धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 76

  1. [स] अथ शूरा महाराज परस्परकृतागसः जग्मुः सवशिबिराण्य एव रुधिरेण समुक्षिताः ॥ 1 ॥

  2. विश्रम्य च यथान्यायं पूजयित्वा परस्परम संनधाः समदृश्यन्त भूयॊ युद्धचिकीर्षया ॥ 2 ॥

  3. ततस तव सुतॊ राजंश चिन्तयाभिपरिप्लुतः विस्रवच छॊणिताक्ताङ्गः पप्रच्छेदं पितामहम ॥ 3 ॥

  4. सैन्यानि रौद्राणि भयानकानि; वयूढानि सम्यग बहुल धवजानि विदार्य हत्वा च निपीड्य शूरास; ते पाण्डवानां तवरिता रथौघाः ॥ 4 ॥

  5. संमॊह्य सर्वान युधि कीर्तिमन्तॊ; वयूहं च तं मकरं वज्रकल्पम परविश्य भीमेन निबर्हितॊ ऽसमि; घॊरैः शरैर मृत्युदण्डप्रकाशैः ॥ 5 ॥

  6. करुद्धं तम उद्वीक्ष्य भयेन राजन; संमूर्छितॊ नालभं शान्तिम अद्य इच्छे परसादात तव सत्यसंघ; पराप्तुं जयं पाण्डवेयांश च हन्तुम ॥ 6 ॥

  7. तेनैवम उक्तः परहसन महात्मा; दुर्यॊधनं जातमन्युं विदित्वा तं परत्युवाचाविमना मनस्वी; गङ्गासुतः शस्त्रभृतां वरिष्ठः ॥ 7 ॥

  8. परेण यत्नेन विगाह्य सेनां; सर्वात्मनाहं तव राजपुत्र इच्छामि दातुं विजयं सुखं च; न चात्मानं छादये ऽहं तवदर्थे ॥ 8 ॥

  9. एते तु रौद्रा बहवॊ महारथा; यशस्विनः शूरतमाः कृतास्त्राः ये पाण्डवानां समरे सहाया; जितक्लमाः करॊधविषं वमन्ति ॥ 9 ॥

  10. ते नेह शक्याः सहसा विजेतुं; वीर्यॊन्नद्धाः कृतवैरास तवया च अहं हय एतान परतियॊत्स्यामि राजन; सर्वात्मना जीवितं तयज्य वीर ॥ 10 ॥

  11. रणे तवार्थाय महानुभाव; न जीवितं रक्ष्यतमं ममाद्य सर्वांस तवार्थाय स देव दैत्याँल; लॊकान दहेयं किम उ शत्रूंस तवेह ॥ 11 ॥

  12. तत पाण्डवान यॊधयिष्यामि राजन; परियं च ते सर्वम अहं करिष्ये शरुत्वैव चैतत परमप्रतीतॊ; दुर्यॊधनः परीतिमना बभूव ॥ 12 ॥

  13. सर्वाणि सैन्यानि ततः परहृष्टॊ; निर्गच्छतेत्य आह नृपांश च सर्वान तद आज्ञया तानि विनिर्ययुर दरुतं; रथाश्वपादातगजायुतानि ॥ 13 ॥

  14. परहर्षयुक्तानि तु तानि राजन; महान्ति नानाविध शस्त्रवन्ति सथितानि नागाश्वपदातिमन्ति; विरेजुर आजौ तव राजन बलानि ॥ 14 ॥

  15. वृन्दैः सथिताश चापि सुसंप्रयुक्ताश; चकाशिरे दन्ति गणाः समन्तात शस्त्रास्त्रविद्भिर नरदेव यॊधैर; अधिष्ठिताः सैन्यगणास तवदीयाः ॥ 15 ॥

  16. रथैश च पादातगजाश्वसंघैः; परयाद्भिर आजौ विधिवत परणुन्नैः समुद्धतं वै तरुणार्कवर्णं; रजॊ बभौ छादयत सूर्यरश्मीन ॥ 16 ॥

  17. रेजुः पताका रथदन्त संस्था; वातेरिता भराम्यमाणाः समन्तात नाना रङ्गाः समरे तत्र राजन; मेघैर युक्ता विद्युतः खे यथैव ॥ 17 ॥

  18. धनूंषि विस्फारयतां नृपाणां; बभूव शब्दस तुमुलॊ ऽतिघॊरः विमथ्यतॊ देवमहासुरौघैर; यथार्णवस्यादि युगे तदानीम ॥ 18 ॥

  19. तद उग्रनादं बहुरूपवर्णं; तवात्मजानां समुदीर्णम एव बभूव सैन्यं रिपुसैन्यहन्तृ; युगान्तमेघौघनिभं तदानीम ॥ 19 ॥

Reach this point to mark the section finished.

Continue to अध्याय 77

Previous: अध्याय 75