[स] दृष्ट्वा भीष्मेण संसक्तान भरातॄन अन्यांश च पार्थिवान तम अभ्यधावद गाङ्गेयम उद्यतास्त्रॊ धनंजयः ॥ 1 ॥
पाञ्चजन्यस्य निर्घॊषं धनुषॊ गाण्डिवस्य च धवजं च दृष्ट्वा पार्थस्य सर्वान नॊ भयम आविशत ॥ 2 ॥
असज्जमानं वृक्षेषु धूमकेतुम इवॊत्थितम बहुवर्णं च चित्रं च दिव्यं वानरलक्षणम अपश्याम महाराज धवजं गाण्डिवधन्वनः ॥ 3 ॥
विद्युतं मेघमध्यस्थां भराजमानाम इवाम्बरे ददृशुर गाण्डिवं यॊधा रुक्मपृष्ठं महारथे ॥ 4 ॥
अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः सुघॊरं तलयॊः शब्दं निघ्नतस तव वाहिनीम ॥ 5 ॥
चण्डवातॊ यथा मेघः स विद्युत सतनयित्नुमान दिशः संप्लावयन सर्वाः शरवर्षैः समन्ततः ॥ 6 ॥
अभ्यधावत गाङ्गेयं भैरवास्त्रॊ धनंजयः दिशं पराचीं परतीचीं च न जानीमॊ ऽसत्रमॊहिताः ॥ 7 ॥
कांदिग भूताः शरान्तपत्रा हतास्त्रा हतचेतसः अन्यॊन्यम अभिसंश्लिष्य यॊधास ते भरतर्षभ ॥ 8 ॥
भीष्मम एवाभिलीयन्त सह सर्वैस तवात्मजैः तेषाम आर्तायनम अभूद भीष्मः शंतनवॊ रणे ॥ 9 ॥
समुत्पतन्त वित्रस्ता रथेभ्यॊ रथिनस तदा सादिनश चाश्वपृष्ठेभ्यॊ भूमौ चापि पदातयः ॥ 10 ॥
शरुत्वा गाण्डीवनिर्घॊषं विस्फूर्जितम इवाशनेः सर्वसैन्यानि भीतानि वयवलीयन्त भारत ॥ 11 ॥
अथ काम्बॊजमुख्यैस तु बृहद्भिः शीघ्रगामिभिः गॊपानां बहुसाहस्रैर बलैर गॊवासनॊ वृतः ॥ 12 ॥
मद्रसौवीरगान्धारैस तरिगर्तैश च विशां पते सर्वकालिङ्गमुख्यैश च कलिङ्गाधिपतिर वृतः ॥ 13 ॥
नागा नरगणौघाश च दुःशासन पुरःसराः जयद्रथश च नृपतिः सहितः सर्वराजभिः ॥ 14 ॥
हयारॊह वराश चैव तत पुत्रेण चॊदिताः चतुर्दशसहस्राणि सौबलं पर्यवारयन ॥ 15 ॥
ततस ते सहिताः सर्वे विभक्तरथवाहनाः पाण्डवान समरे जग्मुस तावका भरतर्षभ ॥ 16 ॥
रथिभिर वारणैर अश्वैः पदातैश च समीरितम घॊरम आयॊधनं जज्ञे महाभ्रसदृशं रजः ॥ 17 ॥
तॊमरप्रासनाराच गजाश्वरथयॊधिनाम बलेन महता भीष्मः समसज्जत किरीटिना ॥ 18 ॥
आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः अजातशत्रुर मद्राणाम ऋषभेण यशस्विना सह पुत्रः सहामात्यः शल्येन समसज्जत ॥ 19 ॥
विकर्णः सहदेवेन चित्रसेनः शिखण्डिना मत्स्या दुर्यॊधनं जग्मुः शकुनिं च विशां पते ॥ 20 ॥
दरुपदश चेकितानश च सात्यकिश च महारथः दरॊणेन समसज्जन्त सपुत्रेण महात्मना कृपश च कृतवर्मा च धृष्टकेतुम अभिद्रुतौ ॥ 21 ॥
एवं परजविताश्वानि भरान्तनागरथानि च सैन्यानि समसज्जन्त परयुद्धानि समन्ततः ॥ 22 ॥
निरभ्रे विद्युतस तीव्रा दिशश च रजसावृताः परादुरासन महॊल्काश च स निर्घाता विशां पते ॥ 23 ॥
परववौ च महावातः पांसुवर्षं पपात च नभस्य अन्तर्दधे सूर्यः सैन्येन रजसावृतः ॥ 24 ॥
परमॊहः सर्वसत्त्वानाम अतीव समपद्यत रजसा चाभिभूतानाम अस्त्रजालैश च तुद्यताम ॥ 25 ॥
वीरबाहुविषृष्टानां सर्वावरणभेदिनाम संघातः शरजालानां तुमुलः समपद्यत ॥ 26 ॥
परकाशं चक्रुर आकाशं युद्यतानि भुजॊत्तमैः नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ ॥ 27 ॥
आर्षभाणि विचित्राणि रुक्मजालावृतानि च संपेतुर दिक्षु सर्वासु चर्माणि भरतर्षभ ॥ 28 ॥
सूर्यवर्णैश च निस्त्रिंशैः पात्यमानानि सर्वशः दिक्षु सर्वास्व अदृश्यन्त शरीराणि शिरांसि च ॥ 29 ॥
भग्नचक्राक्ष नीडाश च निपातितमहाध्वजाः हताश्वाः पृथिवीं जग्मुस तत्र तत्र महारथाः ॥ 30 ॥
परिपेतुर हयाश चात्र के चिच छत्रकृतव्रणाः रथान विपरिकर्षन्तॊ हतेषु रथयॊधिषु ॥ 31 ॥
शराहता भिन्नदेहा बद्धयॊक्त्रा हयॊत्तमाः युगानि पर्यकर्षन्त तत्र तत्र सम भारत ॥ 32 ॥
अदृश्यन्त ससूताश च साश्वाः स रथयॊधिनः एकेन बलिना राजन वारणेन हता रथाः ॥ 33 ॥
गन्धहस्तिमदस्रावम आघ्राय बहवॊ रणे संनिपाते बलौघानां वीतम आददिरे गजाः ॥ 34 ॥
स तॊमरमहामात्रैर निपतद्भिर गतासुभिः बभूवायॊधनं छन्नं नाराचाभिहतैर गजैः ॥ 35 ॥
संनिपाते बलौघानां परेषितैर वरवारणैः निपेतुर युधि संभग्नाः स यॊधाः स धवजा रथाः ॥ 36 ॥
नागराजॊपमैर हस्तैर नागैर आक्षिप्य संयुगे वयदृश्यन्त महाराज संभग्ना रथकूबराः ॥ 37 ॥
विशीर्णरथजालाश च केशेष्व आक्षिप्य दन्तिभिः दरुमशाखा इवाविध्य निष्पिष्टा रथिनॊ रणे ॥ 38 ॥
रथेषु च रथान युद्धे संसक्तान वरवारणाः विकर्षन्तॊ दिशः सर्वाः संपेतुः सर्वशब्दगाः ॥ 39 ॥
तेषां तथा कर्षतां च गजानां रूपम आबभौ सरःसु नलिनी जालं विषक्तम इव कर्षताम ॥ 40 ॥
एवं संछादितं तत्र बभूवायॊधनं महत सादिभिश च पदातैश च स धवजैश च महारथैः ॥ 41 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 67
Reach this point to mark the section finished.
Continue to अध्याय 68