[स] विहृत्य च ततॊ राजन सहिताः कुरुपाण्डवाः वयतीतायां तु शर्वर्यां पुनर युद्धाय निर्ययुः ॥ 1 ॥
तत्र शब्दॊ महान आसीत तव तेषां च भारत युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम ॥ 2 ॥
संनह्यतां पदातीनां हयानां चैव भारत शङ्खदुन्दुभिनादश च तुमुलः सर्वतॊ ऽभवत ॥ 3 ॥
ततॊ युधिष्ठिरॊ राजा धृष्टद्युम्नम अभाषत वयूहं वयूह महाबाहॊ मकरं शत्रुतापनम ॥ 4 ॥
एवम उक्तस तु पार्थेन धृष्टद्युम्नॊ महारथः वयादिदेश महाराज रथिनॊ रथिनां वरः ॥ 5 ॥
शिरॊ ऽभूद दरुपदस तस्य पाण्डवश च धनंजयः चक्षुषी सहदेवश च नकुलश च महारथः तुण्डम आसीन महाराज भीमसेनॊ महाबलः ॥ 6 ॥
सौभद्रॊ दरौपदेयाश च राक्षसश च घटॊत्कचः सात्यकिर धर्मराजश च वयूह गरीवां समास्थिताः ॥ 7 ॥
पृष्ठम आसीन महाराज विराटॊ वाहिनीपतिः धृष्टद्युम्नेन सहितॊ महत्या सेनया वृतः ॥ 8 ॥
केकया भरातरः पञ्च वामं पार्श्वं समाश्रिताः धृष्टकेतुर नरव्याघ्रः करकर्षश च वीर्यवान दक्षिणं पक्षम आश्रित्य सथिता वयूहस्य रक्षणे ॥ 9 ॥
पादयॊस तु महाराज सथितः शरीमान महारथः कुन्तिभॊजः शतानीकॊ महत्या सेनया वृतः ॥ 10 ॥
शिखण्डी तु महेष्वासः सॊमकैः संवृतॊ बली इरावांश च ततः पुच्छे मकरस्य वयवस्थितौ ॥ 11 ॥
एवम एतन महाव्यूहं वयूह्य भारत पाण्डवाः सूर्यॊदये महाराज पुनर युद्धाय दंशिताः ॥ 12 ॥
कौरवान अभ्ययुस तूर्णं हस्त्यश्वरथपत्तिभिः समुच्छ्रितैर धवजैश चित्रैः शस्त्रैश च विमलैः शितैः ॥ 13 ॥
वयूहं दृष्ट्वा तु तत सैन्यं पिता देवव्रतस तव करौञ्चेन महता राजन परत्यव्यूहत वाहिनीम ॥ 14 ॥
तस्य तुण्डे महेष्वासॊ भारद्वाजॊ वयरॊचत अश्वत्थामा कृपश चैव चक्षुर आस्तां नरेश्वर ॥ 15 ॥
कृतवर्मा तु सहितः काम्बॊजारट्ट बाह्लिकैः शिरस्य आसीन नरश्रेष्ठः शरेष्ठः सर्वधनुष्मताम ॥ 16 ॥
गरीवायां शूरसेनस तु तव पुत्रश च मारिष दुर्यॊधनॊ महाराज राजभिर बहुभिर वृतः ॥ 17 ॥
पराग्ज्यॊतिषस तु सहितॊ मद्रसौवीरकेकयैः उरस्य अभून नरश्रेष्ठ महत्या सेनया वृतः ॥ 18 ॥
सवसेनया च सहितः सुशर्मा परस्थलाधिपः वामं पक्षं समाश्रित्य दंशितः समवस्थितः ॥ 19 ॥
तुषारा यवनाश चैव शकाश च सह चूचुपैः दक्षिणं पक्षम आश्रित्य सथिता वयूहस्य भारत ॥ 20 ॥
शरुतायुश च शतायुश च सौमदत्तिश च मारिष वयूहस्य जघने तस्थू रक्षमाणाः परस्परम ॥ 21 ॥
ततॊ युद्धाय संजग्मुः पाण्डवाः कौरवैः सह सूर्यॊदये महाराज ततॊ युद्धम अभून महत ॥ 22 ॥
परतीयू रथिनॊ नागान नागाश च रथिनॊ ययुः हयारॊहा हयारॊहान रथिनश चापि सादिनः ॥ 23 ॥
सारथिं च रथी राजन कुञ्जरांश च महारणे हस्त्यारॊहा रथारॊहान रथिनश चापि सादिनः ॥ 24 ॥
रथिनः पत्तिभिः सार्धं सादिनश चापि पत्तिभिः अन्यॊन्यं समरे राजन परत्यधावन्न अमर्षिताः ॥ 25 ॥
भीमसेनार्जुन यमैर गुप्ता चान्यैर महारथैः शुशुभे पाण्डवी सेना नक्षत्रैर इव शर्वरी ॥ 26 ॥
तथा भीष्म कृप दरॊण शल्य दुर्यॊधनादिभिः तवापि विबभौ सेना गरहैर दयौर इव संवृता ॥ 27 ॥
भीमसेनस तु कौन्तेयॊ दरॊणं दृष्ट्वा पराक्रमी अभ्ययाज जवनैर अश्वैर भारद्वाजस्य वाहिनीम ॥ 28 ॥
दरॊणस तु समरे करुद्धॊ भीमं नवभिर आयसैः विव्याध समरे राजन मर्माण्य उद्दिश्य वीर्यवान ॥ 29 ॥
दृढाहतस ततॊ भीमॊ भारद्वाजस्य संयुगे सारथिं परेषयाम आस यमस्य सदनं परति ॥ 30 ॥
स संगृह्य सवयं वाहान भारद्वाजः परतापवान वयधमत पाण्डवीं सेनां तूलराशिम इवानलः ॥ 31 ॥
ते वध्यमाना दरॊणेन भीष्मेण च नरॊत्तम सृञ्जयाः केकयैः सार्धं पलायनपराभवन ॥ 32 ॥
तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम मुह्यते तत्र तत्रैव समदेव वराङ्गना ॥ 33 ॥
अभिद्येतां ततॊ वयूहौ तस्मिन वीरवरक्षये आसीद वयतिकरॊ घॊरस तव तेषां च भारत ॥ 34 ॥
तद अद्भुतम अपश्याम तावकानां परैः सह एकायनगताः सर्वे यद अयुध्यन्त भारत ॥ 35 ॥
परतिसंवार्य चास्त्राणि ते ऽनयॊन्यस्य विशां पते युयुधुः पाण्डवाश चैव कौरवाश च महारथाः ॥ 36 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 71
Reach this point to mark the section finished.
Continue to अध्याय 72