[स] परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः कुरवः पाण्डवाश चैव पुनर युद्धाय निर्ययुः ॥ 1 ॥
ततः शब्दॊ महान आसीत सेनयॊर उभयॊर अपि निर्गच्छमानयॊर संख्ये सागरप्रतिमॊ महान ॥ 2 ॥
ततॊ दुर्यॊधनॊ राजा चित्रसेनॊ विविंशतिः भीष्मश च रथिनां शरेष्ठॊ भारद्वाजश च वै दविजः ॥ 3 ॥
एकीभूताः सुसंयत्ताः कौरवाणां महाचमूः वयूहाय विदधू राजन पाण्डवान परति दंशिताः ॥ 4 ॥
भीष्मः कृत्वा महाव्यूहं पिता तव विशां पते सागरप्रतिमं घॊरं वाहनॊर्मितरङ्गिणम ॥ 5 ॥
अग्रतः सर्वसैन्यानां भीष्मः शांतनवॊ ययौ मालवैर दाक्षिणात्यैश च आवन्त्यैश च समन्वितः ॥ 6 ॥
ततॊ ऽनन्तरम एवासीद भारद्वाजः परतापवान पुलिन्दैः पारदैश चैव तथा कषुद्रकमालवैः ॥ 7 ॥
दरॊणाद अनन्तरं यत्तॊ भगदत्तः परतापवान मागधैश च कलिङ्गैश च पिशाचैश च विशां पते ॥ 8 ॥
पराग्ज्यॊतिषाद अनु नृपः कौसल्यॊ ऽथ बृहद्बलः मेकलैस तरैपुरैश चैव चिच्छिलैश च समन्वितः ॥ 9 ॥
बृहद्बलात ततः शूरस तरिगर्तः परस्थलाधिपः काम्बॊजैर बहुभिः सार्धं यवनैश च सहस्रशः ॥ 10 ॥
दरौणिस तु रभसः शूरस तरिगर्ताद अनु भारत परययौ सिंहनादेन नादयानॊ धरातलम ॥ 11 ॥
तथा सर्वेण सैन्येन राजा दुर्यॊधनस तदा दरौणेर अनन्तरं परायात सॊदर्यैः परिवारितः ॥ 12 ॥
दुर्यॊधनाद अनु कृपस ततः शारद्वतॊ ययौ एवम एष महाव्यूहः परययौ सागरॊपमः ॥ 13 ॥
रेजुस तत्र पताकाश च शवेतच छत्राणि चाभिभॊ अङ्गदान्य अथ चित्राणि महार्हाणि धनूंषि च ॥ 14 ॥
तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः युधिष्ठिरॊ ऽबरवीत तूर्णं पार्षतं पृतना पतिम ॥ 15 ॥
पश्य वयूहं महेष्वास निर्मितं सागरॊपमम परतिव्यूहं तवम अपि हि कुरु पार्षत माचिरम ॥ 16 ॥
ततः स पार्षतः शूरॊ वयूहं चक्रे सुदारुणम शृङ्गाटलं महाराज परव्यूहविनाशनम ॥ 17 ॥
शृङ्गेभ्यॊ भीमसेनश च सात्यक्तिश च महारथः रथैर अनेकसाहस्रैस तथा हयपदातिभिः ॥ 18 ॥
नाभ्याम अभून नरश्रेष्ठः शवेताश्वॊ वानरध्वजः मध्ये युधिष्ठिरॊ राजा माद्रीपुत्रौ च पाण्डवौ ॥ 19 ॥
अथेतरे महेष्वासाः सह सैन्या नराधिपाः वयूहं तं पूरयाम आसुर वयूह शास्त्रविशारदाः ॥ 20 ॥
अभिमन्युस ततः पश्चाद विराटश च महारथः दरौपदेयाश च संहृष्टा राक्षसश च घटॊत्कचः ॥ 21 ॥
एवम एतं महाव्यूहं वयूह्य भारत पाण्डवाः अतिष्ठन समरे शूरा यॊद्धुकामा जयैषिणः ॥ 22 ॥
भेरीशब्दाश च तुमुला विमिश्राः शङ्खनिस्वनैः कष्वेडितास्फॊटितॊत्क्रुष्टैः सुभीमाः सर्वतॊदिशम ॥ 23 ॥
ततः शूराः समासाद्य समरे ते परस्परम नेत्रैर अनिमिशै राजन्न अवैक्षन्त परकॊपिताः ॥ 24 ॥
मनॊभिस ते मनुष्येन्द्र पूर्वं यॊधाः परस्परम युद्धाय समवर्तन्त समाहूयेतरेतरम ॥ 25 ॥
ततः परववृते युद्धं घॊररूपं भयावहम तावकानां परेषां च निघ्नताम इतरेतरम ॥ 26 ॥
नाराचा निशिताः संख्ये संपतन्ति सम भारत वयात्तानना भयकरा उरगा इव संघशः ॥ 27 ॥
निष्पेतुर विमलाः शक्त्यस तैलधौताः सुतेजनाः अम्बुदेभ्यॊ यथा राजन भराजमानाः शतह्रदाह ॥ 28 ॥
गदाश च विमलैः पट्टैः पिनद्धाः सवर्णभूषिताः पतन्त्यस तत्र दृश्यन्ते गिरिशृङ्गॊपमाः शुभाः निस्त्रिंशाश च वयराजन्त विमलाम्बरसंनिभाः ॥ 29 ॥
आर्षभाणि च चर्माणि शतचन्द्राणि भारत अशॊभन्त रणे राजन पतमानानि सर्वशः ॥ 30 ॥
ते ऽनयॊन्यं समरे सेने युध्यमाने नराधिप अशॊभेतां यथा दैत्य देव सेने समुद्यते अभ्यद्रवन्त समरे ते ऽनयॊन्यं वै समन्ततः ॥ 31 ॥
रथास तु रथिभिस तूर्णं परेषिताः परमाहवे युगैर युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः ॥ 32 ॥
दन्तिनां युध्यमानानां संघर्षात पावकॊ ऽभवत दन्तेषु भरतश्रेष्ठ स धूमः सर्वतॊदिशम ॥ 33 ॥
परासैर अभिहताः के चिद गजयॊधाः समन्ततः पतमानाः सम दृश्यन्ते गिरिशृङ्गान नगा इव ॥ 34 ॥
पादाताश चाप्य अदृश्यन्त निघ्नन्तॊ हि परस्परम चित्ररूपधराः शूरा नखरप्रासयॊधिनः ॥ 35 ॥
अन्यॊन्यं ते समासाद्य कुरुपाण्डवसैनिकाः शस्त्रैर नानाविधैर घॊरै रणे निन्युर यमक्षयम ॥ 36 ॥
ततः शांतनवॊ भीष्मॊ रथघॊषेण नादयन अभ्यागमद रणे पाण्डून धनुः शब्देन मॊहयन ॥ 37 ॥
पाण्डवानां रथाश चापि नदन्तॊ भैरवस्वनम अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरॊगमाः ॥ 38 ॥
ततः परववृते युद्धं तव तेषां च भारत नराश्वरथनागानां वयतिषक्तं परस्परम ॥ 39 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 83
Reach this point to mark the section finished.
Continue to अध्याय 84