धृतराष्ट्र उवाच एवं बहुगुणं सैन्यम एवं बहुविधं परम वयूढम एवं यथाशास्त्रम अमॊघं चैव संजय ॥ 1 ॥
पुष्टम अस्माकम अत्यन्तम अभिकामं च नः सदा परह्वम अव्यसनॊपेतं पुरस्ताद दृष्टविक्रमम ॥ 2 ॥
नातिवृद्धम अबालं च न कृशं न च पीवरम लघुवृत्तायतप्रायं सारगात्रम अनामयम ॥ 3 ॥
आत्तसंनाहशस्त्रं च बहुशस्त्रपरिग्रहम असियुद्धे नियुद्धे च गदायुद्धे च कॊविदम ॥ 4 ॥
परासर्ष्टितॊमरेष्व आजौ परिघेष्व आयसेषु च भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः ॥ 5 ॥
कम्पनेषु च चापेषु कणपेषु च सर्वशः कषेपणीषु च चित्रासु मुष्टियुद्धेषु कॊविदम ॥ 6 ॥
अपरॊक्षं च विद्यासु वयायामेषु कृतश्रमम शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम ॥ 7 ॥
आरॊहे पर्यवस्कन्दे सरणे सान्तरप्लुते सम्यक्प्रहरणे याने वयपयाने च कॊविदम ॥ 8 ॥
नागाश्वरथयानेषु बहुशः सुपरीक्षितम परीक्ष्य च यथान्यायं वेतनेनॊपपादितम ॥ 9 ॥
न गॊष्ठ्या नॊपचारेण न च बन्धुनिमित्ततः न सौहृदबलैश चापि नाकुलीनपरिग्रहैः ॥ 10 ॥
समृद्धजनम आर्यं च तुष्टसत्कृतबान्धवम कृतॊपकारभूयिष्ठं यशस्वि च मनस्वि च ॥ 11 ॥
सजयैश च नरैर मुख्यैर बहुशॊ मुख्यकर्मभिः लॊकपालॊपमैस तात पालितं लॊकविश्रुतैः ॥ 12 ॥
बहुभिः कषत्रियैर गुप्तं पृथिव्यां लॊकसंमतैः अस्मान अभिगतैः कामात सबलैः सपदानुगैः ॥ 13 ॥
महॊदधिम इवापूर्णम आपगाभिः समन्ततः अपक्षैः पक्षसंकाशै रथैर नागैश च संवृतम ॥ 14 ॥
नानायॊधजलं भीमं वाहनॊर्मितरङ्गिणम कषेपण्यसिगदाशक्तिशरप्राससमाकुलम ॥ 15 ॥
धवजभूषणसंबाधं रत्नपट्टेन संचितम वाहनैः परिसर्पद्भिर वायुवेगविकम्पितम ॥ 16 ॥
अपारम इव गर्जन्तं सागरप्रतिमं महत दरॊणभीष्माभिसंगुप्तं गुप्तं च कृतवर्मणा ॥ 17 ॥
कृपदुःशासनाभ्यां च जयद्रथमुखैस तथा भगदत्तविकर्णाभ्यां दरौणिसौबलबाह्लिकैः ॥ 18 ॥
गुप्तं परवीरैर लॊकस्य सारवद्भिर महात्मभिः यद अहन्यत संग्रामे दिष्टम एतत पुरातनम ॥ 19 ॥
नैतादृशं समुद्यॊगं दृष्टवन्तॊ ऽथ मानुषाः ऋषयॊ वा महाभागाः पुराणा भुवि संजय ॥ 20 ॥
ईदृशॊ हि बलौघस तु युक्तः शस्त्रास्त्रसंपदा वध्यते यत्र संग्रामे किम अन्यद भागधेयतः ॥ 21 ॥
विपरीतम इदं सर्वं परतिभाति सम संजय यत्रेदृशं बलं घॊरं नातरद युधि पाण्डवान ॥ 22 ॥
अथ वा पाण्डवार्थाय देवास तत्र समागताः युध्यन्ते मामकं सैन्यं यद अवध्यन्त संजय ॥ 23 ॥
उक्तॊ हि विदुरेणेह हितं पथ्यं च संजय न च गृह्णाति तन मन्दः पुत्रॊ दुर्यॊधनॊ मम ॥ 24 ॥
तस्य मन्ये मतिः पूर्वं सर्वज्ञस्य महात्मनः आसीद यथागतं तात येन दृष्टम इदं पुरा ॥ 25 ॥
अथ वा भाव्यम एवं हि संजयैतेन सर्वथा पुरा धात्रा यथा सृष्टं तत तथा न तद अन्यथा ॥ 26 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 72
Reach this point to mark the section finished.
Continue to अध्याय 73