[धृ] उक्तॊ दवीपस्य संक्षेपॊ विस्तरं बरूहि संजय यावद भूम्यवकाशॊ ऽयं दृश्यते शशलक्षणे तस्य परमाणं परब्रूहि ततॊ वक्ष्यसि पिप्पलम ॥ 1 ॥
[व] एवम उक्तः स राज्ञा तु संजयॊ वाक्यम अब्रवीत पराग आयता महाराज षड एते रत्नपर्वताः अवगाढा हय उभयतः समुद्रौ पूर्वपश्चिमौ ॥ 2 ॥
हिमवान हेमकूटश च निषधश च नगॊत्तमः नीलश च वैडूर्यमयः शवेतश च रजतप्रभः सर्वधातुविनद्धश च शृङ्गवान नाम पर्वतः ॥ 3 ॥
एते वै पर्वता राजन सिद्धचारणसेविताः तेषाम अन्तरविष्कम्भॊ यॊजनानि सहस्रशः ॥ 4 ॥
तत्र पुण्या जनपदास तानि वर्षाणि भारत वसन्ति तेषु सत्त्वानि नाना जातीनि सर्वशः ॥ 5 ॥
इदं तु भारतं वर्षं ततॊ हैमवतं परम हेमकूटात परं चैव हरिवर्षं परचक्षते ॥ 6 ॥
दक्षिणेन तु नीलस्य निषधस्यॊत्तरेण च पराग आयतॊ महाराज माल्यवान नाम पर्वतः ॥ 7 ॥
ततः परं माल्यवतः पर्वतॊ गन्धमादनः परिमण्डलस तयॊर मध्ये मेरुः कनकपर्वतः ॥ 8 ॥
आदित्यतरुणाभासॊ विधूम इव पावकः यॊजनानां सहस्राणि षॊडशाधः किल समृतः ॥ 9 ॥
उच्चैश च चतुराशीतिर यॊजनानां महीपते ऊर्ध्वम अन्तश च तिर्यक च लॊकान आवृत्य तिष्ठति ॥ 10 ॥
तस्य पार्श्वे तव इमे दवीपाश चत्वारः संस्थिताः परभॊ भद्राश्वः केतुमालश च जम्बूद्वीपश च भारत उत्तराश चैव कुरवः कृतपुण्यप्रतिश्रयाः ॥ 11 ॥
विहगः सुमुखॊ यत्र सुपर्णस्यात्मजः किल स वै विचिन्तयाम आस सौवर्णान परेक्ष्य वायसान ॥ 12 ॥
मेरुर उत्तममध्यानाम अधमानां च पक्षिणाम अविशेष करॊ यस्मात तस्माद एनं तयजाम्य अहम ॥ 13 ॥
तम आदित्यॊ ऽनुपर्येति सततं जयॊतिषां पतिः चन्द्रमाश च स नक्षत्रॊ वायुश चैव परदक्षिणम ॥ 14 ॥
स पर्वतॊ महाराज दिव्यपुष्पफलान्वितः भवनैर आवृतः सर्वैर जाम्बूनदमयैः शुभैः ॥ 15 ॥
तत्र देवगणा राजन गन्धर्वासुरराक्षसाः अप्सरॊगणसंयुक्ताः शैले करीडन्ति नित्यशः ॥ 16 ॥
तत्र बरह्मा च रुद्रश च शक्रश चापि सुरेश्वरः समेत्य विविधैर यज्ञैर यजन्ते ऽनेकदक्षिणैः ॥ 17 ॥
तुम्बुरुर नारदश चैव विश्वावसुर हहाहुहूः अभिगम्यामर शरेष्ठाः सतवै सतुन्वन्ति चाभिभॊ ॥ 18 ॥
सप्तर्षयॊ महात्मानः कश्यपश च परजापतिः तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि ॥ 19 ॥
तस्यैव मूर्धन्य उशनाः काव्यॊ दैत्यैर महीपते तस्य हीमानि रत्नानि तस्येमे रत्नपर्वताः ॥ 20 ॥
तस्मात कुबेरॊ भगवांश चतुर्थं भागम अश्नुते ततः कलांशं वित्तस्य मनुष्येभ्यः परयच्छति ॥ 21 ॥
पार्श्वे तस्यॊत्तरे दिव्यं सर्वर्तुकुसुमं शिवम कर्णिकारवनं रम्यं शिला जालसमुद्गतम ॥ 22 ॥
तत्र साक्षात पशुपतिर दिव्यैर भूतैः समावृतः उमा सहायॊ भगवान रमते भूतभावनः ॥ 23 ॥
कर्णिकारमयीं मालां बिभ्रत पादावलम्बिनीम तरिभिर नेत्रैः कृतॊद्द्यॊतस तरिभिः सूर्यैर इवॊदितैः ॥ 24 ॥
तम उग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः पश्यन्ति न हि दुर्वृत्तैः शक्यॊ दरष्टुं महेश्वरः ॥ 25 ॥
तस्य शैलस्य शिखरात कषीरधारा नरेश्वर तरिंशद बाहुपरिग्राह्या भीम निर्घत निस्वना ॥ 26 ॥
पुण्या पुण्यतमैर जुष्टा गङ्गा भागीरथी शुभा पतत्य अजस्र वेगेन हरदे चान्द्रमसे शुभे तया हय उत्पादितः पुण्यः स हरदः सागरॊपमः ॥ 27 ॥
