[स] अथात्मजं तव पुनर गाङ्गेयॊ धयानम आस्थितम अब्रवीद भरतश्रेष्ठः संप्रहर्षकरं वचः ॥ 1 ॥
अहं दरॊणश च शल्यश च कृतवर्मा च सात्वतः अश्वत्थामा विकर्णश च सॊमदत्तॊ ऽथ सैन्धवः ॥ 2 ॥
विन्दानुविन्दाव आवन्त्यौ बाह्लिकः सह बाह्लिकैः तरिगर्तराजश च बली मागधश च सुदुर्जयः ॥ 3 ॥
बृहद्बलश च कौसल्यश चित्रसेनॊ विविंशतिः रथाश च बहुसाहस्राः शॊभमाना महाध्वजाः ॥ 4 ॥
देवजाश च हया राजन सवारूढा हयसादिभिः गजेन्द्राश च महॊद्वृत्ताः परभिन्नकरटा मुखाः ॥ 5 ॥
पदाताश च तथा शूरा नानाप्रहरणायुधाः नानादेशसमुत्पन्नास तवदर्थे यॊद्धुम उद्यताः ॥ 6 ॥
एते चान्ये च बहवस तवदर्थे तयक्तजीविताः देवान अपि रणे जेतुं समर्था इति मे मतिः ॥ 7 ॥
अवश्यं तु मया राजंस तव वाच्यं हितं सदा अशक्याः पाण्डवा जेतुं देवैर अपि स वासवैः वासुदेवसहायाश च महेन्द्रसमविक्रमाः ॥ 8 ॥
सर्वथाहं तु राजेन्द्र करिष्ये वचनं तव पाण्डवान वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः ॥ 9 ॥
एवम उक्त्वा ददौ चास्मै विशल्यकरणीं शुभाम ओषधीं वीर्यसंपन्नां विशल्यश चाभवत तदा ॥ 10 ॥
ततः परभाते विमले सवेनानीकेन वीर्यवान अव्यूहत सवयं वयूहं भीष्मॊ वयूह विशारदः ॥ 11 ॥
मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम संपूर्णं यॊधमुख्यैश च तथा दन्ति पदातिभिः ॥ 12 ॥
रथैर अनेकसाहस्रैः समन्तात परिवारितम अश्वबृन्दैर महद्भिश च ऋष्टितॊमरधारिभिः ॥ 13 ॥
नागे नागे रथा सप्त सप्त चाश्वा रथे रथे अन्व अश्वं दश धानुष्का धानुष्के सप्त चर्मिणः ॥ 14 ॥
एवं वयूहं महाराज तव सैन्यं महारथैः सथितं रणाय महते भीष्मेण युधि पालितम ॥ 15 ॥
दशाश्वानां सहस्राणि दन्तिनां च तथैव च रथानाम अयुतं चापि पुत्राश च तव दंशिताः चित्रसेनादयः शूरा अभ्यरक्षन पितामहम ॥ 16 ॥
रक्ष्यमाणश च तैः शूरैर गॊप्यमानाश च तेन ते संनद्धाः समदृश्यन्त राजानश च महाबलाः ॥ 17 ॥
दुर्यॊधनस तु समरे दंशितॊ रथम आस्थितः वयभ्राजत शरिया जुष्टॊ यथा शक्रस तरिविष्टपे ॥ 18 ॥
ततः शब्दॊ महान आसीत पुत्राणां तव भारत रथगॊषश च तुमुलॊ वादित्राणां च निस्वनः ॥ 19 ॥
भीष्मेण धार्तराष्ट्राणां वयूढः परत्यङ्मुखॊ युधि मण्डलः सुमहाव्यूहॊ दुर्भेद्यॊ ऽमित्रघातिनम सर्वतः शुशुभे राजन रणे ऽरीणां दुरासदः ॥ 20 ॥
मण्डलं तु समालॊक्य वयूहं परमदारुणम सवयं युधिष्ठिरॊ राजा वयूहं वज्रम अथाकरॊत ॥ 21 ॥
तथा वयूढेष्व अनीकेषु यथास्थानम अवस्थिताः रथिनः सादिनश चैव सिंहनादम अथानदन ॥ 22 ॥
