संजय उवाच वर्तमाने तथा रौद्रे राजन वीरवरक्षये शकुनिः सौबलः शरीमान पाण्डवान समुपाद्रवत ॥ 1 ॥
तथैव सात्वतॊ राजन हार्दिक्यः परवीरहा अभ्यद्रवत संग्रामे पाण्डवानाम अनीकिनीम ॥ 2 ॥
ततः काम्बॊजमुख्यानां नदीजानां च वाजिनाम आरट्टानां महीजानां सिन्धुजानां च सर्वशः ॥ 3 ॥
वनायुजानां शुभ्राणां तथा पर्वतवासिनाम ये चापरे तित्तिरजा जवना वातरंहसः ॥ 4 ॥
सुवर्णालंकृतैर एतैर वर्मवद्भिः सुकल्पितैः हयैर वातजवैर मुख्यैः पाण्डवस्य सुतॊ बली अभ्यवर्तत तत सैन्यं हृष्टरूपः परंतपः ॥ 5 ॥
अर्जुनस्याथ दायाद इरावान नाम वीर्यवान सुतायां नागराजस्य जातः पार्थेन धीमता ॥ 6 ॥
ऐरावतेन सा दत्ता अनपत्या महात्मना पत्यौ हते सुपर्णेन कृपणा दीनचेतना ॥ 7 ॥
भार्यार्थं तां च जग्राह पार्थः कामवशानुगाम एवम एष समुत्पन्नः परक्षेत्रे ऽरजुनात्मजः ॥ 8 ॥
स नागलॊके संवृद्धॊ मात्रा च परिरक्षितः पितृव्येण परित्यक्तः पार्थद्वेषाद दुरात्मना ॥ 9 ॥
रूपवान वीर्यसंपन्नॊ गुणवान सत्यविक्रमः इन्द्रलॊकं जगामाशु शरुत्वा तत्रार्जुनं गतम ॥ 10 ॥
सॊ ऽभिगम्य महात्मानं पितरं सत्यविक्रमम अभ्यवादयद अव्यग्रॊ विनयेन कृताञ्जलिः इरावान अस्मि भद्रं ते पुत्रश चाहं तवाभिभॊ ॥ 11 ॥
मातुः समागमॊ यश च तत सर्वं परत्यवेदयत तच च सर्वं यथावृत्तम अनुसस्मार पाण्डवः ॥ 12 ॥
परिष्वज्य सुतं चापि सॊ ऽऽतमनः सदृशं गुणैः परीतिमान अभवत पार्थॊ देवराजनिवेशने ॥ 13 ॥
सॊ ऽरजुनेन समाज्ञप्तॊ देवलॊके तदा नृप परीतिपूर्वं महाबाहुः सवकार्यं परति भारत युद्धकाले तवयास्माकं साह्यं देयम इति परभॊ ॥ 14 ॥
बाढम इत्य एवम उक्त्वा च युद्धकाल उपागतः कामवर्णजवैर अश्वैः संवृतॊ बहुभिर नृप ॥ 15 ॥
ते हयाः काञ्चनापीडा नानावर्णा मनॊजवाः उत्पेतुः सहसा राजन हंसा इव महॊदधौ ॥ 16 ॥
ते तवदीयान समासाद्य हयसंघान महाजवान करॊडैः करॊडान अभिघ्नन्तॊ घॊणाभिश च परस्परम निपेतुः सहसा राजन सुवेगाभिहता भुवि ॥ 17 ॥
निपतद्भिस तथा तैश च हयसंघैः परस्परम शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा ॥ 18 ॥
तथैव च महाराज समेत्यान्यॊन्यम आहवे परस्परवधं घॊरं चक्रुस ते हयसादिनः ॥ 19 ॥
तस्मिंस तथा वर्तमाने संकुले तुमुले भृशम उभयॊर अपि संशान्ता हयसंघाः समन्ततः ॥ 20 ॥
परक्षीणसायकाः शूरा निहताश्वाः शरमातुराः विलयं समनुप्राप्तास तक्षमाणाः परस्परम ॥ 21 ॥
ततः कषीणे हयानीके किं चिच छेषे च भारत सौबलस्यात्मजाः शूरा निर्गता रणमूर्धनि ॥ 22 ॥