तां धारयाम आस पुरा दुर्धरां पर्वतैर अपि शतं वर्षसहस्राणां शिरसा वै महेश्वरः ॥ 28 ॥
मेरॊस तु पश्चिमे पार्श्वे केतुमालॊ महीपते जम्बू षण्डश च तत्रैव सुमहान नन्दनॊपमः ॥ 29 ॥
आयुर दशसहस्राणि वर्षाणां तत्र भारत सुवर्णवर्णाश च नराः सत्रियश चाप्सरसॊपमाः ॥ 30 ॥
अनामया वीतशॊका नित्यं मुदितमानसाः जायन्ते मानवास तत्र निष्टप्त कनकप्रभाः ॥ 31 ॥
गन्धमादन शृङ्गेषु कुबेरः सह राक्षसैः संवृतॊ ऽपसरसां संघैर मॊदते गुह्यकाधिपः ॥ 32 ॥
गन्धमादन पादेषु परेष्व अपरगण्डिकाः एकादश सहस्राणि वर्षाणां परमायुषः ॥ 33 ॥
तत्र कृष्णा नरा राजंस तेजॊयुक्ता महाबलाः सत्रियश चॊत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः ॥ 34 ॥
नीलॊत्परतरं शवेतं शवेताद धैरण्यकं परम वर्षम ऐरावतं नाम ततः शृङ्गवतः परम ॥ 35 ॥
धनुःसंस्थे महाराज दवे वर्षे दक्षिणॊत्तरे इला वृतं मध्यमं तु पञ्चवर्षाणि चैव ह ॥ 36 ॥
उत्तरॊत्तरम एतेभ्यॊ वर्षम उद्रिच्यते गुणैः आयुष परमाणम आरॊग्यं धर्मतः कामतॊ ऽरथतः ॥ 37 ॥
समन्वितानि भूतानि तेषु वर्षेषु भारत एवम एषा महाराज पर्वतैः पृथिवी चिता ॥ 38 ॥
हेमकूटस तु सुमहान कैलासॊ नाम पर्वतः यत्र वैश्रवणॊ राजा गुह्यकैः सह मॊदते ॥ 39 ॥
अस्त्य उत्तरेण कैलासं मैनाकं पर्वतं परति हिरण्यशृङ्गः सुमहान दिव्यॊ मणिमयॊ गिरिः ॥ 40 ॥
तस्य पार्श्वे महद दिव्यं शुभं काञ्चनवालुकम रम्यं बिन्दुसरॊ नाम यत्र राजा भगीरथः दृष्ट्वा भागीरथीं गङ्गाम उवास बहुलाः समाः ॥ 41 ॥
यूपा मणिमयास तत्र चित्याश चापि हिरण्मयाः तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षॊ महायशाः ॥ 42 ॥
सृष्ट्वा भूतपतिर यत्र सर्वलॊकान सनातनः उपास्यते तिग्मतेजा वृतॊ भूतैः समागतैः नरनारायणौ बरह्मा मनुः सथाणुश च पञ्चमः ॥ 43 ॥
तत्र तरिपथगा देवी परथमं तु परतिष्ठिता बरह्मलॊकाद अपक्रान्ता सप्तधा परतिपद्यते ॥ 44 ॥
वस्व ओक सारा नलिनी पावना च सरस्वती जम्बूनदी च सीता च गङ्गा सिन्धुश च सप्तमी ॥ 45 ॥
अचिन्त्या दिव्यसंकल्पा परभॊर एषैव संविधिः उपासते यत्र सत्रं सहस्रयुगपर्यये ॥ 46 ॥
दृश्यादृश्या च भवति तत्र तत्र सरस्वती एता दिव्याः सप्त गङ्गास तरिषु लॊकेषु विश्रुताः ॥ 47 ॥
रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः सर्पा नागाश च निषधे गॊकर्णे च तपॊधनाः ॥ 48 ॥
देवासुराणां च गृहं शवेतः पर्वत उच्यते गन्धर्वा निषधे शैले नीले बरह्मर्षयॊ नृप शृङ्गवांस तु महाराज पितॄणां परतिसंचरः ॥ 49 ॥
इत्य एतानि महाराज सप्त वर्षाणि भागशः भूतान्य उपनिविष्टानि गतिमन्ति धरुवाणि च ॥ 50 ॥
तेषाम ऋद्धिर बहुविधा दृश्यते दैवमानुषी अशक्या परिसंख्यातुं शरद्धेया तु बुभूषता ॥ 51 ॥
यां तु पृच्छसि मा राजन दिव्याम एतां शशाकृतिम पार्श्वे शशस्य दवे वर्षे उभये दक्षिणॊत्तरे कर्णौ तु नागद्वीपं च कश्यप दवीपम एव च ॥ 52 ॥
ताम्रवर्णः शिरॊ राजञ शरीमान मलयपर्वतः एतद दवितीयं दवीपस्य दृश्यते शशसंस्थितम ॥ 53 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 7
Reach this point to mark the section finished.
Continue to अध्याय 8