[दुर] वासुदेवॊ महद भूतं सर्वलॊकेषु कथ्यते तस्यागमं परतिष्ठां च जञातुम इच्छे पितामह ॥ 1 ॥
[भस] वासुदेवॊ महद भूतं संभूतं सह दैवतैः न परं पुण्डरीकाक्षाद दृश्यते भरतर्षभ मार्कण्डेयश च गॊविन्दं कथयत्य अद्भुतं महत ॥ 2 ॥
सर्वभूतानि भूतात्मा महात्मा पुरुषॊत्तमः आपॊ वायुश च तेजश च तरयम एतद अकल्पयत ॥ 3 ॥
स सृष्ट्वा पृथिवीं देवः सर्वलॊकेश्वरः परभुः अप्सु वै शयनं चक्रे महात्मा पुरुषॊत्तमः सर्वतॊयमयॊ देवॊ यॊगात सुष्वाप तत्र ह ॥ 4 ॥
मुखतः सॊ ऽगनिम असृजत पराणाद वायुम अथापि च सरस्वतीं च वेदांश च मनसः ससृजे ऽचयुतः ॥ 5 ॥
एष लॊकान ससर्जादौ देवांश चर्षिगणैः सह निधनं चैव मृत्युं च परजानां परभवॊ ऽवययः ॥ 6 ॥
एष धर्मश च धर्मज्ञॊ वरदः सर्वकामदः एष कर्ता च कार्यं च पूर्वदेवः सवयंप्रभुः ॥ 7 ॥
भूतं भव्यं भविष्यच च पूर्वम एतद अकल्पयत उभे संध्ये दिशः खं च नियमं च जनार्दनः ॥ 8 ॥
ऋषींश चैव हि गॊविन्दस तपश चैवानु कल्पयत सरष्टारं जगतश चापि महात्मा परभुर अव्ययः ॥ 9 ॥
अग्रजं सर्वभूतानां संकर्षणम अकल्पयत शेषं चाकल्पयद देवम अनन्तम इति यं विदुः ॥ 10 ॥
यॊ धारयति भूतानि धरां चेमां स पर्वताम धयानयॊगेन विप्राश च तं वदन्ति महौजसम ॥ 11 ॥
कर्ण सरॊत उद्भवं चापि मधुं नाम महासुरम तम उग्रम उग्रकर्माणम उग्रां बुद्धिं समास्थितम बरह्मणॊ ऽपचितिं कुर्वञ जघान पुरुषॊत्तमः ॥ 12 ॥
तस्य तात वधाद एव देवदानव मानवाः मधुसूदनम इत्य आहुर ऋषयश च जनार्दनम वराहश चैव सिंहश च तरिविक्रम गतिः परभुः ॥ 13 ॥
एष माता पिता चैव सर्वेषां पराणिनां हरिः परं हि पुण्डरीकाक्षान न भूतं न भविष्यति ॥ 14 ॥
मुखतॊ ऽसृजद बराह्मणान बाहुभ्यां कषत्रियांस तथा वैश्यांश चाप्य उरुतॊ राजञ शूद्रान पद्भ्यां तथैव च तपसा नियतॊ देवॊ निधानं सर्वदेहिनाम ॥ 15 ॥
बरह्मभूतम अमावास्यां पौर्णमास्यां तथैव च यॊगभूतं परिचरन केशवं महद आप्नुयात ॥ 16 ॥
केशवः परमं तेजः सर्वलॊकपितामहः एवम आहुर हृषीकेशं मुनयॊ वै नराधिप ॥ 17 ॥
एवम एनं विजानीहि आचार्यं पितरं गुरुम कृष्णॊ यस्य परसीदेत लॊकास तेनाक्षया जिताः ॥ 18 ॥
यश चैवैनं भयस्थाने केशवं शरणं वरजेत सदा नरः पठंश चेदं सवस्तिमान स सुखी भवेत ॥ 19 ॥
ये च कृष्णं परपद्यन्ते ते न मुह्यन्ति मानवाः भये महति ये मग्नाः पाति नित्यं जनार्दनः ॥ 20 ॥
एतद युधिष्ठिरॊ जञात्वा याथातथ्येन भारत सर्वात्मना महात्मानं केशवं जगद ईश्वरम परपन्नः शरणं राजन यॊगानाम ईश्वरं परभुम ॥ 21 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 63
Reach this point to mark the section finished.
Continue to अध्याय 64