक्रुद्धॊ यमस्य सदनं परति ॥ 28 ॥

  29. परदुद्रुवुस ततस ते ऽनये पुत्रास तव विशां पते मन्यमाना हि तत सत्यं सभायां तस्य भाषितम ॥ 29 ॥

  30. ततॊ दुर्यॊधनॊ राजा भरातृव्यसनकर्शितः अब्रवीत तावकान यॊधान भीमॊ ऽयं युधि वध्यताम ॥ 30 ॥

  31. एवम एत महेष्वासाः पुत्रास तव विशां पते भरातॄन संदृश्य निहतान परास्मरंस ते हि तद वचः ॥ 31 ॥

  32. यद उक्तवान महाप्राज्ञः कषत्ता हितम अनामयम तद इदं समनुप्राप्तं वचनं दिव्यदर्शिनः ॥ 32 ॥

  33. लॊभमॊहसमाविष्टः पुत्र परीत्या जनाधिप न बुध्यसे पुरा यत तत तथ्यम उक्तं वचॊ महत ॥ 33 ॥

  34. तथैव हि वधार्थाय पुत्राणां पाण्डवॊ बली नूनं जातॊ महाबाहुर यथा हन्ति सम कौरवान ॥ 34 ॥

  35. ततॊ दुर्यॊधनॊ राजा भीष्मम आसाद्य मारिष दुःखेन महताविष्टॊ विललापातिकर्शितः ॥ 35 ॥

  36. निहता भरातरः शूरा भीमसेनेन मे युधि यतमानास तथान्ये ऽपि हन्यन्ते सर्वसैनिकाः ॥ 36 ॥

  37. भवांश च मध्यस्थतया नित्यम अस्मान उपेक्षते सॊ ऽहं कापथम आरूढः पश्य दैवम इदं मम ॥ 37 ॥

  38. एतच छरुत्वा वचः करूरं पिता देवव्रतस तव दुर्यॊधनम इदं वाक्यम अब्रवीत साश्रुलॊचनम ॥ 38 ॥

  39. उक्तम एतन मया पूर्वं दरॊणेन विदुरेण च गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान ॥ 39 ॥

  40. समयश च मया पूर्वं कृतॊ वः शत्रुकर्शन नाहं युधि विमॊक्तव्यॊ नाप्य आचार्यः कथं चन ॥ 40 ॥

  41. यं यं हि धार्तराष्ट्राणां भीमॊ दरक्ष्यति संयुगे हनिष्यति रणे तं तं सत्यम एतद बरवीमि ते ॥ 41 ॥

  42. स तवं राजन सथिरॊ भूत्वा दृढां कृत्वा रणे मतिम यॊधयस्व रणे पार्थान सवर्गं कृत्वा परायणम ॥ 42 ॥

  43. न शक्याः पाण्डवा जेतुं सेन्द्रैर अपि सुरासुरैः तस्माद युद्धे मतिं कृत्वा सथिरां युध्यस्व भारत ॥ 43 ॥

Reach this point to mark the section finished.

Continue to अध्याय 85

Previous: अध्याय 83