बिभित्सवस ततॊ वयूहं निर्ययुर युद्धकाङ्क्षिणः इतरेतरतः शूराः सह सैन्याः परहारिणः ॥ 23 ॥
भारद्वाजॊ ययौ मत्स्यं दरौणिश चापि शिखण्डिनम सवयं दुर्यॊधनॊ राजा पार्षतं समुपाद्रवत ॥ 24 ॥
नकुलः सहदेवश च राजन मद्रेशम ईयतुः विन्दानुविन्दाव आवन्त्याव इरावन्तम अभिद्रुतौ ॥ 25 ॥
सर्वे नृपास तु समरे धनंजयम अयॊधयन भीमसेनॊ रणे यत्तॊ हार्दिक्यं समवारयत ॥ 26 ॥
चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभॊ आर्जुनिः समरे राजंस तव पुत्रान अयॊधयत ॥ 27 ॥
पराग्ज्यॊतिषं महेष्वासं हैडिम्बॊ राक्षसॊत्तमः अभिदुद्राव वेगेन मत्तॊ मत्तम इव दविपम ॥ 28 ॥
अलम्बुसस ततॊ राजन सात्यकिं युद्धदुर्मदम स सैन्यं समरे करुद्धॊ राक्षसः समभिद्रवत ॥ 29 ॥
भूरिश्रवा रणे यत्तॊ धृष्टकेतुम अयॊधयत शरुतायुषं तु राजानं धर्मपुत्रॊ युधिष्ठिरः ॥ 30 ॥
चेकितानस तु समरे कृपम एवान्य्वयॊधयत शेषाः परतिययुर यत्ता भीमम एव महारथम ॥ 31 ॥
ततॊ राजसहस्राणि परिवव्रुर धनंजयम शक्तितॊमरनाराचगदापरिघपाणयः ॥ 32 ॥
अर्जुनॊ ऽथ भृशं करुद्धॊ वार्ष्णेयम इदम अब्रवीत पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे वयूढानि वयूह विदुषा गाङ्गेयेन महात्मना ॥ 33 ॥
युद्धाभिकामाञ शूरांश च पश्य माधव दंशितान तरिगर्तराजं सहितं भरातृभिः पश्य केशव ॥ 34 ॥
अद्यैतान पातयिष्यामि पश्यतस ते जनार्दन य इमे मां यदुश्रेष्ठ यॊद्धुकामा रणाजिरे ॥ 35 ॥
एवम उक्त्वा तु कौन्तेयॊ धनुर्ज्याम अवमृज्य च ववर्ष शरवर्षाणि नराधिप गणान परति ॥ 36 ॥
ते ऽपि तं परमेष्वासाः शरवर्षैर अपूरयन तडागम इव धाराभिर यथा परावृषि तॊयदा ॥ 37 ॥
हाहाकारॊ महान आसीत तव सैन्यविशां पते छाद्यमानौ भृशं कृष्णौ शरैर दृष्ट्वा महारणे ॥ 38 ॥
देवा देवर्षयश चैव गन्धर्वाश च महॊरगाः विस्मयं परमं जग्मुर दृट्वा कृष्णौ तथागतौ ॥ 39 ॥
ततः करुद्धॊ ऽरजुनॊ राजन्न ऐन्द्रम अस्त्रम उदीरयत तत्राद्भुतम अपश्याम विजयस्य पराक्रमम ॥ 40 ॥
शस्त्रवृष्टिं परैर मुक्तां शरौघैर यद अवारयत न च तत्राप्य अनिर्भिन्नः कश चिद आसीद विशां पते ॥ 41 ॥
तेषां राजसहस्राणां हयानां दन्तिनां तथा दवाभ्यां तरिभिः शरैश चान्यान पार्थॊ विव्याध मारिष ॥ 42 ॥
ते हन्यमानाः पार्थेन भीष्मं शांतनवं ययुः अगाधे मज्जमानानां भीष्मस तराताभवत तदा ॥ 43 ॥
आपतद्भिस तु तैस तत्र परभग्नं तावकं बलम संचुक्षुभे महाराज वातैर इव महार्णवः ॥ 44 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 77
Reach this point to mark the section finished.
Continue to अध्याय 78