धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 69

  1. [स] विराटॊ ऽथ तरिभिर बाणैर भीष्मम आर्छन महारथम विव्याध तुरगांश चास्य तरिभिर बाणैर महारथः ॥ 1 ॥

  2. तं परत्यविध्यद दशभिर भीष्मः शांतनवः शरैः रुक्मपुङ्खैर महेष्वासः कृतहस्तॊ महाबलः ॥ 2 ॥

  3. दरौणिर गाण्डीवधन्वानं भीम धन्वा महारथः अविध्यद इषुभिः षड्भिर दृढहस्तः सतनान्तरे ॥ 3 ॥

  4. कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा अविध्यच च भृशं तीक्ष्णैर पत्रिभिः शत्रुकर्शनः ॥ 4 ॥

  5. सॊ ऽनयत कार्मुकम आदाय वेगवत करॊधमूर्छितः अमृष्यमाणः पार्थेन कार्मुकच छेदम आहवे ॥ 5 ॥

  6. अविध्यत फल्गुनं राजन नवत्या निशितैः शरैः वासुदेवं च सप्तत्या विव्याध परमेषुभिः ॥ 6 ॥

  7. ततः करॊधाभिताम्राक्षः सह कृष्णेन फल्गुनः दीर्घम उष्णं च निःश्वस्य चिन्तयित्वा मुहुर मुहुः ॥ 7 ॥

  8. धनुः परपीड्य वामेन करेणामित्रकर्शनः गाण्डीवधन्वा संक्रुद्धः शितान संनतपर्वणः जीवितान्तकरान घॊरान समादत्त शिलीमुखान ॥ 8 ॥

  9. तैस तूर्णं समरे ऽविध्यद दरौणिं बलवतां वरम तस्य ते कवचं भित्त्वा पपुः शॊणितम आहवे ॥ 9 ॥

  10. न विव्यथे च निर्भिन्नॊ दरौणिर गाण्डीवधन्वना तथैव शरवर्षाणि परतिमुञ्चन्न अविह्वलः तस्थौ स समरे राजंस तरातुम इच्छन महाव्रतम ॥ 10 ॥

  11. तस्य तत सुमहत कर्म शशंसुः पुरुषर्षभाः यत कृष्णाभ्यां समेताभ्यां नापत्रपत संयुगे ॥ 11 ॥

  12. स हि नित्यम अनीकेषु युध्यते ऽभयम आस्थितः अस्त्रग्रामं स संहारं दरॊणात पराप्य सुदुर्लभम ॥ 12 ॥

  13. ममायम आचार्य सुतॊ दरॊणस्यातिप्रियः सुतः बराह्मणश च विशेषेण माननीयॊ ममेति च ॥ 13 ॥

  14. समास्थाय मतिं वीरॊ बीभत्सुः शत्रुतापनः कृपां चक्रे रथश्रेष्ठॊ भारद्वाज सुतं परति ॥ 14 ॥

  15. दरौणिं तयक्त्वा ततॊ युद्धे कौन्तेयः शत्रुतापनः युयुधे तावकान निघ्नंस तवरमाणः पराक्रमी ॥ 15 ॥

  16. दुर्यॊधनस तु दशभिर गार्ध्रपत्रैः शिलाशितैः भीमसेनं महेष्वासं रुक्मपुङ्खैः समर्पयत ॥ 16 ॥

  17. भीमसेनस तु संक्रुद्धः परासु करणं दृढम चित्रं कार्मुकम आदत्त शरांश च निशितान दश ॥ 17 ॥

  18. आकर्णप्रहितैस तीक्ष्णैर वेगितैस तिग्मतेजनैः अविध्यत तूर्णम अव्यग्रः कुरुराजं महॊरसि ॥ 18 ॥

  19. तस्य काञ्चनसूत्रस तु शरैः परिवृतॊ मणिः रराजॊरसि वै सूर्यॊ गरहैर इव समावृतः ॥ 19 ॥

  20. पुत्रस तु तव तेजस्वी भीमसेनेन ताडितः नामृष्यत यथा नागस तलशब्दं समीरितम ॥ 20 ॥

