[स] अथ राजन महाबाहुः सात्यकिर युद्धदुर्मदः विकृष्य चापं समरे भारसाधनम उत्तमम ॥ 1 ॥
परामुञ्चत पुङ्खसंयुक्ताञ शरान आशीविषॊपमान परकाशं लघुचित्रं च दर्शयन्न अस्त्रलाघवम ॥ 2 ॥
तस्य विक्षिपतश चापं शरान अन्यांश च मुञ्चतः आददानस्य भूयश च संदधानस्य चापरान ॥ 3 ॥
कषिपतश च शरान अस्य रणे शत्रून विनिघ्नतः ददृशे रूपम अत्यर्थं मेघस्येव परवर्षतः ॥ 4 ॥
तम उदीर्यन्तम आलॊक्य राजा दुर्यॊधनस ततः रथानाम अयुतं तस्य परेषयाम आस भारत ॥ 5 ॥
तांस तु सर्वान महेष्वासान सात्यकिः सत्यविक्रमः जघान परमेष्वासॊ दिव्येनास्त्रेण वीर्यवान ॥ 6 ॥
स कृत्वा दारुणं कर्म परगृहीतशरासनः आससाद ततॊ वीरॊ भूरिश्रवसम आहवे ॥ 7 ॥
स हि संदृश्य सेनां तां युयुधानेन पातितम अभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः ॥ 8 ॥
इन्द्रायुधसवर्णं तत स विस्फार्य महद धनुः वयसृजद वज्रसंकाशाञ शरान आशीविषॊपमान सहस्रशॊ महाराज दर्शयन पाणिलाघवम ॥ 9 ॥
शरांस तान मृत्युसंस्पर्शान सात्यकेस तु पदानुगाः न विषेहुस तदा राजन दुद्रुवुस ते समन्ततः विहाय समरे राजन सात्यकिं युद्धदुर्मदम ॥ 10 ॥
तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः महारथाः समाख्याताश चित्रवर्मायुध धवजाः ॥ 11 ॥
समासाद्य महेष्वासं भूरिश्रवसम आहवे ऊचुर सर्वे सुसंरब्धा यूपकेतुं महारणे ॥ 12 ॥
भॊ भॊ कौरव दायाद सहास्माभिर महाबल एहि युध्यस्व संग्रामे समस्तैः पृथग एव वा ॥ 13 ॥
अस्मान वा तवं पराजित्य यशः पराप्नुहि संयुगे वयं वा तवां पराजित्य परीतिं दास्यामहे पितुः ॥ 14 ॥
एवम उक्तस तदा शूरैस तान उवाच महाबलः वीर्यश्लाघी नरश्रेष्ठस तान दृष्ट्वा समुपस्थितान ॥ 15 ॥
साध्व इदं कथ्यते वीरा यद एवं मतिर अद्य वः युध्यध्वं सहिता यत्ता निहनिष्यामि वॊ रणे ॥ 16 ॥
एवम उक्ता महेष्वासास ते वीराः कषिप्रकारिणः महता शरवर्षेण अभ्यवर्षन्न अरिंदमम ॥ 17 ॥
अपराह्णे महाराज संग्रामस तुमुलॊ ऽभवत एकस्य च बहूनां च समेतानां रणाजिरे ॥ 18 ॥
तम एकं रथिनां शरेष्ठ शरवर्षैर अवाकिरन परावृषीव महाशैलं सिषिचुर जलदा नृप ॥ 19 ॥
तैस तु मुक्ताञ शरौघांस तान यमदण्डाशनि परभान असंप्राप्तान असं पराप्तांश चिच्छेदाशु महारथः ॥ 20 ॥
तत्राद्भुतम अपश्याम सौमदत्तेः पराक्रमम यद एकॊ बहुभिर युद्धे समसज्जद अभीतवत ॥ 21 ॥
विसृज्य शरवृष्टिं तां दश राजन महारथाः परिवार्य महाबाहुं निहन्तुम उपचक्रमुः ॥ 22 ॥
सौमदत्तिस ततः करुद्धस तेषां चापानि भारत चिच्छेद दशभिर बाणैर निमेषेण महारथः ॥ 23 ॥
अथैषां छिन्नधनुषां भल्लैः संनतपर्वभिः चिच्छेद समरे राजञ शिरांसि निशितैः शरैः ते हता नयपतन भूमौ वज्रभग्ना इव दरुमाः ॥ 24 ॥
तान दृष्ट्वा निहतान वीरान रणे पुत्रान महाबलान वार्ष्णेयॊ विनदन राजन भूरिश्रवसम अभ्ययात ॥ 25 ॥
रथं रथेन समरे पीडयित्वा महाबलौ ताव अन्यॊन्यस्य समरे निहत्य रथवाजिनः विरथाव अभिवल्गन्तौ समेयातां महारथौ ॥ 26 ॥
परगृहीतमहाखड्गौ तौ चर्म वरधारिणौ शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ ॥ 27 ॥
ततः सात्यकिम अभ्येत्य निस्त्रिंशवरधारिणम भीमसेनस तवरन राजन रथम आरॊपयत तदा ॥ 28 ॥
तवापि तनयॊ राजन भूरिश्रवसम आहवे आरॊपयद रथं तूर्णं पश्यतां सर्वधन्विनाम ॥ 29 ॥
तस्मिंस तथा वर्तमाने रणे भीष्मं महारथम अयॊधयन्त संरब्धाः पाण्डवा भरतर्षभ ॥ 30 ॥
लॊहितायति चादित्ये तवरमाणॊ धनंजयः पञ्चविंशतिसाहस्रान निजघान महारथान ॥ 31 ॥
ते हि दुर्यॊधनादिष्टास तदा पार्थ निबर्हणे संप्राप्यैव गता नाशं शलभा इव पावकम ॥ 32 ॥
ततॊ मत्स्याः केकयाश च धनुर्वेद विशारदाः परिवव्रुस तदा पार्थं सह पुत्रं महारथम ॥ 33 ॥
एतस्मिन्न एव काले तु सूर्ये ऽसतम उपगच्छति सर्वेषाम एव सैन्यानां परमॊहः समजायत ॥ 34 ॥
अवहारं ततश चक्रे पिता देवव्रतस तव संध्याकाले महाराज सैन्यानां शरान्तवाहनः ॥ 35 ॥
पाण्डवानां कुरूणां च परस्परसमागमे ते सेने भृशसंविग्ने ययतुः सवं निवेशनम ॥ 36 ॥
ततः सवशिबिरं गत्वा नयविशंस तत्र भारत पाण्डवाः सृञ्जयैः सार्धं कुरवश च यथाविधि ॥ 37 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 70
Reach this point to mark the section finished.
Continue to अध्याय 71