संजय उवाच तथा परवृत्ते संग्रामे निवृत्ते च सुशर्मणि परभग्नेषु च वीरेषु पाण्डवेन महात्मना ॥ 1 ॥
कषुभ्यमाणे बले तूर्णं सागरप्रतिमे तव परत्युद्याते च गाङ्गेये तवरितं विजयं परति ॥ 2 ॥
दृष्ट्वा दुर्यॊधनॊ राजन रणे पार्थस्य विक्रमम तवरमाणः समभ्येत्य सर्वांस तान अब्रवीन नृपान ॥ 3 ॥
तेषां च परमुखे शूरं सुशर्माणं महाबलम मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन वचः ॥ 4 ॥
एष भीष्मः शांतनवॊ यॊद्धुकामॊ धनंजयम सर्वात्मना कुरुश्रेष्ठस तयक्त्वा जीवितम आत्मनः ॥ 5 ॥
तं परयान्तं परानीकं सर्वसैन्येन भारतम संयत्ताः समरे सर्वे पालयध्वं पितामहम ॥ 6 ॥
बाढम इत्य एवम उक्त्वा तु तान्य अनीकानि सर्वशः नरेन्द्राणां महाराज समाजग्मुः पितामहम ॥ 7 ॥
ततः परयातः सहसा भीष्मः शांतनवॊ ऽरजुनम रणे भारतम आयान्तम आससाद महाबलम ॥ 8 ॥
महाश्वेताश्वयुक्तेन भीम वानरकेतुना महता मेघनादेन रथेनाति विराजत ॥ 9 ॥
समरे सर्वसैन्यानाम उपयातं धनंजयम अभवत तुमुलॊ नादॊ भयाद दृष्ट्वा किरीटिनम ॥ 10 ॥
अभीशु हस्तं कृष्णं च दृष्ट्वादित्यम इवापरम मध्यंदिन गतं संख्ये न शेकुः परतिवीक्षितुम ॥ 11 ॥
तथा शांतनवं भीष्मं शवेताश्वं शवेतकार्मुकम न शेकुः पाण्डवा दरष्टुं शवेतग्रहम इवॊदितम ॥ 12 ॥
स सर्वतः परिवृतस तरिगर्तैः सुमहात्मभिः भरातृभिस तव पुत्रैश च तथान्यैश च महारथैः ॥ 13 ॥
भारद्वाजस तु समरे मत्स्यं विव्याध पत्रिणा धवजं चास्य शरेणाजौ धनुश चैकेन चिच्छिदे ॥ 14 ॥
तद अपास्य धनुश छिन्नं विराटॊ वाहिनीपतिः अन्यद आदत्त वेगेन धनुर भारसहं दृढम शरांश चाशीविषाकाराञ जवलितान पन्नगान इव ॥ 15 ॥
दरॊणं तरिभिः परविव्याध चतुर्भिश चास्य वाजिनः धवजम एकेन विव्याध सारथिं चास्य पञ्चभिः धनुर एकेषुणाविध्यत तत्राक्रुध्यद दविजर्षभः ॥ 16 ॥
तस्य दरॊणॊ ऽवधीद अश्वाञ शरैः संनतपर्वभिः अष्टाभिर भरतश्रेष्ठ सूतम एकेन पत्रिणा ॥ 17 ॥
स हताश्वाद अवप्लुत्य सयन्दनाद धतसारथिः आरुरॊह रथं तूर्णं शङ्खस्य रथिनां वरः ॥ 18 ॥
ततस तु तौ पिता पुत्रौ भारद्वाजं रथे सथितौ महता शरवर्षेण वारयाम आसतुर बलात ॥ 19 ॥
भारद्वाजस ततः करुद्धः शरम आशीविषॊपमम चिक्षेप समरे तूर्णं शङ्खं परति जनेश्वर ॥ 20 ॥
स तस्य हृदयं भित्त्वा पीत्वा शॊणितम आहवे जगाम धरणिं बाणॊ लॊहितार्द्रीकृतच्छविः ॥ 21 ॥
स पपात रथात तूर्णं भारद्वाजशराहतः धनुस तयक्त्वा शरांश चैव पितुर एव समीपतः ॥ 22 ॥
हतं सवम आत्मजं दृष्ट्वा विराटः पराद्रवद भयात उत्सृज्य समरे दरॊणं वयात्ताननम इवान्तकम ॥ 23 ॥
भारद्वाजस ततस तूर्णं पाण्डवानां महाचमूम दारयाम आस समरे शतशॊ ऽथ सहस्रशः ॥ 24 ॥
शिखण्ड्य अपि महाराज दरौणिम आसाद्य संयुगे आजघान भरुवॊर मध्ये नाराचैस तरिभिर आशुगैः ॥ 25 ॥
स बभौ नरशार्दूलॊ ललाटे संस्थितैस तरिभिः शिखरैः काञ्चनमयैर मेरुस तरिभिर इवॊच्छ्रितैः ॥ 26 ॥
अश्वत्थामा ततः करुद्धॊ निमेषार्धाच छिखण्डिनः सूतं धवजम अथॊ राजंस तुरगान आयुधं तथा शरैर बहुभिर उद्दिश्य पातयाम आस संयुगे ॥ 27 ॥
स हताश्वाद अवप्लुत्य रथाद वै रथिनां वरः खड्गम आदाय निशितं विमलं च शरावरम शयेनवद वयचरत करुद्धः शिखण्डी शत्रुतापनः ॥ 28 ॥
स खड्गस्य महाराज चरतस तस्य संयुगे नान्तरं ददृशे दरौणिस तद अद्भुतम इवाभवत ॥ 29 ॥
ततः शरसहस्राणि बहूनि भरतर्षभ परेषयाम आस समरे दरौणिः परमकॊपनः ॥ 30 ॥
