धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 80

  1. [स] ततॊ युधिष्ठिरॊ राजा मध्यं पराप्ते दिवाकरे शरुतायुषम अभिप्रेक्ष्य चॊदयाम आस वाजिनः ॥ 1 ॥

  2. अभ्यधावत ततॊ राजा शरुतायुषम अरिंदमम विनिघ्नन सायकैस तीक्ष्णैर नवभिर नतपर्वभिः ॥ 2 ॥

  3. स संवार्य रणे राजा परेषितान धर्मसूनुना शरान सप्त महेष्वासः कौन्तेयाय समर्पयत ॥ 3 ॥

  4. ते तस्य कवचं भित्त्वा पपुः शॊणितम आहवे असून इव विचिन्वन्तॊ देहे तस्य महात्मनः ॥ 4 ॥

  5. पाण्डवस तुभृशं विद्धस तेन राज्ञा महात्मना रणे वराहकर्णेन राजानं हृदि विव्यधे ॥ 5 ॥

  6. अथापरेण भल्लेन केतुं तस्य महात्मनः रथश्रेष्ठॊ रथात तूर्णं भूमौ पार्थॊ नयपातयत ॥ 6 ॥

  7. केतुं निपतितं दृष्ट्वा शरुतायुः स तु पार्थिवः पाण्डवं विशिखैस तीक्ष्णै राजन विव्याध सप्तभिः ॥ 7 ॥

  8. ततः करॊधात परजज्वाल धर्मपुत्रॊ युधिष्ठिरः यथा युगान्ते भूतानि धक्ष्यन्न इव हुताशनः ॥ 8 ॥

  9. करुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसः परविव्यथुर महाराज वयाकुलं चाप्य अभूज जगत ॥ 9 ॥

  10. सर्वेषां चैव भूतानाम इदम आसीन मनॊगतम तरीँल लॊकान अद्य संक्रुद्धॊ नृपॊ ऽयं धक्ष्यतीति वै ॥ 10 ॥

  11. ऋषयश चैव देवाश च चक्रुः सवस्त्ययनं महत लॊकानां नृप शान्त्य अर्थं करॊधिते पाण्डवे तदा ॥ 11 ॥

  12. स च करॊधसमाविष्टः सृक्किणी परिलेलिहन दधारात्म वपुर घॊरं युगान्तादित्यसंनिभम ॥ 12 ॥

  13. ततः सर्वाणि सैन्यानि तावकानि विशां पते निराशान्य अभवंस तत्र जीवितं परति भारत ॥ 13 ॥

  14. स तु धैर्येण तं कॊपं संनिवार्य महायशाः शरुतायुषः परचिच्छेद मुष्टिदेशे महद धनुः ॥ 14 ॥

  15. अथैनं छिन्नधन्वानं नाराचेन सतनान्तरे निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः ॥ 15 ॥

  16. स तवरं चरणे राजंस तस्य वाहान महात्मनः निजघान शरैः कषिप्रं सूतं च सुमहाबलः ॥ 16 ॥

  17. हताश्वं तु रथं तयक्त्वा दृष्ट्वा राज्ञस तु पौरुषम विप्रदुद्राव वेगेन शरुतायुः समरे तदा ॥ 17 ॥

  18. तस्मिञ जिते महेष्वासे धर्मपुत्रेण संयुगे दुर्यॊधन बलं राजन सर्वम आसीत पराङ्मुखम ॥ 18 ॥

  19. एतत कृत्वा महाराज धर्मपुत्रॊ युधिष्ठिरः वयात्ताननॊ यथाकालस तव सैन्यं जघान ह ॥ 19 ॥

  20. चेकितानस तु वार्ष्णेयॊ गौतमं रथिनां वरम परेक्षतां सर्वसैन्यानां छादयाम आस सायकैः ॥ 20 ॥

  21. संनिवार्य शरांस तांस तु कृपः शारद्वतॊ युधि चेकितानं रणे यत्तं राजन विव्याध पत्रिभिः ॥ 21 ॥

  22. अथापरेण भल्लेन धनुश चिच्छेद मारिष सारथिं चास्य समरे कषिप्रहस्तॊ नयपातयत हयांश चास्यावधीद राजन्न उभौ च पार्ष्णिसारथी ॥ 22 ॥

  23. सॊ ऽवप्लुत्य रथात तूर्णं गदां जग्राह सात्वतः स तया वीर घातिन्या गदया गदिनां वरः गौतमस्य हयान हत्वा सारथिं च नयपातयत ॥ 23 ॥

  24. भूमिष्ठॊ गौतमस तस्य शरांश चिक्षेप षॊडश ते शराः सात्वतं भित्त्वा पराविशन्त धरातलम ॥ 24 ॥

  25. चेकितानस ततः करुद्धः पुनश चिक्षेप तां गदाम गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरंदरः ॥ 25 ॥

  26. ताम आपतन्तीं विमलाम अश्मगर्भां महागदाम शरैर अनेकसाहस्रैर वारयाम आस गौतमः ॥ 26 ॥

