धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 73

  1. संजय उवाच आत्मदॊषात तवया राजन पराप्तं वयसनम ईदृशम न हि दुर्यॊधनस तानि पश्यते भरतर्षभ यानि तवं दृष्टवान राजन धर्मसंकरकारिते ॥ 1 ॥

  2. तव दॊषात पुरा वृत्तं दयूतम एतद विशां पते तव दॊषेण युद्धं च परवृत्तं सह पाण्डवैः तवम एवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषम आत्मना ॥ 2 ॥

  3. आत्मना हि कृतं कर्म आत्मनैवॊपभुज्यते इह वा परेत्य वा राजंस तवया पराप्तं यथातथम ॥ 3 ॥

  4. तस्माद राजन सथिरॊ भूत्वा पराप्येदं वयसनं महत शृणु युद्धं यथावृत्तं शंसतॊ मम मारिष ॥ 4 ॥

  5. भीमसेनस तु निशितैर बाणैर भित्त्वा महाचमूम आससाद ततॊ वीरः सर्वान दुर्यॊधनानुजान ॥ 5 ॥

  6. दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम ॥ 6 ॥

  7. चारुचित्रं सुवर्माणं दुष्कर्णं कर्णम एव च एतान अन्यांश च सुबहून समीपस्थान महारथान ॥ 7 ॥

  8. धार्तराष्ट्रान सुसंक्रुद्धान दृष्ट्वा भीमॊ महाबलः भीष्मेण समरे गुप्तां परविवेश महाचमूम ॥ 8 ॥

  9. अथाह्वयन्त ते ऽनयॊन्यम अयं पराप्तॊ वृकॊदरः जीवग्राहं निगृह्णीमॊ वयम एनं नराधिपाः ॥ 9 ॥

  10. स तैः परिवृतः पार्थॊ भरातृभिः कृतनिश्चयैः परजासंहरणे सूर्यः करूरैर इव महाग्रहैः ॥ 10 ॥

  11. संप्राप्य मध्यं वयूहस्य न भीः पाण्डवम आविशत यथा देवासुरे युद्धे महेन्द्रः पराप्य दानवान ॥ 11 ॥

  12. ततः शतसहस्राणि रथिनां सर्वशः परभॊ छादयानं शरैर घॊरैस तम एकम अनुवव्रिरे ॥ 12 ॥

  13. स तेषां परवरान यॊधान हस्त्यश्वरथसादिनः जघान समरे शूरॊ धार्तराष्ट्रान अचिन्तयन ॥ 13 ॥

  14. तेषां वयवसितं जञात्वा भीमसेनॊ जिघृक्षताम समस्तानां वधे राजन मतिं चक्रे महामनाः ॥ 14 ॥

  15. ततॊ रथं समुत्सृज्य गदाम आदाय पाण्डवः जघान धार्तराष्ट्राणां तं बलौघमहार्णवम ॥ 15 ॥

  16. भीमसेने परविष्टे तु धृष्टद्युम्नॊ ऽपि पार्षतः दरॊणम उत्सृज्य तरसा परययौ यत्र सौबलः ॥ 16 ॥

  17. विदार्य महतीं सेनां तावकानां नरर्षभः आससाद रथं शून्यं भीमसेनस्य संयुगे ॥ 17 ॥

  18. दृष्ट्वा विशॊकं समरे भीमसेनस्य सारथिम धृष्टद्युम्नॊ महाराज दुर्मना गतचेतनः ॥ 18 ॥

  19. अपृच्छद बाष्पसंरुद्धॊ निस्वनां वाचम ईरयन मम पराणैः परियतमः कव भीम इति दुःखितः ॥ 19 ॥

  20. विशॊकस तम उवाचेदं धृष्टद्युम्नं कृताञ्जलिः संस्थाप्य माम इह बली पाण्डवेयः परतापवान ॥ 20 ॥

  21. परविष्टॊ धार्तराष्ट्राणाम एतद बलमहार्णवम माम उक्त्वा पुरुषव्याघ्र परीतियुक्तम इदं वचः ॥ 21 ॥

  22. परतिपालय मां सूत नियम्याश्वान मुहूर्तकम यावद एतान निहन्म्य आशु य इमे मद्वधॊद्यताः ॥ 22 ॥

  23. ततॊ दृष्ट्वा गदाहस्तं परधावन्तं महाबलम सर्वेषाम एव सैन्यानां संधर्षः समजायत ॥ 23 ॥

  24. तस्मिंस तु तुमुले युद्धे वर्तमाने भयानके भित्त्वा राजन महाव्यूहं परविवेश सखा तव ॥ 24 ॥

  25. विशॊकस्य वचः शरुत्वा धृष्टद्युम्नॊ ऽपि पार्षतः परत्युवाच ततः सूतं रणमध्ये महाबलः ॥ 25 ॥

  26. न हि मे विद्यते सूत जीविते ऽदय परयॊजनम भीमसेनं रणे हित्वा सनेहम उत्सृज्य पाण्डवैः ॥ 26 ॥

