[स] वयुषितायां च शर्वर्याम उदिते च दिवाकरे उभे सेने महाराज युद्धायैव समीयतुः ॥ 1 ॥
अभ्यधावंश च संक्रुद्धाः परस्परजिगीषवः ते सर्वे सहिता युद्धे समालॊक्य परस्परम ॥ 2 ॥
पाण्डवा धार्तराष्ट्राश च राजन दुर्मन्त्रिते तव वयूहौ च वयूह्य संरब्धाः संप्रयुद्धाः परहारिणः ॥ 3 ॥
अरक्षन मकरव्यूहं भीष्मॊ राजन समन्ततः तथैव पाण्डवा राजन्न अरक्षन वयूहम आत्मनः ॥ 4 ॥
स निर्ययौ रथानीकं पिता देवव्रतस तव महता रथवंशेन संवृतॊ रथिनां वरः ॥ 5 ॥
इतरेतरम अन्वीयुर यथाभागम अवस्थिताः रथिनः पत्तयश चैव दन्तिनः सादिनस तथा ॥ 6 ॥
तान दृष्ट्वा परॊद्यतान संख्ये पाण्डवाश च यशस्विनः शयेनेन वयूह राजेन तेनाजय्येन संयुगे ॥ 7 ॥
अशॊभत मुखे तस्य भीमसेनॊ महाबलः नेत्रे शिखण्डी दुर्धर्षे धृष्टद्युम्नश च पार्षतः ॥ 8 ॥
शीर्षं तस्याभवद वीरः सात्यकिः सत्यविक्रमः विधुन्वन गाण्डिवं पार्थॊ गरीवायाम अभवत तदा ॥ 9 ॥
अक्षौहिण्या समग्रा या वामपक्षॊ ऽभवत तदा महात्मा दरुपदः शरीमान सह पुत्रेण संयुगे ॥ 10 ॥
दक्षिणश चाभवत पक्षः कैकेयॊ ऽकषौहिणीपतिः पृष्ठतॊ दरौपदेयाश च सौभद्रश चापि वीर्यवान ॥ 11 ॥
पृष्ठे समभवच छरीमान सवयं राजा युधिष्ठिरः भरातृभ्यां सहितॊ धीमान यमाभ्यां चारु विक्रमः ॥ 12 ॥
परविश्य तु रणे भीमॊ मकरं मुखतस तदा भीष्मम आसाद्य संग्रामे छादयाम आस सायकैः ॥ 13 ॥
ततॊ भीष्मॊ महास्त्राणि पातयाम आस भारत मॊहयन पाण्डुपुत्राणां वयूढं सैन्यं महाहवे ॥ 14 ॥
संमुह्यति तदा सैन्ये तवरमाणॊ धनंजयः भीष्मं शरसहस्रेण विव्याध रणमूर्धनि ॥ 15 ॥
परिसंवार्य चास्त्राणि भीष्म मुक्तानि संयुगे सवेनानीकेन हृष्टेन युद्धाय समवस्थितः ॥ 16 ॥
ततॊ दुर्यॊधनॊ राजा भारद्वाजम अभाषत पूर्वं दृष्ट्वा वधं घॊरं बलस्य बलिनां वरः भरातॄणां च वधं युद्धे समरमाणॊ महारथः ॥ 17 ॥
आचार्य सततं तवं हि हितकामॊ ममानघ वयं हि तवां समाश्रित्य भीष्मं चैव पितामहम ॥ 18 ॥
देवान अपि रणे जेतुं परार्थयामॊ न संशयः किम उ पाण्डुसुतान युद्धे हीनवीर्यपराक्रमान ॥ 19 ॥
एवम उक्तस ततॊ दरॊणस तव पुत्रेण मारिष अभिनत पाण्डवानीकं परेक्षमाणस्य सात्यकेः ॥ 20 ॥
सात्यकिस तु तदा दरॊणं वारयाम आस भारत ततः परववृते युद्धं तुमुलं लॊमहर्षणम ॥ 21 ॥
शैनेयं तु रणे करुद्धॊ भारद्वाजः परतापवान अविध्यन निशितैर बाणैर जत्रु देशे हसन्न इव ॥ 22 ॥
भीमसेनस ततः करुद्धॊ भारद्वाजम अविध्यत संरक्षन सात्यकिं राजन दरॊणाच छस्त्रभृतां वरात ॥ 23 ॥
ततॊ दरॊणश च भीष्मश च तथा शल्यश च मारिष भीमसेनं रणे करुद्धाश छादयां चक्रिरे शरैः ॥ 24 ॥
तत्राभिमन्युः संक्रुद्धॊ दरौपदेयाश च मारिष विव्यधुर निशितैर बाणैः सर्वांस तान उद्यतायुधान ॥ 25 ॥
भीष्मद्रॊणौ च संक्रुद्धाव आपतन्तौ महाबलौ परत्युद्ययौ शिखण्डी तु महेष्वासॊ महाहवे ॥ 26 ॥
परगृह्य बलवद वीरॊ धनुर जलदनिस्वनम अभ्यवर्षच छरैस तूर्णं छादयानॊ दिवाकरम ॥ 27 ॥
शिखण्डिनं समासाद्य भरतानां पितामहः अवर्जयत संग्रामे सत्रीत्वं तस्यानुसंस्मरन ॥ 28 ॥
ततॊ दरॊणॊ महाराज अभ्यद्रवत तं रणे रक्षमाणस ततॊ भीष्मं तव पुत्रेण चॊदितः ॥ 29 ॥
शिखण्डी तु समासाद्य दरॊणं शस्त्रभृतां वरम अवर्जयत संग्रामे युगान्ताग्निम इवॊल्बणम ॥ 30 ॥
ततॊ बलेन महता पुत्रस तव विशां पते जुगॊप भीष्मम आसाद्य परार्थयानॊ महद यशः ॥ 31 ॥
तथैव पाण्डवा राजन पुरस्कृत्य धनंजयम भीष्मम एवाभ्यवर्तन्त जये कृत्वा दृढां मतिम ॥ 32 ॥
तद युद्धम अभवद घॊरं देवानां दानवैर इव जयं च काङ्क्षतां नित्यं यशश च परमाद्भुतम ॥ 33 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 65
Reach this point to mark the section finished.
Continue to अध्याय 66