धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 64

  1. [भस] शृणु चेदं महाराज बरह्मभूतस्तवं मम बरह्मर्षिभिश च देवैश च यः पुरा कथितॊ भुवि ॥ 1 ॥

  2. साध्यानाम अपि देवानां देवदेवेश्वरः परभुः लॊकभावन भावज्ञ इति तवां नारदॊ ऽबरवीत भूतं भव्यं भविष्यं च मार्कण्डेयॊ ऽभयुवाच ह ॥ 2 ॥

  3. यज्ञानां चैव यज्ञं तवां तपश च तपसाम अपि देवानाम अपि देवं च तवाम आह भगवान भृगुः पुराणे भैरवं रूपं विष्णॊ भूतपते ति वै ॥ 3 ॥

  4. वासुदेवॊ वसूनां तवं शक्रं सथापयिता तथा देवदेवॊ ऽसि देवानाम इति दवैपायनॊ ऽबरवीत ॥ 4 ॥

  5. पूर्वे परजा निसर्गेषु दक्षम आहुः परजापतिम सरष्टारं सर्वभूतानाम अङ्गिरास तवां ततॊ ऽबरवीत ॥ 5 ॥

  6. अव्यक्तं ते शरीरॊत्थं वयक्तं ते मनसि सथितम देवा वाक संभवाश चेति देवलस तव असितॊ ऽबरवीत ॥ 6 ॥

  7. शिरसा ते दिवं वयाप्तं बाहुभ्यां पृथिवी धृता जठरं ते तरयॊ लॊकाः पुरुषॊ ऽसि सनातनः ॥ 7 ॥

  8. एवं तवाम अभिजानन्ति तपसा भविता नराः आत्मदर्शनतृप्तानाम ऋषीणां चापि सत्तमः ॥ 8 ॥

  9. राजर्षीणाम उदाराणाम आहवेष्व अनिवर्तिनाम सर्वधर्मप्रधानानां तवं गतिर मधुसूदन ॥ 9 ॥

  10. एष ते विस्तरस तात संक्षेपश च परकीर्तितः केशवस्य यथातत्त्वं सुप्रीतॊ भव केशवे ॥ 10 ॥

  11. [स] पुण्यं शरुत्वैतद आख्यानं महाराज सुतस तव केशवं बहु मेने स पाण्डवांश च महारथान ॥ 11 ॥

  12. तम अब्रवीन महाराज भीष्मः शांतनवः पुनः माहात्म्यं ते शरुतं राजन केशवस्य महात्मनः ॥ 12 ॥

  13. नरस्य च यथातत्त्वं यन मां तवं परिपृच्छसि यदर्थं नृषु संभूतौ नरनारायणाव उभौ ॥ 13 ॥

  14. अवध्यौ च यथा वीरौ संयुगेष्व अपराजितौ यथा च पाण्डवा राजन्न अगम्या युधि कस्य चित ॥ 14 ॥

  15. परीतिमान हि दृढं कृष्णः पाण्डवेषु यशस्विषु तस्माद बरवीमि राजेन्द्र शमॊ भवतु पाण्डवैः ॥ 15 ॥

  16. पृथिवीं भुङ्क्ष्व सहितॊ भरातृभिर बलिभिर वशी नरनारायणौ देवाव अवज्ञाय नशिष्यसि ॥ 16 ॥

  17. एवम उक्त्वा तव पिता तूष्णीम आसीद विशां पते वयसर्जयच च राजानं शयनं च विवेश ह ॥ 17 ॥

  18. राजापि शिबिरं परायात परणिपत्य महात्मने शिश्ये च शयने शुभ्रे तां रात्रिं भरतर्षभ ॥ 18 ॥

Reach this point to mark the section finished.

Continue to अध्याय 65

Previous: अध्याय 63