  27. यदि यामि विना भीमं किं मां कषत्रं वदिष्यति एकायनगते भीमे मयि चावस्थिते युधि ॥ 27 ॥

  28. अस्वस्ति तस्य कुर्वन्ति देवाः साग्निपुरॊगमाः यः सहायान परित्यज्य सवस्तिमान आव्रजेद गृहान ॥ 28 ॥

  29. मम भीमः सखा चैव संबन्धी च महाबलः भक्तॊ ऽसमान भक्तिमांश चाहं तम अप्य अरिनिषूदनम ॥ 29 ॥

  30. सॊ ऽहं तत्र गमिष्यामि यत्र यातॊ वृकॊदरः निघ्नन्तं माम अरीन पश्य दानवान इव वासवम ॥ 30 ॥

  31. एवम उक्त्वा ततॊ वीरॊ ययौ मध्येन भारतीम भीमसेनस्य मार्गेषु गदाप्रमथितैर गजैः ॥ 31 ॥

  32. स ददर्श ततॊ भीमं दहन्तं रिपुवाहिनीम वातं वृक्षान इव बलात परभञ्जन्तं रणे नृपान ॥ 32 ॥

  33. ते हन्यमानाः समरे रथिनः सादिनस तथा पादाता दन्तिनश चैव चक्रुर आर्तस्वरं महत ॥ 33 ॥

  34. हाहाकारश च संजज्ञे तव सैन्यस्य मारिष वध्यतॊ भीमसेनेन कृतिना चित्रयॊधिना ॥ 34 ॥

  35. ततः कृतास्त्रास ते सर्वे परिवार्य वृकॊदरम अभीताः समवर्तन्त शस्त्रवृष्ट्या समन्ततः ॥ 35 ॥

  36. अभिद्रुतं शस्त्रभृतां वरिष्ठं; समन्ततः पाण्डवं लॊकवीरैः सैन्येन घॊरेण सुसंगतेन; दृष्ट्वा बली पार्षतॊ भीमसेनम ॥ 36 ॥

  37. अथॊपगच्छच छरविक्षताङ्गं; पदातिनं करॊधविषं वमन्तम आश्वासयन पार्षतॊ भीमसेनं; गदाहस्तं कालम इवान्तकाले ॥ 37 ॥

  38. निःशल्यम एनं च चकार तूर्णम; आरॊपयच चात्मरथं महात्मा भृशं परिष्वज्य च भीमसेनम; आश्वासयाम आस च शत्रुमध्ये ॥ 38 ॥

  39. भरातॄन अथॊपेत्य तवापि पुत्रस; तस्मिन विमर्दे महति परवृत्ते अयं दुरात्मा दरुपदस्य पुत्रः; समागतॊ भीमसेनेन सार्धम तं यात सर्वे सहिता निहन्तुं; मा वॊ रिपुः परार्थयताम अनीकम ॥ 39 ॥

  40. शरुत्वा तु वाक्यं तम अमृष्यमाणा; जयेष्ठाज्ञया चॊदिता धार्तराष्ट्राः वधाय निष्पेतुर उदायुधास ते; युगक्षये केतवॊ यद्वद उग्राः ॥ 40 ॥

  41. परगृह्य चित्राणि धनूंषि वीरा; जयानेमिघॊषैः परविकम्पयन्तः शरैर अवर्षन दरुपदस्य पुत्रं; यथाम्बुदा भूधरं वारिजालैः निहत्य तांश चापि शरैः सुतीक्ष्णैर; न विव्यथे समरे चित्रयॊधी ॥ 41 ॥

  42. समभ्युदीर्णांश च तवात्मजांस तथा; निशाम्य वीरान अभितः सथितान रणे जिघांसुर उग्रं दरुपदात्मजॊ युवा; परमॊहनास्त्रं युयुजे महारथः करुद्धॊ भृशं तव पुत्रेषु राजन; दैत्येषु यद्वत समरे महेन्द्रः ॥ 42 ॥

  43. ततॊ वयमुह्यन्त रणे नृवीराः; परमॊहनास्त्राहतबुद्धिसत्त्वाः परदुद्रुवुः कुरवश चैव सर्वे; सवाजिनागाः सरथाः समन्तात परीतकालान इव नष्टसंज्ञान; मॊहॊपेतांस तव पुत्रान निशम्य ॥ 43 ॥

  44. एतस्मिन्न एव काले तु दरॊणः शस्त्रभृतां वरः दरुपदं तरिभिर आसाद्य शरैर विव्याध दारुणैः ॥ 44 ॥

  45. सॊ ऽतिविद्धस तदा राजन रणे दरॊणेन पार्थिवः अपायाद दरुपदॊ राजन पूर्ववैरम अनुस्मरन ॥ 45 ॥

  46. जित्वा तु दरुपदं दरॊणः शङ्खं दध्मौ परतापवान तस्य शङ्खस्वनं शरुत्वा वित्रेसुः सर्वसॊमकाः ॥ 46 ॥