वायुवेगसमस्पर्शा जवे वायुसमांस तथा आरुह्य शीलसंपन्नान वयःस्थांस तुरगॊत्तमान ॥ 23 ॥
गजॊ गवाक्षॊ वृषकश चर्मवान आर्जवः शुकः षड एते बलसंपन्ना निर्ययुर महतॊ बलात ॥ 24 ॥
वार्यमाणाः शकुनिना सवैश च यॊधैर महाबलैः संनद्धा युद्धकुशला रौद्ररूपा महाबलाः ॥ 25 ॥
तद अनीकं महाबाहॊ भित्त्वा परमदुर्जयम बलेन महता युक्ताः सवर्गाय विजयैषिणः विविशुस ते तदा हृष्टा गान्धारा युद्धदुर्मदाः ॥ 26 ॥
तान परविष्टांस तदा दृष्ट्वा इरावान अपि वीर्यवान अब्रवीत समरे यॊधान विचित्राभरणायुधान ॥ 27 ॥
यथैते धार्तराष्ट्रस्य यॊधाः सानुगवाहनाः हन्यन्ते समरे सर्वे तथा नीतिर विधीयताम ॥ 28 ॥
बाढम इत्य एवम उक्त्वा ते सर्वे यॊधा इरावतः जघ्नुस ते वै परानीकं दुर्जयं समरे परैः ॥ 29 ॥
तद अनीकम अनीकेन समरे वीक्ष्य पातितम अमृष्यमाणास ते सर्वे सुबलस्यात्मजा रणे इरावन्तम अभिद्रुत्य सर्वतः पर्यवारयन ॥ 30 ॥
ताडयन्तः शितैः परासैश चॊदयन्तः परस्परम ते शूराः पर्यधावन्त कुर्वन्तॊ महद आकुलम ॥ 31 ॥
इरावान अथ निर्भिन्नः परासैस तीक्ष्णैर महात्मभिः सरवता रुधिरेणाक्तस तॊत्त्रैर विद्ध इव दविपः ॥ 32 ॥
उरस्य अपि च पृष्ठे च पार्श्वयॊश च भृशाहतः एकॊ बहुभिर इत्य अर्थं धैर्याद राजन न विव्यथे ॥ 33 ॥
इरावान अथ संक्रुद्धः सर्वांस तान निशितैः शरैः मॊहयाम आस समरे विद्ध्वा परपुरंजयः ॥ 34 ॥
परासान उद्धृत्य सर्वांश च सवशरीराद अरिंदमः तैर एव ताडयाम आस सुबलस्यात्मजान रणे ॥ 35 ॥
निवृष्य निशितं खड्गं गृहीत्वा च शरावरम पदातिस तूर्णम आगच्छज जिघांसुः सौबलान युधि ॥ 36 ॥
ततः परत्यागतप्राणाः सर्वे ते सुबलात्मजाः भूयः करॊधसमाविष्टा इरावन्तम अथाद्रवन ॥ 37 ॥
इरावान अपि खड्गेन दर्शयन पाणिलाघवम अभ्यवर्तत तान सर्वान सौबलान बलदर्पितः ॥ 38 ॥
लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः अन्तरं नाध्यगच्छन्त चरन्तः शीघ्रगामिनः ॥ 39 ॥
भूमिष्ठम अथ तं संख्ये संप्रदृश्य ततः पुनः परिवार्य भृशं सर्वे गरहीतुम उपचक्रमुः ॥ 40 ॥
अथाभ्याशगतानां स खड्गेनामित्रकर्शनः उपहस्तावहस्ताभ्यां तेषां गात्राण्य अकृन्तत ॥ 41 ॥
आयुधानि च सर्वेषां बाहून अपि च भूषितान अपतन्त निकृत्ताङ्गा गता भूमिं गतासवः ॥ 42 ॥
वृषकस तु महाराज बहुधा परिविक्षतः अमुच्यत महारौद्रात तस्माद वीरावकर्तनात ॥ 43 ॥