  27. चेकितानस ततः खड्गं कॊशाद उद्धृत्य भारत लाघवं परम आस्थाय गौतमं समुपाद्रवत ॥ 27 ॥

  28. गौतमॊ ऽपि धनुस तयक्त्वा परगृह्यासिं सुसंशितम वेगेन महता राजंश चेकितानम उपाद्रवत ॥ 28 ॥

  29. ताव उभौ बलसंपन्नौ निस्त्रिंशवरधारिणौ निस्त्रिंशाभ्यां सुतीक्ष्णाभ्याम अन्यॊन्यं संततक्षतुः ॥ 29 ॥

  30. निस्त्रिंशवेगाभिहतौ ततस तौ पुरुषर्षभौ धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम मूर्छयाभिपरीताङ्गौ वयायामेन च मॊहितौ ॥ 30 ॥

  31. ततॊ ऽभयधावद वेगेन करकर्षः सुहृत तया चेकितानं तथा भूतं दृष्ट्वा समरदुर्मदम रथम आरॊपयच चैनं सर्वसैन्यस्य पश्यतः ॥ 31 ॥

  32. तथैव शकुनिः शूरः सयालस तव विशां पते आरॊपयद रथं तूर्णं गौतमं रथिनां वरम ॥ 32 ॥

  33. सौमदत्तिं तथा करुद्धॊ धृष्टकेतुर महाबलः नवत्या सायकैः कषिप्रं राजन विव्याध वक्षसि ॥ 33 ॥

  34. सौमदत्तिर उरःस्थैर तैर भृशं बाणैर अशॊभत मध्यं दिने महाराज रश्मिभिस तपनॊ यथा ॥ 34 ॥

  35. भूरिश्रवास तु समरे धृष्टकेतुं महारथम हतसूत हयं चक्रे विरथं सायकॊत्तमैः ॥ 35 ॥

  36. विरथं चैनम आलॊक्य हताश्वं हतसारथिम महता शरवर्षेण छादयाम आस संयुगे ॥ 36 ॥

  37. स च तं रथम उत्सृज्य धृष्टकेतुर महामनाः आरुरॊह ततॊ यानं शतानीकस्य मारिष ॥ 37 ॥

  38. चित्रसेनॊ विकर्णश च राजन दुर्मर्षणस तथा रथिनॊ हेमसंनाहाः सौभद्रम अभिदुद्रुवुः ॥ 38 ॥

  39. अभिमन्यॊस ततस तैस तु घॊरं युद्धम अवर्तत शरीरस्य यथा राजन वातपित्त कफैस तरिभिः ॥ 39 ॥

  40. विरथांस तव पुत्रांस तु कृत्वा राजन महाहवे न जघान नरव्याघ्रः समरन भीम वचस तदा ॥ 40 ॥

  41. ततॊ राज्ञां बहुशतैर गजाश्वरथयायिभिः संवृतं समरे भीष्मं देवैर अपि दुरासदम ॥ 41 ॥

  42. परयान्तं शीघ्रम उद्वीक्ष्य परित्रातुं सुतांस तव अभिमन्युं समुद्दिश्य बालम एकं महारथम वासुदेवम उवाचेदं कौन्तेयः शवेतवाहनः ॥ 42 ॥

  43. चॊदयाश्वान हृषीकेश यत्रैते बहुला रथाः एते हि बहवः शूरा कृतास्त्रा युद्धदुर्मदाः यथा न हन्युर नः सेनां तथा माधव चॊदय ॥ 43 ॥

  44. एवम उक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा रथं शवेतहयैर युक्तं परेषयाम आस संयुगे ॥ 44 ॥

  45. निष्टानकॊ महान आसीत तव सैन्यस्य मारिष यद अर्जुन रणे करुद्धः संयातस तावकान परति ॥ 45 ॥

  46. समासाद्य तु कौन्तेयॊ राज्ञस तान भीष्मरक्षिणः सुशर्माणम अथॊ राजन्न इदं वचनम अब्रवीत ॥ 46 ॥

  47. जानामि तवां युधि शरेष्ठम अत्यन्तं पूर्ववैरिणम पर्यायस्याद्य संप्राप्तं फलं पश्य सुदारुणम अद्य ते दर्शयिष्यामि पूर्वप्रेतान पितामहान ॥ 47 ॥

  48. एवं संजल्पतस तस्य बीभत्सॊः शत्रुघातिनः शरुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः न चैवम अब्रवीत किं चिच छुभं वा यदि वाशुभम ॥ 48 ॥

  49. अभि गत्वार्जुनं वीरं राजभिर बहुभिर वृतः पुरस्तात पृष्ठतश चैव पार्श्वतश चैव सर्वतः ॥ 49 ॥

  50. परिवार्यार्जुनं संख्ये तव पुत्रैः सहानघ शरैः संछादयाम आस मेघैर इव दिवाकरम ॥ 50 ॥

  51. ततः परवृत्तः सुमहान संग्रामः शॊणितॊदकः तावकानां च समरे पाण्डवानां च भारत ॥ 51 ॥

Reach this point to mark the section finished.

Continue to अध्याय 81

Previous: अध्याय 79