[स] अकरॊत तुमुलं युद्धं भीष्मः शांतनवस तदा भीमसेन भयाद इच्छन पुत्रांस तारयितुं तव ॥ 1 ॥
पूर्वाह्णे तन महारौद्रं राज्ञां युद्धम अवर्तत कुरूणां पाण्डवानां च मुख्यशूर विनाशनम ॥ 2 ॥
तस्मिन्न आकुलसंग्रामे वर्तमाने महाभये अभवत तुमुलः शब्दः संस्पृशन गगनं महत ॥ 3 ॥
नदद्भिश च महानागैर हेषमाणैश च वाजिभिः भेरीशङ्खनिनादैश च तुमुलः समपद्यत ॥ 4 ॥
युयुत्सवस ते विक्रान्ता विजयाय महाबलाः अन्यॊन्यम अभिगर्जन्तॊ गॊष्ठेष्व इव महर्षभाः ॥ 5 ॥
शिरसां पात्यमानानां समरे निशितैः शरैः अश्मवृष्टिर इवाकाशे बभूव भरतर्षभ ॥ 6 ॥
कुण्डलॊष्णीष धारीणि जातरूपॊज्ज्वलानि च पतितानि सम दृश्यन्ते शिरांसि भरतर्षभ ॥ 7 ॥
विशिखॊन्मथितैर गात्रैर बाहुभिश च स कार्मुकैः स हस्ताभरणैश चान्यैर अभवच छादिता मही ॥ 8 ॥
कवचॊपहितैर गात्रैर हस्तैश च समलंकृतैः मुखैश च चन्द्रसंकाशै रक्तान्तनयनैः शुभैः ॥ 9 ॥
गजवाजिमनुष्याणां सर्वगात्रैश च भूपते आसीत सर्वा समाकीर्णा मुहूर्तेन वसुंधरा ॥ 10 ॥
रजॊमेघैश च तुमुलैः शस्त्रविद्युत परकाशितैः आयुधानां च निर्घॊषः सतनयित्नुसमॊ ऽभवत ॥ 11 ॥
स संप्रहारस तुमुलः कटुकः शॊणितॊदकः परावर्तत कुरूणां च पाण्डवानां च भारत ॥ 12 ॥
तस्मिन महाभये घॊरे तुमुले लॊमहर्षणे ववर्षुः शरवर्षाणि कषत्रिया युद्धदुर्मदाः ॥ 13 ॥
करॊशन्ति कुञ्जरास तत्र शरवर्ष परतापिताः तावकानां परेषां च संयुगे भरतॊत्तम अश्वाश च पर्यधावन्त हतारॊहा दिशॊ दश ॥ 14 ॥
उत्पत्य निपतन्त्य अन्ये शरघात परपीडिताः तावकानां परेषां च यॊधानां भरतर्षभ ॥ 15 ॥
अश्वानां कुञ्जराणां च रथानां चातिवर्तताम संघाताः सम परदृश्यन्ते तत्र तत्र विशां पते ॥ 16 ॥
गदाभिर असिभिः परासैर बाणैश च नतपर्वभिः जघ्नुः परस्परं तत्र कषत्रियाः कालचॊदिताः ॥ 17 ॥
अपरे बाहुभिर वीरा नियुद्ध कुशला युधि बहुधा समसज्जन्त आयसैः परिघैर इव ॥ 18 ॥
मुष्टिभिर जानुभिश चैव तलैश चैव विशां पते अन्यॊन्यं जघ्निरे वीरास तावकाः पाण्डवैः सह ॥ 19 ॥
विरथा रथिनश चात्र निस्त्रिंशवरधारिणः अन्यॊन्यम अभिधावन्त परस्परवधैषिणः ॥ 20 ॥
ततॊ दुर्यॊधनॊ राजा कलिङ्गैर बहुभिर वृतः पुरस्कृत्य रणे भीष्मं पाण्डवान अभ्यवर्तत ॥ 21 ॥
तथैव पाण्डवाः सर्वे परिवार्य वृकॊदरम भीष्मम अभ्यद्रवन करुद्धा रणे रभस वाहनाः ॥ 22 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 66
Reach this point to mark the section finished.
Continue to अध्याय 67