तान सर्वान पतितान दृष्ट्वा भीतॊ दुर्यॊधनस ततः अभ्यभाषत संक्रुद्धॊ राक्षसं घॊरदर्शनम ॥ 44 ॥
आर्श्यशृङ्गिं महेष्वासं मायाविनम अरिंदमम वैरिणं भीमसेनस्य पूर्वं बकवधेन वै ॥ 45 ॥
पश्य वीर यथा हय एष फल्गुनस्य सुतॊ बली मायावी विप्रियं घॊरम अकार्षीन मे बलक्षयम ॥ 46 ॥
तवं च कामगमस तात मायास्त्रे च विशारदः कृतवैरश च पार्थेन तस्माद एनं रणे जहि ॥ 47 ॥
बाढम इत्य एवम उक्त्वा तु राक्षसॊ घॊरदर्शनः परययौ सिंहनादेन यत्रार्जुनसुतॊ युवा ॥ 48 ॥
सवारूढैर युद्धकुशलैर विमलप्रासयॊधिभिः वीरैः परहारिभिर युक्तः सवैर अनीकैः समावृतः निहन्तुकामः समरे इरावन्तं महाबलम ॥ 49 ॥
इरावान अपि संक्रुद्धस तवरमाणः पराक्रमी हन्तुकामम अमित्रघ्नॊ राक्षसं परत्यवारयत ॥ 50 ॥
तम आपतन्तं संप्रेक्ष्य राक्षसः सुमहाबलः तवरमाणस ततॊ मायां परयॊक्तुम उपचक्रमे ॥ 51 ॥
तेन मायामयाः कॢप्ता हयास तावन्त एव हि सवारूढा राक्षसैर घॊरैः शूलपट्टिशपाणिभिः ॥ 52 ॥
ते संरब्धाः समागम्य दविसाहस्राः परहारिणः अचिराद गमयाम आसुः परेतलॊकं परस्परम ॥ 53 ॥
तस्मिंस तु निहते सैन्ये ताव उभौ युद्धदुर्मदौ संग्रामे वयवतिष्ठेतां यथा वै वृत्रवासवौ ॥ 54 ॥
आद्रवन्तम अभिप्रेक्ष्य राक्षसं युद्धदुर्मदम इरावान करॊधसंरब्धः परत्यधावन महाबलः ॥ 55 ॥
समभ्याशगतस्याजौ तस्य खड्गेन दुर्मतेः चिच्छेद कार्मुकं दीप्तं शरावापं च पञ्चकम ॥ 56 ॥
स निकृत्तं धनुर दृष्ट्वा खं जवेन समाविशत इरावन्तम अभिक्रुद्धं मॊहयन्न इव मायया ॥ 57 ॥
ततॊ ऽनतरिक्षम उत्पत्य इरावान अपि राक्षसम विमॊहयित्वा मायाभिस तस्य गात्राणि सायकैः चिच्छेद सर्वमर्मज्ञः कामरूपॊ दुरासदः ॥ 58 ॥
तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः संबभूव महाराज समवाप च यौवनम ॥ 59 ॥
माया हि सहजा तेषां वयॊ रूपं च कामजम एवं तद राक्षसस्याङ्गं छिन्नं छिन्नं वयरॊहत ॥ 60 ॥
इरावान अपि संक्रुद्धॊ राक्षसं तं महाबलम परश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः ॥ 61 ॥
स तेन बलिना वीरश छिद्यमान इव दरुमः राक्षसॊ वयनदद घॊरं स शब्दस तुमुलॊ ऽभवत ॥ 62 ॥
परश्वधक्षतं रक्षः सुस्राव रुधिरं बहु ततश चुक्रॊध बलवांश चक्रे वेगं च संयुगे ॥ 63 ॥
आर्श्यशृङ्गिस ततॊ दृष्ट्वा समरे शत्रुम ऊर्जितम कृत्वा घॊरं महद रूपं गरहीतुम उपचक्रमे संग्रामशिरसॊ मध्ये सर्वेषां तत्र पश्यताम ॥ 64 ॥
तां दृष्ट्वा तादृशीं मायां राक्षसस्य महात्मनः इरावान अपि संक्रुद्धॊ मायां सरष्टुं परचक्रमे ॥ 65 ॥