  21. ततः शरैर महाराज रुक्मपुङ्खैः शिलाशितैः भीमं विव्याध संक्रुद्धस तरासयानॊ वरूथिनीम ॥ 21 ॥

  22. तौ युध्यमानौ समरे भृशम अन्यॊन्यविक्षतौ पुत्रौ ते देवसंकाशौ वयरॊचेतां महाबलौ ॥ 22 ॥

  23. चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा अविध्यद दशभिर बाणैः पुरुमित्रं च सप्तभिः ॥ 23 ॥

  24. सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमॊ युधि नृत्यन्न इव रणे वीर आर्तिं नः समजीजनत ॥ 24 ॥

  25. तं परत्यविद्यद दशभिश चित्रसेनः शिलीमुखैः सत्यव्रतश च नवभिः पुरु पित्रश च सप्तभिः ॥ 25 ॥

  26. स विद्धॊ विक्षरन रक्तं शत्रुसंवारणं महत चिच्छेद चित्रसेनस्य चित्रं कार्मुकम आर्जुनिः भित्त्वा चास्य तनुत्राणं शरेणॊरस्य अताडयत ॥ 26 ॥

  27. ततस ते तावका वीरा राजपुत्रा महारथाः समेत्य युधि संरब्धा विव्यधुर निशितैः शरैः तांश च सर्वाञ शरैस तीक्ष्णैर जघान परमास्त्रवित ॥ 27 ॥

  28. तस्य दृष्ट्वा तु तत कर्म परिवव्रुः सुतास तव दहन्तं समरे सैन्यं तव कक्षं यथॊल्बणम ॥ 28 ॥

  29. अपेतशिशिरे काले समिद्धम इव पावकः अत्यरॊचत सौभद्रस तव सैन्यानि शातयन ॥ 29 ॥

  30. तत तस्य चरितं दृष्ट्वा पौत्रस तव विशां पते लक्ष्मणॊ ऽभयपतत तूर्णं सात्वती पुत्रम आहवे ॥ 30 ॥

  31. अभिमन्युस तु संक्रुद्धॊ लक्ष्मणं शुभलक्षणम विव्याध विशिखैः षड्भिः सारथिं च तरिभिः शरैः ॥ 31 ॥

  32. तथैव लक्ष्मणॊ राजन सौभद्रं निशितैः शरैः अविध्यत महाराज तद अद्भुतम इवाभवत ॥ 32 ॥

  33. तस्याश्वांश चतुरॊ हत्वा सारथिं च महाबलः अभ्यद्रवत सौभद्रॊ लक्ष्मणं निशितैः शरैः ॥ 33 ॥

  34. हताश्वे तु रथे तुष्ठँल लक्ष्मणः परवीरहा शक्तिं चिक्षेप संक्रुद्धः सौभद्रस्य रथं परति ॥ 34 ॥

  35. ताम आपतन्तीं सहसा घॊररूपां दुरासदाम अभिमन्युः शरैस तीक्ष्णैश चिच्छेद भुजगॊपमाम ॥ 35 ॥

  36. ततः सवरथम आरॊप्य लक्ष्मणं गौतमस तदा अपॊवाह रथेनाजौ सर्वसैन्यस्य पश्यतः ॥ 36 ॥

  37. ततः समाकुले तस्मिन वर्तमाने महाभये अभ्यद्रवञ जिघांसन्तः परस्परवधैषिणः ॥ 37 ॥

  38. तावकाश च महेष्वासाः पाण्डवाश च महारथाः जुह्वन्तः समरे पराणान निजघ्नुर इतरेतरम ॥ 38 ॥

  39. मुक्तकेशा विकवचा विरथाश छिन्नकार्मुकाः बाहुभिः समयुध्यन्त सृञ्जयाः कुरुभिः सह ॥ 39 ॥

  40. ततॊ भीष्मॊ महाबाहुः पाण्डवानां महात्मनाम सेनां जघान संक्रुद्धॊ दिव्यैर अस्त्रैर महाबलः ॥ 40 ॥

  41. हतेश्वरैर गजैर तत्र नरैर अश्वैश च पातितैः रथिभिः सादिभिश चैव समास्तीर्यत मेदिनी ॥ 41 ॥

Reach this point to mark the section finished.

Continue to अध्याय 70

Previous: अध्याय 68