[धृ] बहूनीह विचित्राणि दवैरथानि सम संजय पाण्डूनां मामकैः सार्धम अश्रौषं तव जल्पतः ॥ 1 ॥
न चैव मामकं कं चिद धृष्टं शंससि संजय नित्यं पाण्डुसुतान हृष्टान अभग्नांश चैव शंससि ॥ 2 ॥
जीयमानान विमनसॊ मामकान विगतौजसः वदसे संयुगे सूत दिष्टम एतद असंशयम ॥ 3 ॥
[स] यथाशक्ति यथॊत्साहं युद्धे चेष्टन्ति तावकाः दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ ॥ 4 ॥
गङ्गायाः सुरनद्या वै सवादु भूतं यथॊदकम महॊदधि गुणाभ्यासाल लवणत्वं निगच्छति ॥ 5 ॥
तथा तत पौरुषं राजंस तावकानां महात्मनाम पराप्य पाण्डुसुतान वीरान वयर्थं भवति संयुगे ॥ 6 ॥
घटमानान यथाशक्ति कुर्वाणान कर्म दुष्करम न दॊषेण कुरुश्रेष्ठ कौरवान गन्तुम अर्हसि ॥ 7 ॥
तवापराधात सुमहान सपुत्रस्य विशां पते पृथिव्याः परक्षयॊ घॊरॊ यम राष्ट्रविवर्धनः ॥ 8 ॥
आत्मदॊषात समुत्पन्नं शॊचितुं नार्हसे नृप न हि रक्षन्ति राजानः सर्वार्थान नापि जीवितम ॥ 9 ॥
युद्धे सुकृतिनां लॊकान इच्छन्तॊ वसुधाधिपाः चमूं विगाह्य युध्यन्ते नित्यं सवर्गपरायणाः ॥ 10 ॥
पूर्वाह्णे तु महाराज परावर्तत जनक्षयः तन ममैकमना भूत्वा शृणु देवासुरॊपमम ॥ 11 ॥
आवन्त्यौ तु महेष्वासौ महात्मानौ महाबलौ इरावन्तम अभिप्रेक्ष्य समेयातां रणॊत्कटौ तेषां परववृते युद्धं तुमुलं लॊमहर्षणम ॥ 12 ॥
इरावांस तु सुसंक्रुद्धॊ भरातरौ देवरूपिणौ विव्याध निशितैस तूर्णं शरैः संनतपर्वभिः ताव एनं परत्यविध्येतां समरे चित्रयॊधिनौ ॥ 13 ॥
युध्यतां हि तथा राजन विशेषॊ न वयदृश्यत यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम ॥ 14 ॥
इरावांस तु ततॊ राजन्न अनुविन्दस्य सायकैः चतुर्भिश चतुरॊ वाहान अनयद यमसादनम ॥ 15 ॥
भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष चिच्छेद समरे राजंस तद अद्भुतम इवाभवत ॥ 16 ॥
तयक्त्वानुविन्दॊ ऽथ रथं विन्दस्य रथम आस्थितः धनुर गृहीत्वा नवमं भारसाधनम उत्तमम ॥ 17 ॥
ताव एकस्थौ रणे वीराव आवन्त्यौ रथिनां वरौ शरान मुमुचतुस तूर्णम इरावति महात्मनि ॥ 18 ॥
ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः दिवाकरपथं पराप्य छादयाम आसुर अम्बरम ॥ 19 ॥
इरावांस तु ततः करुद्धॊ भरातरौ तौ महारथौ ववर्ष शरवर्षेण सारथिं चाप्य अपातयत ॥ 20 ॥
तस्मिन निपतिते भूमौ गतसत्त्वे ऽथ सारथौ रथः परदुद्राव दिशः समुद्भ्रान्त हयस ततः ॥ 21 ॥
तौ स जित्वा महाराज नागराजसुता सुतः पौरुषं खयापयंस तूर्णं वयधमत तव वाहिनीम ॥ 22 ॥
सा वध्यमाना समरे धार्तराष्ट्री महाचमूः वेगान बहुविधांश चक्रे विषं पीत्वेव मानवः ॥ 23 ॥
हैडिम्बॊ राक्षसेन्द्रस तु भगदत्तं समाद्रवत रथेनादित्यवर्णेन स धवजेन महाबलः ॥ 24 ॥
ततः पराग्ज्यॊतिषॊ राजा नागराजं समास्थितः यथा वज्रधरः पूर्वं संग्रमे तारकामये ॥ 25 ॥
ततर देवाः स गन्धर्वा ऋषयश च समागताः विशेषं न सम विविदुर हैडिम्ब भगदत्तयॊः ॥ 26 ॥
यथा सुरपतिः शक्रस तरासयाम आस दानवान तथैव समरे राजंस तरासयाम आस पाण्डवान ॥ 27 ॥
तेन विद्राव्यमाणास ते पाण्डवाः सर्वतॊदिशम तरातारं नाभ्यविन्दन्त सवेष्व अनीकेषु भारत ॥ 28 ॥