तस्य करॊधाभिभूतस्य संयुगेष्व अनिवर्तिनः यॊ ऽनवयॊ मातृकस तस्य स एनम अभिपेदिवान ॥ 66 ॥
स नागैर बहुशॊ राजन सर्वतः संवृतॊ रणे दधार सुमहद रूपम अनन्त इव भॊगवान ततॊ बहुविधैर नागैश छादयाम आस राक्षसम ॥ 67 ॥
छाद्यमानस तु नागैः स धयात्वा राक्षसपुंगवः सौपर्णं रूपम आस्थाय भक्षयाम आस पन्नगान ॥ 68 ॥
मायया भक्षिते तस्मिन्न अन्वये तस्य मातृके विमॊहितम इरावन्तम असिना राक्षसॊ ऽवधीत ॥ 69 ॥
सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम इरावतः शिरॊ रक्षः पातयाम आस भूतले ॥ 70 ॥
तस्मिंस तु निहते वीरे राक्षसेनार्जुनात्मजे विशॊकाः समपद्यन्त धार्तराष्ट्राः सराजकाः ॥ 71 ॥
तस्मिन महति संग्रामे तादृशे भैरवे पुनः महान वयतिकरॊ घॊरः सेनयॊः समपद्यत ॥ 72 ॥
हया गजाः पदाताश च विमिश्रा दन्तिभिर हताः रथाश च दन्तिनश चैव पत्तिभिस तत्र सूदिताः ॥ 73 ॥
तथा पत्तिरथौघाश च हयाश च बहवॊ रणे रथिभिर निहता राजंस तव तेषां च संकुले ॥ 74 ॥
अजानन्न अर्जुनश चापि निहतं पुत्रम औरसम जघान समरे शूरान राज्ञस तान भीष्मरक्षिणः ॥ 75 ॥
तथैव तावका राजन सृञ्जयाश च महाबलाः जुह्वतः समरे पराणान निजघ्नुर इतरेतरम ॥ 76 ॥
मुक्तकेशा विकवचा विरथाश छिन्नकार्मुकाः बाहुभिः समयुध्यन्त समवेताः परस्परम ॥ 77 ॥
तथा मर्मातिगैर भीष्मॊ निजघान महारथान कम्पयन समरे सेनां पाण्डवानां महाबलः ॥ 78 ॥
तेन यौधिष्ठिरे सैन्ये बहवॊ मानवा हताः दन्तिनः सादिनश चैव रथिनॊ ऽथ हयास तथा ॥ 79 ॥
तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम अत्यद्भुतम अपश्याम शक्रस्येव पराक्रमम ॥ 80 ॥
तथैव भीमसेनस्य पार्षतस्य च भारत रौद्रम आसीत तदा युद्धं सात्वतस्य च धन्विनः ॥ 81 ॥
दृष्ट्वा दरॊणस्य विक्रान्तं पाण्डवान भयम आविशत एक एव रणे शक्तॊ हन्तुम अस्मान स सैनिकान ॥ 82 ॥
किं पुनः पृथिवी शूरैर यॊधव्रातैः समावृतः इत्य अब्रुवन महाराज रणे दरॊणेन पीडिताः ॥ 83 ॥
वर्तमाने तथा रौद्रे संग्रामे भरतर्षभ उभयॊः सेनयॊः शूरा नामृष्यन्त परस्परम ॥ 84 ॥
आविष्टा इव युध्यन्ते रक्षॊभूता महाबलाः तावकाः पाण्डवेयाश च संरब्धास तात धन्विनः ॥ 85 ॥
न सम पश्यामहे कं चिद यः पराणान परिरक्षति संग्रामे दैत्यसंकाशे तस्मिन यॊद्धा नराधिप ॥ 86 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 86
Reach this point to mark the section finished.
Continue to अध्याय 87