ताम आपतन्तीं समरे शरवृष्टिं सुदारुणाम असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः ॥ 31 ॥
ततॊ ऽसय विमलं दरौणिः शतचन्द्रं मनॊरमम चर्माच्छिनद असिं चास्य खण्डयाम आस संयुगे शितैः सुबहुशॊ राजंस तं च विव्याध पत्रिभिः ॥ 32 ॥
शिखण्डी तु ततः खड्गं खण्डितं तेन सायकैः आविध्य वयसृजत तूर्णं जवलन्तम इव पन्नगम ॥ 33 ॥
तम आपतन्तं सहसा कालानलसमप्रभम चिच्छेद समरे दरौणिर दर्शयन पाणिलाघवम शिखण्डिनं च विव्याध शरैर बहुभिर आयसैः ॥ 34 ॥
शिखण्डी तु भृशं राजंस ताड्यमानः शितैः शरैः आरुरॊह रथं तूर्णं माधवस्य महात्मनः ॥ 35 ॥
सात्यकिस तु ततः करुद्धॊ राक्षसं करूरम आहवे अलम्बुसं शरैर घॊरैर विव्याध बलिनां बली ॥ 36 ॥
राक्षसेन्द्रस ततस तस्य धनुश चिच्छेद भारत अर्धचन्द्रेण समरे तं च विव्याध सायकैः मायां च राक्षसीं कृत्वा शरवर्षैर अवाकिरत ॥ 37 ॥
तत्राद्भुतम अपश्याम शैनेयस्य पराक्रमम नासंभ्रमद यत समरे वध्यमानः शितैः शरैः ॥ 38 ॥
ऐन्द्रम अस्त्रं च वार्ष्णेयॊ यॊजयाम आस भारत विजयाद यद अनुप्राप्तं माधवेन यशस्विना ॥ 39 ॥
तद अस्त्रं भस्मसात कृत्वा मायां तां राक्षसीं तदा अलम्बुसं शरैर घॊरैर अभ्याकिरत सर्वशः पर्वतं वारिधाराभिः परावृषीव बलाहकः ॥ 40 ॥
तत तथा पीडितं तेन माधवेन महात्मना परदुद्राव भयाद रक्षॊ हित्वा सात्यकिम आहवे ॥ 41 ॥
तम अजेयं राक्षसेन्द्रं संख्ये मघवता अपि शैनेयः पराणदज जित्वा यॊधानां तव पश्यताम ॥ 42 ॥
नयहनत तावकांश चापि सात्यकिः सत्यविक्रमः निशितैर बहुभिर बाणैस ते ऽदरवन्त भयार्दिताः ॥ 43 ॥
एतस्मिन्न एव काले तु दरुपदस्यात्मजॊ बली धृष्टद्युम्नॊ महाराज तव पुत्रं जनेश्वरम छादयाम आस समरे शरैः संनतपर्वभिः ॥ 44 ॥
संछाद्यमानॊ विशिखैर धृष्टद्युम्नेन भारत विव्यथे न च राजेन्द्र तव पुत्रॊ जनेश्वरः ॥ 45 ॥
धृष्टद्युम्नं च समरे तूर्णं विव्याध सायकैः षष्ट्या च तरिंशता चैव तद अद्भुतम इवाभवत ॥ 46 ॥
तस्य सेनापतिः करुद्धॊ धनुश चिच्छेद मारिष हयांश च चतुरः शीघ्रं निजघान महारथः शरैश चैनं सुनिशितैः कषिप्रं विव्याध सप्तभिः ॥ 47 ॥
स हताश्वान महाबाहुर अवप्लुत्य रथाद बली पदातिर असिम उद्यम्य पराद्रवत पार्षतं परति ॥ 48 ॥
शकुनिस तं समभ्येत्य राजगृद्धी महाबलः राजानं सर्वलॊकस्य रथम आरॊपयत सवकम ॥ 49 ॥
ततॊ नृपं पराजित्य पार्षतः परवीरहा नयहनत तावकं सैन्यं वज्रपाणिर इवासुरम ॥ 50 ॥
कृतवर्मा रणे भीमं शरैर आर्च्छन महारथम परच्छादयाम आस च तं महामेघॊ रविं यथा ॥ 51 ॥
ततः परहस्य समरे भीमसेनः परंतपः परेषयाम आस संक्रुद्धः सायकान कृतवर्मणे ॥ 52 ॥
तैर अर्द्यमानॊ ऽतिरथः सात्वतः शस्त्रकॊविदः नाकम्पत महाराज भीमं चार्छच छितैः शरैः ॥ 53 ॥
तस्याश्वांश चतुरॊ हत्वा भीमसेनॊ महाबलः सारथिं पातयाम आस धवजं च सुपरिष्कृतम ॥ 54 ॥
शरैर बहुविधैश चैनम आचिनॊत परवीहरा शकलीकृतसर्वाङ्गः शवाविद्वत समदृश्यत ॥ 55 ॥
हताश्वात तु रथात तूर्णं वृषकस्य रथं ययौ सयालस्य ते महाराज तव पुत्रस्य पश्यतः ॥ 56 ॥
भीमसेनॊ ऽपि संक्रुद्धस तव सैन्यम उपाद्रवत निजघान च संक्रुद्धॊ दण्डपाणिर इवान्तकः ॥ 57 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 78
Reach this point to mark the section finished.
Continue to अध्याय 79