भैमसेनिं रथस्थं तु तत्रापश्याम भारत शेषा विमनसॊ भूत्वा पराद्रवन्त महारथाः ॥ 29 ॥
निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत आसीन निष्टानकॊ घॊरस तव सैन्येषु संयुगे ॥ 30 ॥
घटॊत्कचस ततॊ राजन भगदत्तं महारणे शरैः परच्छादयाम आस मेरुं गिरिम इवाम्बुदः ॥ 31 ॥
निहत्य ताञ शरान राजा राक्षसस्य धनुश्च्युतान भैमसेनिं रणे तूर्णं सर्वमर्मस्व अताडयत ॥ 32 ॥
स ताड्यमानॊ बहुभिः शरैः संनतपर्वभिः न विव्यथे राक्षसेन्द्रॊ भिद्यमान इवाचलः ॥ 33 ॥
तस्य पराग्ज्यॊतिषः करुद्धस तॊमरान स चतुर्दश परेषयाम आस समरे तांश च चिच्छेद राक्षसः ॥ 34 ॥
स तांश छित्त्वा महाबाहुस तॊमरान निशितैः शरैः भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः ॥ 35 ॥
ततः पराग्ज्यॊतिषॊ राजन परहसन्न इव भारत तस्याश्वांश चतुरः संख्ये पातयाम आस सायकैः ॥ 36 ॥
स हताश्वे रथे तिष्ठन राक्षसेन्द्रः परतापवान शक्तिं चिक्षेप वेगेन पराग्ज्यॊतिष गजं परति ॥ 37 ॥
ताम आपतन्तीं सहसा हेमदण्डां सुवेगिनाम तरिधा चिच्छेद नृपतिः सा वयकीर्यत मेदिनीम ॥ 38 ॥
शक्तिं विनिहतां दृष्ट्वा हैडिम्बः पराद्रवद भयात यथेन्द्रस्य रणात पूर्वं नमुचिर दैत्य सत्तमः ॥ 39 ॥
तं विजित्य रणे शूरं विक्रान्तं खयातपौरुषम अजेयं समरे राजन यमेन वरुणेन च ॥ 40 ॥
पाण्डवीं समरे सेनां संममर्द स कुञ्जरः यथा वनगजॊ राजन मृद्गंश चरति पद्मिनीम ॥ 41 ॥
मद्रेश्वरस तु समरे यमाभ्यां सह संगतः सवस्रीयौ छादयां चक्रे शरौघैः पाण्डुनन्दनौ ॥ 42 ॥
सहदेवस तु समरे मातुलं वीक्ष्य संगतम अवारयच छरौघेण मेघॊ यद्वद दिवाकरम ॥ 43 ॥
छाद्यमानः शरौघेण हृष्टरूपतरॊ ऽभवत तयॊश चाप्य अभवत परीतिर अतुला मातृकारणात ॥ 44 ॥
ततः परहस्य समरे नकुलस्य महारथः अश्वान वै चतुरॊ राजंश चतुर्भिः सायकॊत्तमैः परेषयाम आस समरे यमस्य सदनं परति ॥ 45 ॥
हयाश्वात तु रथात तूर्णम अवप्लुत्य महारथः आरुरॊह ततॊ हानं भरातुर एव यशस्विनः ॥ 46 ॥
एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके मद्रराजरथं करुद्धौ छादयाम आसतुः कषणात ॥ 47 ॥
स चछाद्यमानॊ बहुभिः शरैः संनतपर्वभिः सवस्रीयाभ्यां नरव्याघ्रॊ नाकम्पत यथाचलः परहसन्न इव तां चापि शरवृष्टिं जघान ह ॥ 48 ॥
सहदेवस ततः करुद्धः शरम उद्यम्य वीर्यवान मद्रराजम अभिप्रेक्ष्य परेषयाम आस भारत ॥ 49 ॥
स शरः परेषितस तेन गरुत्मान इव वेगवान मद्रराजं विनिर्भिद्य निपपात महीतले ॥ 50 ॥
स गाढविद्धॊ वयथितॊ रथॊपस्थे महारथः निषसाद महाराज कश्मलं च जगाम ह ॥ 51 ॥
तं विसंज्ञं निपतितं सूतः संप्रेक्ष्य संयुगे अपॊवाह रथेनाजौ यमाभ्याम अभिपीडितम ॥ 52 ॥
दृट्ष्वा मद्रेश्वर रथं धार्तराष्ट्राः पराङ्मुखम सर्वे विमनसॊ भूत्वा नेदम अस्तीत्य अचिन्तयन ॥ 53 ॥
निर्जित्य मातुलं संख्ये माद्रीपुत्रौ महारथौ दध्मतुर मुदितौ शङ्खौ सिंहनादं विनेदतुः ॥ 54 ॥
अभिदुद्रुवतुर हृष्टौ तव सैन्यं विशां पते यथा दैत्य चमूं राजन्न इन्द्रॊपेन्द्राव इवामरौ ॥ 55 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 79
Reach this point to mark the section finished.
Continue to अध्याय 80