[स] ततॊ दुर्यॊधनॊ राजा लॊहितायति भास्करे संग्रामरभसॊ भीमं हन्तुकामॊ ऽभयधावत ॥ 1 ॥
तम आयान्तम अभिप्रेक्ष्य नृवीरं दृढवैरिणम भीमसेनः सुसंक्रुद्ध इदं वचनम अब्रवीत ॥ 2 ॥
अयं स कालः संप्राप्तॊ वर्षपूगाभिकाङ्क्षितः अद्य तवां निहनिष्यामि यदि नॊत्सृजसे रणम ॥ 3 ॥
अद्य कुन्त्याः परिक्लेषं वनवासं च कृत्स्नशः दरौपद्याश च परिक्लेशं परणॊत्स्यामि हते तवयि ॥ 4 ॥
यत तवं दुरॊदरॊ भूत्वा पाण्डवान अवमन्यसे तस्य पापस्य गान्धारे पश्य वयसनम आगतम ॥ 5 ॥
कर्णस्य मतम आज्ञाय सौबलस्य च यत पुरा अचिन्त्यपाण्डवान कामाद यथेष्टं कृतवान असि ॥ 6 ॥
याचमानं च यन मॊहाद दाशार्हम अवमन्यसे उलूकस्य समादेशं यद ददासि च हृष्टवत ॥ 7 ॥
अद्य तवा निहनिष्यामि सानुबन्धं स बान्धवम समीकरिष्ये तत पापं यत पुरा कृतवान असि ॥ 8 ॥
एवम उक्त्वा धनुर घॊरं विकृष्यॊद्भ्राम्य चासकृत समादाय शरान घॊरान महाशनि समप्रभान ॥ 9 ॥
षड्विंशत तरसा करुद्धॊ मुमॊचाशु सुयॊधने जवलिताग्निशिखाकारान वज्रकल्पान अजिह्मगान ॥ 10 ॥
ततॊ ऽसय कार्मुकं दवाभ्यां सूतं दवाभ्यां च विव्यधे चतुर्भिर अश्वाञ जवनान अनयद यमसादनम ॥ 11 ॥
दवाभ्यां च सुविकृष्टाभ्यां शराभ्याम अरिमर्दनः छत्रं चिच्छेद समरे राज्ञस तस्य रथॊत्तमात ॥ 12 ॥
तरिभिश च तस्य चिच्छेद जवलन्तं धवजम उत्तमम छित्त्वा तं च ननादॊच्चैस तव पुत्रस्य पश्यतः ॥ 13 ॥
रथाच च स धवजः शरीमान नानारत्नविभूषितः पपात सहसा भूमिं विद्युज जलधराद इव ॥ 14 ॥
जवलन्तं सूर्यसंकाशं नागं मणिमयं शुभम धवजं कुरुपतेश छिन्नं ददृशुः सर्वपार्थिवाः ॥ 15 ॥
अथैनं दशभिर बाणैस तॊत्त्रैर इव महागजम आजघान रणे भीमः समयन्न इव महारथः ॥ 16 ॥
ततस तु राजा सिन्धूनां रथश्रेष्ठॊ जयद्रथः दुर्यॊधनस्य जग्राह पार्ष्णिसत्पुरुषॊचिताम ॥ 17 ॥
कृपश च रथिनां शरेष्ठ कौरव्यम अमितौजसम आरॊपयद रथं राजन दुर्यॊधनम अमर्षणम ॥ 18 ॥
स गाढविद्धॊ वयथितॊ भीमसेनेन संयुगे निषसाद रथॊपस्थे राजा दुर्यॊधनस तदा ॥ 19 ॥
परिवार्य ततॊ भीमं हन्तुकामॊ जयद्रथः रथैर अनेकसाहस्रैर भीमस्यावारयद दिशः ॥ 20 ॥
धृष्टकेतुस ततॊ राजन्न अभिमन्युश च वीर्यवान केकया दरौपदेयाश च तव पुत्रान अयॊधयन ॥ 21 ॥
चित्रसेनः सुचित्रश च चित्राश्वश चित्रदर्शनः चारु चित्रः सुचारुश च तथा नन्दॊपनन्दकौ ॥ 22 ॥
