[स] शिखण्डी सह मत्स्येन विराटेन विशां पते भीष्मम आशु महेष्वासम आससाद सुदुर्जयम ॥ 1 ॥
दरॊणं कृपं विकर्णं च महेष्वासान महाबलान राज्ञश चान्यान रणे शूरान बहून आर्छद धनंजयः ॥ 2 ॥
सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः पराच्यांश च दाक्षिणात्यांश च भूमिपान भूमिपर्षभ ॥ 3 ॥
पुत्रं च ते महेष्वासं दुर्यॊधनम अमर्षणम दुःसहं चैव समरे भीमसेनॊ ऽभयवर्तत ॥ 4 ॥
सहदेवस तु शकुनिम उलूकं च महारथम पिता पुत्रौ महेष्वासाव अभ्यवर्तत दुर्जयौ ॥ 5 ॥
युधिष्ठिरॊ महाराज गजानीकं महारथः समवर्तत संग्रामे पुत्रेण निकृतस तव ॥ 6 ॥
माद्रीपुत्रस तु नकुलः शूरः संक्रन्दनॊ युधि तरिगर्तानां रथॊदारैः समसज्जत पाण्डवः ॥ 7 ॥
अभ्यवर्तन्त दुर्धर्षाः समरे शाल्व केकयान सात्यकिश चेकितानश च सौभद्रश च महारथः ॥ 8 ॥
धृष्टकेतुश च समरे राक्षसश च घटॊत्कचः पुत्राणां ते रथानीकं परत्युद्याताः सुदुर्जयाः ॥ 9 ॥
सेनापतिर अमेयात्मा धृष्टद्युम्नॊ महाबलः दरॊणेन समरे राजन समियायेन्द्र कर्मणा ॥ 10 ॥
एवम एते महेष्वासास तावकाः पाण्डवैः सह समेत्य समरे शूराः संप्रहारं परचक्रिरे ॥ 11 ॥
मध्यंदिन गते सूर्ये नभस्य आकुलतां गते कुरवः पाण्डवेयाश च निजघ्नुर इतरेतरम ॥ 12 ॥
धवजिनॊ हेमचित्राङ्गा विचरन्तॊ रणाजिरे स पताका रथा रेजुर वैयाघ्रपरिवारणाः ॥ 13 ॥
समेतानां च समरे जिगीषूणां परस्परम बभूव तुमुलः शब्दः सिंहानाम इव नर्दताम ॥ 14 ॥
तत्राद्भुतम अपश्याम संप्रहारं सुदारुणम यम अकुर्वन रणे वीराः सृञ्जयाः कुरुभिः सह ॥ 15 ॥
नैव खं न दिशॊ राजन न सूर्यं शत्रुतापन विदिशॊ वाप्य अपश्याम शरैर मुक्तैः समन्ततः ॥ 16 ॥
शक्तीनां विमलाग्राणां तॊमराणां तथायताम निस्त्रिंशानां च पीतानां नीलॊत्पलनिभाः परभाः ॥ 17 ॥
कवचानां विचित्राणां भूषणानां परभास तथा खं दिशः परदिशश चैव भासयाम आसुर ओजसा विरराज तदा राजंस तत्र तत्र रणाङ्गणम ॥ 18 ॥
रथसिंहासन वयाघ्राः समायान्तश च संयुगे विरेजुः समरे राजन गरहा इव नभस्तले ॥ 19 ॥
भीष्मस तु रथिनां शरेष्ठॊ भीमसेनं महाबलम अवारयत संक्रुद्धः सर्वसैन्यस्य पश्यतः ॥ 20 ॥
ततॊ भीष्म विनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः अभ्यघ्नन समरे भीमं तैलधौताः सुतेजनाः ॥ 21 ॥
तस्य शक्तिं महावेगां भीमसेनॊ महाबलः करुद्धाशीविषसंकाशां परेषयाम आस भारत ॥ 22 ॥
ताम आपतन्तीं सहसा रुक्मदण्डां दुरासदाम चिच्छेद समरे भीष्मः शरैः संनतपर्वभिः ॥ 23 ॥
ततॊ ऽपरेण भल्लेन पीतेन निशितेन च कार्मुकं भीमसेनस्य दविधा चिच्छेद भारत ॥ 24 ॥
सात्यकिस तु ततस तूर्णं भीष्मम आसाद्य संयुगे शरैर बहुभिर आनर्छत पितरं ते जनेश्वर ॥ 25 ॥
ततः संधाय वै तीक्ष्णं शरं परमदारुणम वार्ष्णेयस्य रथाद भीष्मः पातयाम आस सारथिम ॥ 26 ॥
तस्याश्वाः परद्रुता राजन निहते रथसारथौ तेन तेनैव धावन्ति मनॊमारुतरंहसः ॥ 27 ॥
ततः सर्वस्य सैन्यस्य निस्वनस तुमुलॊ ऽभवत हाहाकारश च संजज्ञे पाण्डवानां महात्मनाम ॥ 28 ॥
अभिद्रवत गृह्णीत हयान यच्छत धावत इत्य आसीत तुमुलः शब्दॊ युयुधान रथं परति ॥ 29 ॥
एतस्मिन्न एव काले तु भीष्मः शांतनवः पुनः वयहनत पाण्डवीं सेनाम आसुरीम इव वृत्रहा ॥ 30 ॥
ते वध्यमाना भीष्मेण पाञ्चालाः सॊमकैः सह आर्यां युद्धे मतिं कृत्वा भीष्मम एवाभिदुद्रुवुः ॥ 31 ॥
धृष्टद्युम्नमुखाश चापि पार्थाः शांतनवं रणे अभ्यधावञ जिगीषन्तस तव पुत्रस्य वाहिनीम ॥ 32 ॥
तथैव तावका राजन भीष्मद्रॊणमुखाः परान अभ्यधावन्त वेगेन ततॊ युद्धम अवर्तत ॥ 33 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 68
Reach this point to mark the section finished.
Continue to अध्याय 69