[स] ततॊ दुर्यॊधनॊ राजा मॊहात परत्यागतस तदा शरवर्षैः पुनर भीमं परत्यवारयद अच्युतम ॥ 1 ॥
एकीभूताः पुनश चैव तव पुत्रा महारथाः समेत्य समरे भीमं यॊधयाम आसुर उद्यताः ॥ 2 ॥
भीमसेनॊ ऽपि समरे संप्राप्य सवरथं पुनः समारुह्य महाबाहुर ययौ येन तवात्मजः ॥ 3 ॥
परगृह्य च महावेगं परासु करणं दृढम चित्रं शरासनं संख्ये शरैर विव्याध ते सुतान ॥ 4 ॥
ततॊ दुर्यॊधनॊ राजा भीमसेनं महाबलम नाराचेन सुतीक्ष्णेन भृशं मर्मण्य अताडयत ॥ 5 ॥
सॊ ऽतिविद्धॊ महेष्वासस तव पुत्रेण धन्विना करॊधसंरक्तनयनॊ वेगेनॊत्क्षिप्य कार्मुकम ॥ 6 ॥
दुर्यॊधनं तरिभिर बाणैर बाह्वॊर उरसि चार्पयत स तथाभिहतॊ राजा नाचलद गिरिराड इव ॥ 7 ॥
तौ दृष्ट्वा समरे करुद्धौ विनिघ्नन्तौ परस्परम दुर्यॊधनानुजाः सर्वे शूराः संत्यक्तजीविताः ॥ 8 ॥
संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः निश्चयं मनसा कृत्वा निग्रहीतुं परचक्रमुः ॥ 9 ॥
तान आपतत एवाजौ भीमसेनॊ महाबलः परत्युद्ययौ महाराज गजः परतिगजान इव ॥ 10 ॥
भृशं करुद्धश च तेजस्वी नाराचेन समर्पयत चित्रसेनं महाराज तव पुत्रं महायशाः ॥ 11 ॥
तथेतरांस तव सुतांस ताडयाम आस भारत शरैर बहुविधैः संख्ये रुक्मपुङ्खैः सुवेगितैः ॥ 12 ॥
ततः संस्थाप्य समरे सवान्य अनीकानि सर्वशः अभिमन्युप्रभृतयस ते दवादश महारथाः ॥ 13 ॥
परेषिता धर्मराजेन भीमसेनपदानुगाः परत्युद्ययुर महाराज तव पुत्रान महाबलान ॥ 14 ॥
दृष्ट्वा रथस्थांस ताञ शूरान सूर्याग्निसमतेजसः सर्वान एव महेष्वासान भराजमानाञ शरिया वृतान ॥ 15 ॥
महाहवे दीप्यमानान सुवर्णकवचॊज्ज्वलान तत्यजुः समरे भीमं तव पुत्रा महाबलाः ॥ 16 ॥
तान नामृष्यत कौन्तेयॊ जीवमाना गता इति अन्वीय च पुनः सर्वांस तव पुत्रान अपीडयत ॥ 17 ॥
अथाभिमन्युं समरे भीमसेनेन संगतम पार्षतेन च संप्रेक्ष्य तव सैन्ये महारथाः ॥ 18 ॥
दुर्यॊधनप्रभृतयः परगृहीतशरासनाः भृशम अश्वैः परजवितैः परययुर यत्र ते रथाः ॥ 19 ॥
अपराह्णे ततॊ राजन परावर्तत महान रणः तावकानां च बलिनां परेषां चैव भारत ॥ 20 ॥
अभिमन्युर विकर्णस्य हयान हत्वा महाजवान अथैनं पञ्चविंशत्या कषुद्रकाणां समाचिनॊत ॥ 21 ॥
हताश्वं रथम उत्सृज्य विकर्णस तु महारथः आरुरॊह रथं राजंश चित्रसेनस्य भास्वरम ॥ 22 ॥
सथिताव एकरथे तौ तु भरातरौ कुरुवर्धनौ आर्जुनिः शरजालेन छादयाम आस भारत ॥ 23 ॥
दुर्जयॊ ऽथ विकर्णश च कार्ष्णिं पञ्चभिर आयसैः विव्याधाते न चाकम्पत कार्ष्णिर मेरुर इवाचलः ॥ 24 ॥
दुःशासनस तु समरे केकयान पञ्च मारिष यॊधयाम आस राजेन्द्र तद अद्भुतम इवाभवत ॥ 25 ॥
दरौपदेया रणे करुद्धा दुर्यॊधनम अवारयन एकैकस तरिभिर आनर्छत पुत्रं तव विशां पते ॥ 26 ॥
पुत्रॊ ऽपि तव दुर्धर्षॊ दरौपद्यास तनयान रणे सायकैर निशितै राजन्न आजघान पृथक पृथक ॥ 27 ॥
तैश चापि विद्धः शुशुभे रुधिरेण समुक्षितः गिरिप्रस्रवणैर यद्वद गिरिर धातुमिमिश्रितैः ॥ 28 ॥
भीष्मॊ ऽपि समरे राजन पाण्डवानाम अनीकिनीम कालयाम आस बलवान पालः पशुगणान इव ॥ 29 ॥
ततॊ गाण्डीवनिर्घॊषः परादुरासीद विशां पते दक्षिणेन वरूथिन्याः पार्थस्यारीन विनिघ्नतः ॥ 30 ॥
उत्तस्थुः समरे तत्र कबन्धानि समन्ततः कुरूणां चापि सैन्येषु पाण्डवानां च भारत ॥ 31 ॥
शॊणितॊदं रथावर्तं गजद्वीपं हयॊर्मिणम रथनौभिर नरव्याघ्राः परतेरुः सैन्यसागरम ॥ 32 ॥
छिन्नहस्ता विकवचा विदेहाश च नरॊत्तमाः पतितास तत्र दृश्यन्ते शतशॊ ऽथ सहस्रशः ॥ 33 ॥
निहतैर मत्तमातङ्गैः शॊणितौघपरिप्लुतैः भूर भाति भरतश्रेष्ठ पर्वतैर आचिता यथा ॥ 34 ॥
तत्राद्भुतम अपश्याम तव तेषां च भारत न तत्रासीत पुमान कश चिद यॊ यॊद्धुं नाभिकाङ्क्षति ॥ 35 ॥
एवं युयुधिरे वीराः परार्थयाना महद यशः तावकाः पाण्डवैः सार्धं काङ्क्षमाणा जयं युधि ॥ 36 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 74
Reach this point to mark the section finished.
Continue to अध्याय 75