अष्टाव एते महेष्वासाः सुकुमारा यशस्विनः अभिमन्युरथं राजन समन्तात पर्यवारयन ॥ 23 ॥
आजघान ततस तूर्णम अभिमन्युर महामनाः एकैकं पञ्चभिर विद्ध्वा शरैः संनतपर्वभिः वज्रमृत्युप्रतीकाशैर विचित्रायुध निःसृतैः ॥ 24 ॥
अमृष्यमाणास ते सर्वे सौभद्रं रथसत्तमम ववर्षुर मार्गणैस तीक्ष्णैर गिरिं मेरुम इवाम्बुदाः ॥ 25 ॥
स पीड्यमानः समरे कृतास्त्रॊ युद्धदुर्मदः अभिमन्युर महाराज तावकान समकम्पयत यथा देवासुरे युद्धे वज्रपाणिर महासुरान ॥ 26 ॥
विकर्णस्य ततॊ भल्लान परेषयाम आस भारत चतुर्दश रथश्रेष्ठॊ घॊरान आशीविषॊपमान धवजं सूतं हयांश चास्य छित्त्वा नृत्यन्न इवाहवे ॥ 27 ॥
पुनश चान्याञ शरान पीतान अकुण्ठाग्राञ शिलाशितान परेषयाम आस सौभद्रॊ विकर्णाय महाबलः ॥ 28 ॥
ते विकर्णं समासाद्य कङ्कबर्हिण वाससः भित्त्वा देहं गता भूमिं जवलन्त इव पन्नगाः ॥ 29 ॥
ते शरा हेमपुङ्खाग्रा वयदृश्यन्त महीतले विकर्ण रुधिरक्लिन्ना वमन्त इव शॊणितम ॥ 30 ॥
विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहॊदराः अभ्यद्रवन्त समरे सौभद्रप्रमुखान रथान ॥ 31 ॥
अभियात्वा तथैवाशु रथस्थान सूर्यवर्चसः अविध्यन समरे ऽनयॊन्यं संरब्धा युद्धदुर्मदाः ॥ 32 ॥
दुर्मुखः शरुतकर्माणं विद्ध्वा सप्तभिर आशुगैः धवजम एकेन चिच्छेद सारथिं चास्य सप्तभिः ॥ 33 ॥
अश्वाञ जाम्बूनदैर जालैः परच्छन्नान वातरंहसः जघान षड्भिर आसाद्य सारथिं चाभ्यपातयत ॥ 34 ॥
स हताश्वे रथे तिष्ठञ शरुतकर्मा महारथ शक्तिं चिक्षेप संक्रुद्धॊ महॊल्कां जवलिताम इव ॥ 35 ॥
सा दुर्मुखस्य विपुलं वर्म भित्त्वा यशस्विनः विदार्य पराविशद भूमिं दीप्यमाना सुतेजना ॥ 36 ॥
तं दृष्ट्वा विरथं तत्र सुत सॊमॊ महाबलः पश्यतां सर्वसैन्यानां रथम आरॊपयत सवकम ॥ 37 ॥
शरुतकीर्तिस तथा वीरॊ जयत्सेनं सुतं तव अभ्ययात समरे राजन हन्तुकामॊ यशस्विनम ॥ 38 ॥
तस्य विक्षिपतश चापं शरुतकीर्तिर महात्मनः चिच्छेद समरे राजञ जयत्सेनः सुतस तव कषुरप्रेण सुतीक्ष्णेन परहसन्न इव भारत ॥ 39 ॥
तं दृष्ट्वा छिन्नधन्वानं शतानीकः सहॊदरम अभ्यपद्यत तेजस्वी सिंहवद विनदन मुहुः ॥ 40 ॥
शतानीकस तु समरे दृढं विस्फार्य कार्मुकम विव्याध दशभिस तूर्णं जयत्सेनं शिलीमुखैः ॥ 41 ॥
अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना शतानीकॊ जयत्सेनं विव्याध हृदये भृशम ॥ 42 ॥
तथा तस्मिन वर्तमाने दुष्कर्णॊ भरातुर अन्तिके चिच्छेद समरे चापं नाकुलेः करॊधमूर्छितः ॥ 43 ॥
अथान्यद धनुर आदाय भारसाधनम उत्तमम समादत्त शितान बाणाञ शतानीकॊ महाबलः ॥ 44 ॥
तिष्ठ तिष्ठेति चामन्त्र्य दुष्कर्णं भरातुर अग्रतः मुमॊच निशितान बाणाञ जवलितान पन्नगान इव ॥ 45 ॥
ततॊ ऽसय धनुर एकेन दवाभ्यां सूतं च मारिष चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः ॥ 46 ॥
अश्वान मनॊजवांश चास्य कल्माषान वीतकल्मषः जघान निशितैस तूर्णं सर्वान दवादशभिः शरैः ॥ 47 ॥
अथापरेण भल्लेन सुमुक्तेन निपातिना दुष्कर्णं समरे करुद्धॊ विव्याध हृदये भृशम ॥ 48 ॥
दुष्कर्णं निहतं दृष्ट्वा पञ्च राजन महारथाः जिघांसन्तः शतानीकं सर्वतः पर्यवारयन ॥ 49 ॥
छाद्यमानं शरव्रातैः शतानीकं यशस्विनम अभ्यधावन्त संरब्धाः केकयाः पञ्च सॊदराः ॥ 50 ॥
तान अभ्यापततः परेक्ष्य तव पुत्रा महारथाः परत्युद्ययुर महाराज गजा इव महागजान ॥ 51 ॥
दुर्मुखॊ दुर्जयश चैव तथा दुर्मर्षणॊ युवा शत्रुंजयः शत्रुसहः सर्वे करुद्धा यशस्विनः परत्युद्याता महाराज केकयान भरातरः समम ॥ 52 ॥
रथैर नगरसंकाशैर हयैर युक्तैर मनॊजवैः नानावर्णविचित्राभिः पताकाभिर अलंकृतैः ॥ 53 ॥
वच चापधरा वीरा विचित्रकवच धवजाः विविशुस ते परं सैन्यं सिंहा इव वनाद वनम ॥ 54 ॥
तेषां सुतुमुलं युद्धव्यतिषक्त रह दविपम अवर्तत महारौद्रं निघ्नताम इतरेतरम अन्यॊन्यागः कृतां राजन यम राष्ट्रविवर्धनम ॥ 55 ॥
मुहूर्तास्तमिते सूर्ये चक्रुर युद्धं सुदारुणम रथिनः सादिनश चैव वयकीर्यन्त सहस्रशः ॥ 56 ॥
ततः शांतनवः करुद्धः शरैः संनतपर्वभिः नाशयाम आस सेनां वै भीष्मस तेषां महात्मनाम पाञ्चालानां च सैन्यानि शरैर निन्ये यमक्षयम ॥ 57 ॥
एवं भित्त्वा महेष्वासः पाण्डवानाम अनीकिनाम कृत्वावहारं सैन्यानां ययौ सवशिबिरं नृप ॥ 58 ॥
धर्मराजॊ ऽपि संप्रेक्ष्य धृष्टद्युम्न वृकॊदरौ मूर्ध्नि चैताव उपाघ्राय संहृष्टः शिबिरं ययौ ॥ 59 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 75
Reach this point to mark the section finished.
Continue to अध्याय 76