  47. अथ शुश्राव तेजस्वी दरॊणः शस्त्रभृतां वरः परमॊहनास्त्रेण रणे मॊहितान आत्मजांस तव ॥ 47 ॥

  48. ततॊ दरॊणॊ राजगृद्धी तवरितॊ ऽभिययौ रणात तत्रापश्यन महेष्वासॊ भारद्वाजः परतापवान धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे ॥ 48 ॥

  49. मॊहाविष्टांश च ते पुत्रान अपश्यत स महारथः ततः परज्ञास्त्रम आदाय मॊहनास्त्रं वयशातयत ॥ 49 ॥

  50. अथ परत्यागतप्राणास तव पुत्रा महारथाः पुनर युद्धाय समरे परययुर भीमपार्षतौ ॥ 50 ॥

  51. ततॊ युधिष्ठिरः पराह समाहूय सवसैनिकान गच्छन्तु पदवीं शक्त्या भीमपार्षतयॊर युधि ॥ 51 ॥

  52. सौभद्रप्रमुखा वीरा रथा दवादश दंशिताः परवृत्तिम अधिगच्छन्तु न हि शुध्यति मे मनः ॥ 52 ॥

  53. त एवं समनुज्ञाताः शूरा विक्रान्तयॊधिनः बाढम इत्य एवम उक्त्वा तु सर्वे पुरुषमानिनः मध्यंदिनगते सूर्ये परययुः सर्व एव हि ॥ 53 ॥

  54. केकया दरौपदेयाश च धृष्टकेतुश च वीर्यवान अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः ॥ 54 ॥

  55. ते कृत्वा समरे वयूहं सूचीमुखम अरिंदमाः बिभिदुर धार्तराष्ट्राणां तद रथानीकम आहवे ॥ 55 ॥

  56. तान परयातान महेष्वासान अभिमन्युपुरॊगमान भीमसेनभयाविष्टा धृष्टद्युम्नविमॊहिता ॥ 56 ॥

  57. न संधारयितुं शक्ता तव सेना जनाधिप मदमूर्छान्वितात्मानं परमदेवाध्वनि सथिता ॥ 57 ॥

  58. ते ऽभियाता महेष्वासाः सुवर्णविकृतध्वजाः परीप्सन्तॊ ऽभयधावन्त धृष्टद्युम्नवृकॊदरौ ॥ 58 ॥

  59. तौ च दृष्ट्वा महेष्वासान अभिमन्युपुरॊगमान बभूवतुर मुदा युक्तौ निघ्नन्तौ तव वाहिनीम ॥ 59 ॥

  60. दृष्ट्वा च सहसायान्तं पाञ्चाल्यॊ गुरुम आत्मनः नाशंसत वधं वीरः पुत्राणां तव पार्षतः ॥ 60 ॥

  61. ततॊ रथं समारॊप्य केकयस्य वृकॊदरम अभ्यधावत सुसंक्रुद्धॊ दरॊणम इष्वस्त्रपारगम ॥ 61 ॥

  62. तस्याभिपततस तूर्णं भारद्वाजः परतापवान करुद्धश चिच्छेद भल्लेन धनुः शत्रुनिषूदनः ॥ 62 ॥

  63. अन्यांश च शतशॊ बाणान परेषयाम आस पार्षते दुर्यॊधनहितार्थाय भर्तृपिण्डम अनुस्मरन ॥ 63 ॥

  64. अथान्यद धनुर आदाय पार्षतः परवीरहा दरॊणं विव्याध सप्तत्या रुक्मपुङ्खैः शिलाशितैः ॥ 64 ॥

  65. तस्य दरॊणः पुनश चापं चिच्छेदामित्रकर्शनः हयांश च चतुरस तूर्णं चतुर्भिः सायकॊत्तमैः ॥ 65 ॥

  66. वैवस्वतक्षयं घॊरं परेषयाम आस वीर्यवान सारथिं चास्य भल्लेन परेषयाम आस मृत्यवे ॥ 66 ॥

  67. हताश्वात स रथात तूर्णम अवप्लुत्य महारथः आरुरॊह महाबाहुर अभिमन्यॊर महारथम ॥ 67 ॥

  68. ततः सरथनागाश्वा समकम्पत वाहिनी पश्यतॊ भीमसेनस्य पार्षतस्य च पश्यतः ॥ 68 ॥

  69. तत परभग्नं बलं दृष्ट्वा दरॊणेनामिततेजसा नाशक्नुवन वारयितुं समस्तास ते महारथाः ॥ 69 ॥

  70. वध्यमानं तु तत सैन्यं दरॊणेन निशितैः शरैः वयभ्रमत तत्र तत्रैव कषॊभ्यमाण इवार्णवः ॥ 70 ॥

  71. तथा दृष्ट्वा च तत सैन्यं जहृषे च बलं तव दृष्ट्वाचार्यं च संक्रुद्धं दहन्तं रिपुवाहिनीम चुक्रुशुः सर्वतॊ यॊधाः साधु साध्व इति भारत ॥ 71 ॥

Reach this point to mark the section finished.

Continue to अध्याय 74

Previous: अध्याय 72